अध्यायः 081

पार्थपराक्रमः ॥ 1 ॥ भीमेन दुर्योधनचोदितस्य शकुनेः पराजयः ॥ 2 ॥

सञ्जय उवाच । 001
श्रुत्वा तु रथनिर्घोषं सिंहनादं च संयुगे । 001a
अर्जुनः प्राह गोविन्दं शीघ्रं वाहय वाजिनः ॥ 001c
अर्जुनस्य वचः श्रुत्वा गोविन्दोऽर्जुनमब्रवीत् । 002a
एष गच्छामि सुक्षिप्रं यत्र भीमो व्यवस्थितः ॥ 002c
तं यान्तमश्वा हिमशङ्खवर्णाः सुवर्णमुक्तामणिजालनद्धाः । 003a
जम्भं जिघांसुं प्रगृहीतवज्रं हया यथा तत्र यथा वहंस्तदा ॥ 003c
रथाश्वमातङ्गपदातिसङ्घा बाणस्वनैर्नेमिखुरस्वनैश्च । 004a
सन्नादयन्तो वसुधां दिशश्च क्रुद्धा नृसिंहा जयमभ्युदीयुः ॥ 004c
तेषां च पार्थस्य च मारिषासीद्देहासुपापक्षपणं सुयुद्धम् । 005a
त्रैलोक्यहेतोरसुरैर्यथासीद्देवस्य विष्णोर्जयतां वरस्य ॥ 005c
तैरस्तमुच्चावचमायुधं तदेकः प्रचिच्छेद किरीटमाली । 006a
क्षुरार्धचन्द्रैर्निशितैश्च भल्लैः शिरांसि तेषां बहुधा च बाहून् ॥ 006c
छत्राणि वालव्यजनानि केतूनश्वान्रथान्पत्तिगणान्द्विपांश्च । 007a
ते पेतुरुर्व्यां बहुधा विकृत्ता वातप्रणुन्नानि यथा वनानि ॥ 007c
सुवर्णजालावनता महागजाः सवैजयन्तीध्वजयोधकल्पिताः । 008a
सुवर्णपुङ्घैरिषुभिः समाचिताश्चकाशिरे प्रज्वलिता यथाचलाः ॥ 008c
विदार्य नागाश्वरथान्धनञ्जयः शरोत्तमैर्वासववज्रसन्निभैः । 009a
द्रुतं ययौ कर्णजिघांसया तथा यथा मरुत्वान्बलभेदने पुरा ॥ 009c
ततः स पुरुषव्याघ्रस्तव सैन्यमरिन्दमः । 010a
प्रविवेश महाबाहुर्मकरः सागरं यथा ॥ 010c
तं हृष्टास्तावका राजन्रथपत्तिसमन्विताः । 011a
गजाश्वसादिबहुलाः पाण्डवं समुपाद्रवन् ॥ 011c
तेषामापततां पार्थमारावः सुमहानभूत् । 012a
सागरस्येव क्षुब्धस्य यथा स्यात्सलिलस्वनः ॥ 012c
ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाः । 013a
अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा प्राणकृतं भयम् ॥ 013c
तेषामापततां तत्र शरवर्षाणि मुञ्चताम् । 014a
अर्जुनो व्यधमत्सैन्यं महावातो घनानिव ॥ 014c
तेऽर्जुनं सहिता भूत्वा रथवंशैः प्रहारिणः । 015a
अभियाय महेष्वासा विव्यधुर्निशितैः शरैः ॥ 015c
ततोऽर्जुनः सहस्राणि रथवारणवाजिनाम् । 016a
प्रेषयामास विशिखैर्यमस्य सदनं प्रति ॥ 016c
ते वध्यमानाः समरे पार्थचापच्युतैः शरैः । 017a
तत्रतत्र स्म लीयन्ते भये जाते महारथाः ॥ 017c
तेषां चतुःशतान्वीरान्यतमानान्महारथान् । 018a
अर्जुनो निशितैर्बाणैरनयद्यमसादनम् ॥ 018c
ते वध्यमानाः समरे नानालिङ्गैः शितैः शरैः । 019a
अर्जुनं समभित्यज्य दुद्रुवुर्वै दिशो दश ॥ 019c
तेषां शब्दो महानासीद्द्रवतां वाहिनीमुखे । 020a
मेघौघस्येव भद्रं ते गिरिमासाद्य दीर्यतः ॥ 020c
तां तु सेनां भृशं विद्ध्वा द्रावयित्वाऽर्जुनः शरैः । 021a
प्रायादभिमुखः पार्थः सूतानीकं हि मारिष ॥ 021c
तस्य शब्दो महानासीत्परानभिमुखस्य वै । 022a
गरुडस्येव पततः पन्नगार्थे यथा पुरा ॥ 022c
तं तु शब्दमभिश्रुत्य भीमसेनो महाबलः । 023a
बभूव परमप्रीतः पार्थदर्शनलालसः ॥ 023c
श्रुत्वैव पार्थमायान्तं भीमसेनः प्रतापवान् । 024a
त्यक्त्वा प्राणान्महाराज सेनां तव ममर्द ह ॥ 024c
स वायुवीर्यप्रतिमो वायुवेगसमो जवे । 025a
वायुवद्व्यचरद्भीमो वायुपुत्रः प्रतापवान् ॥ 025c
तेनार्द्यमाना राजेन्द्र सेना तव विशाम्पते । 026a
व्यभ्रश्यत महाराज भिन्ना नौरिव सागरे ॥ 026c
तां तु सेनां तदा भीमो दर्शयन्पाणिलाघवम् । 027a
शरैरवचकर्तोग्रैः प्रेपयिष्यन्यमक्षयम् ॥ 027c
तत्र भारत भीमस्य बलं दृष्ट्वातिमानुषम् । 028a
व्यत्रस्यन्त रणे योधाः कालस्येव युगक्षये ॥ 028c
तथाऽर्दितान्भीमबलान्भीमसेनेन भारत । 029a
दृष्ट्वा दुर्योधनो राजा इदं वचनमब्रवीत् ॥ 029c
सैनिकांश्च महेष्वासान्योधांश्च भरतर्षभ । 030a
समादिशन्रणे सर्वान्हत भीममिति स्म ह ॥ 030c
तस्मिन्हते हतं मन्ये पाण्डुसैन्यमशेषतः ॥ 031ac
प्रतिगृह्य च तामाज्ञां तव पुत्रस्य पार्थिवाः । 032a
भीमं प्रच्छादयामासुः शरवर्षैः समन्ततः ॥ 032c
गजाश्च बहुला राजन्नराश्च जयगृद्धिनः । 033a
रथे स्थिताश्च राजेन्द्र परिवव्रुर्वृकोदरम् ॥ 033c
स तैः परिवृतः शूरैः शूरो राजन्समन्ततः । 034a
शुशुभे भरतश्रेष्ठो नक्षत्रैरिव चन्द्रमाः ॥ 034c
परिवेषी यथा सोमः परिपूर्णो विराजते । 035a
स रराज तथा सङ्ख्ये दर्शनीयो नरोत्तमः । 035c
निर्विशेषो महाराज विजयेनैव संयुगे ॥ 035e
तस्य ते पार्थिवाः सर्वे शरवृष्टिं समासृजन् । 036a
क्रोधरक्तेक्षणाः शूरा हन्तुकामा वृकोदरम् ॥ 036c
तां विदार्य महासेनां शरैः सन्नतपर्वभिः । 037a
निश्चक्राम रणाद्भीमो मत्स्यो जालादिवाम्भसि ॥ 037c
हत्वा दशसहस्राणि गजानामनिवर्तिनाम् । 038a
नृणां शतसहस्रे द्वे द्वे शते चैव भारत ॥ 038c
पञ्च चाश्वसहस्राणि रथानां शतमेव च । 039a
हत्वा प्रास्यन्दयद्भीमो नदीं शोणितवाहिनीम् ॥ 039c
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् । 040a
नरमीनाश्वनक्रान्तां केशशैवलशाद्वलाम् ॥ 040c
सञ्छिन्नभुजनागेन्द्रां बहुरत्नापहारिणीम् । 041a
ऊरुग्राहां मज्जपङ्कां शीर्षोपलसमावृताम् ॥ 041c
धनुःकाशां शरावापां गदापरिघकेतनाम् । 042a
हंसछत्रध्वजोपेतामुष्णीषवरफेनिलाम् ॥ 042c
हारपद्माकरां चैव भूमिरेणूर्मिमालिनीम् । 043a
आर्यवृत्तवतीं सङ्ख्ये सुतरां भीरुदुस्तराम् ॥ 043c
योधग्राहवतीं सङ्ख्ये वहन्तीं पितृसादनम् । 044a
क्षणेन पुरुषव्याघ्रः प्रावर्तयत निम्नगाम् ॥ 044c
यथा वैतरणीमुग्रां दुस्तरामकृतात्मभिः । 045a
तथा दुस्तरणीं घोरां भीरूणां भयवर्धनीम् ॥ 045c
यतोयतः पाण्डवेयः प्रविष्टो रथसत्तमः । 046a
ततस्ततः प्रापतन्वै योधाः शतसहस्रशः ॥ 046c
एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगे । 047a
दुर्योधनो महाराज शकुनिं वाक्यमब्रवीत् ॥ 047c
जहि मातुल सङ्ग्रामे भीमसेनं महाबलम् । 048a
अस्मिञ्जिते जितं मन्ये पाण्डवेयं महाबलम् ॥ 048c
ततः प्रायान्महाराज सौबलेयः प्रतापवान् । 049a
रणाय महते युक्तो भ्रातृभिः परिवारितः ॥ 049c
स समासाद्य सङ्ग्रामे भीमं भीमपराक्रमम् । 050a
वारयामास तं वीरो वेलेव मकरालयम् ॥ 050c
सन्न्यवर्तत तं भीमो वार्यमाणः शितैः शरैः । 051a
शकुनिस्तस्य राजेन्द्र वामपार्श्वे स्तनान्तरे । 051c
प्रेषयामास नाराचान्रुक्मपुङ्खाञ्शिलाशितान् ॥ 051e
वर्म भित्त्वा तु ते घोराः पाण्डवस्य महात्मनः । 052a
न्यमज्जन्त महाराज कङ्कबर्हिणवाससः ॥ 052c
सोऽतिविद्धो रणे भीमः शरं रुक्मविभूषितम् । 053a
प्रेषयामास स रुषा सौबलं प्रति भारत ॥ 053c
तमायान्तं शरं घोरं शकुनिः शत्रुतापनः । 054a
चिच्छेद सप्तधा राजन्कृतहस्तो महाबलः ॥ 054c
तस्मिन्निपतिते भूमौ भीमः क्रुद्धो विशाम्पते । 055a
धनुश्छिच्छेद भल्लेन सौबलस्य हसन्निव ॥ 055c
तदपास्य धनुश्छिन्नं सौबलेयः प्रतापवान् । 056a
अन्यदादाय वेगेन धनुर्भल्लांश्च षोडश । 056c
तैस्तस्य तु महाराज भल्लैः सन्नतपर्वभिः ॥ 056e
द्वाभ्यां स सारथिं ह्यार्च्छद्भीमं सप्तभिरेव च । 057a
ध्वजमेकेन चिच्छेद द्वाभ्यां छत्रं विशाम्पते । 057c
चतुर्भिश्चतुरो वाहान्विव्याध सुबलात्मजः ॥ 057e
ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् । 058a
शक्तिं चिक्षेप समरे रुक्मदण्डामयस्मयीम् ॥ 058c
सा भीमभुजनिर्मुक्ता नागजिह्वेव चञ्चला । 059a
निपपात रणे तूर्णं सौबलस्य महात्मनः ॥ 059c
ततस्तामेव सङ्गृह्य शक्तिं कनकभूषणाम् । 060a
भीमसेनाय चिक्षेप क्रुद्धरूपो विशाम्पते ॥ 060c
सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः । 061a
निपपात तदा भूमौ यथा विद्युन्नभश्च्युता ॥ 061c
अथोत्क्रुष्टं महाराज धार्तराष्ट्रैः समन्ततः । 062a
न तु तं ममृषे भीमः सिंहनादं तरस्विनाम् ॥ 062c
अन्यद्गृह्य धनुः सज्यं त्वरमाणो महाबलः । 063a
मुहूर्तादिव राजेन्द्र च्छादयामास सायकैः । 063c
सौबलस्य बलं सङ्ख्ये त्यक्त्वा नादं महाबलः ॥ 063e
तस्याश्वांश्चतुरो हत्वा सूतं चैव विशाम्पते । 064a
ध्वजं चिच्छेद भल्लेन त्वरमाणः पराक्रमी ॥ 064c
हताश्वं रथमुत्सृज्य त्वरमाणो नरोत्तमः । 065a
तस्थौ विस्फारयंश्चापं क्रोधरक्तेक्षणः श्वसन् ॥ 065c
शरैश्च बहुधा राजन्भीममार्च्छत्समन्ततः ॥ 066ac
प्रतिहत्य तु वेगेन भीमसेनः प्रतापवान् । 067a
धनुश्चिच्छेद सङ्क्रुद्धो विव्याध च शितैः शरैः ॥ 067c
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः । 068a
निपपात तदा भूमौ किञ्चित्प्राणो नराधिपः ॥ 068c
ततस्तं विह्वलं ज्ञात्वा पुत्रस्तव विशाम्पते । 069a
अपोवाह रथेनाजौ भीमसेनस्य पश्यतः ॥ 069c
शकुनिं विह्वलं दृष्ट्वा धार्तराष्ट्राः पराङ्मुखाः । 070a
प्रदुद्रुवुर्दिशो भीता भीमसेनभयात्प्रभो ॥ 070c
सौबले निर्जिते राजन्भीमसेनेन धन्विना । 071a
भयेन महताऽऽविष्टः पुत्रो दुर्योधनस्तव । 071c
अपायाज्जवनैरश्वैः सापेक्षो मातुलं प्रति ॥ 071e
पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत । 072a
विप्रजग्मुः समुत्सृज्य द्वैरथानि समन्ततः ॥ 072c
तान्दृष्ट्वा विद्रुतान्सर्वान्धार्तराष्ट्रान्पराङ्मुखान् । 073a
जवेनाभ्यापतद्भीमः किरञ्शरशतान्बहून् ॥ 073c
ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः । 074a
कर्णमासाद्य समरे स्थिता राजन्समन्ततः ॥ 074c
स हि तेषां महावीर्यो द्वीपोऽभूत्सुमहाबलः । 075a
भिन्ननौका यथा राजन्द्वीपमासाद्य निर्वृताः ॥ 075c
भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये । 076a
तथा कर्णं समासाद्य तावकाः पुरुषर्षभ ॥ 076c
समाश्वस्ताः स्थिता राजन्सम्प्रहृष्टाः परस्परम् । 077a
समाजग्मुश्च युद्धाय मृत्युं कृत्वा निवर्तनम् ॥ ॥ 077c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकाशीतितमोऽध्यायः ॥ 81 ॥