अध्यायः 080
भीमसेनविशोकयोः संवादः ॥ 1 ॥
सञ्जय उवाच । 001
अथ त्विदानीं तुमुले विमर्दे द्विषद्भिरेको बहुभिः समावृतः । 001a
महारणे सारथिमित्युवाच भीमश्चमूं वाहय धार्तराष्ट्रीम् । 001c
त्वं सारथे याहि जवेन वाहैर्नयाम्येतान्धार्तराष्ट्रान्यमाय ॥ 001e
सञ्चोदितो भीमसेनेन चैवं स सारथिः पुत्रबलं त्वदीयम् । 002a
प्रायात्ततः सत्वरमुग्रवेगो यतो भीमस्तद्बलं गन्तुमैच्छत् ॥ 002c
ततोऽपरे नागरथाश्वपत्तिभिः प्रत्युद्ययुस्तं कुरवः समन्तात् । 003a
भीमस्य वाहाग्र्यमुदारवेगं समन्ततो बाणगणैर्निजघ्नुः ॥ 003c
ततः शरानापततो महात्मा चिच्छेद बाणैस्तपीनयपुङ्खैः । 004a
ते वै निपेतुस्तपनीयपुङ्खा द्विधा त्रिधा भीमशरैर्निकृत्ताः ॥ 004c
ततो राजन्नागरथाश्वयूनां भीमाहतानां वरराजमध्ये । 005a
घोरो निनादः सुमहानभूत्तदा वज्राहतानामिव पर्वतानाम् ॥ 005c
ते वध्यमानाश्च नरेन्द्रमुख्या निर्भिद्यन्तो भीमशरप्रवेकैः । 006a
भीमं समन्तात्समरेऽभ्यरोहन्वृक्षं शकुन्ता इव पुष्पहेतोः ॥ 006c
ततोऽभियाते तव सैन्ये स भीमः प्रादुश्चक्रे वेगमनन्तवेगः । 007a
यथाऽन्तकाले क्षपयन्दिधक्षुर्भूतान्तकृत्काल इवात्तदण्डः ॥ 007c
तस्यातिवेगस्य रणेऽतिवेगं नाशक्नुवन्धारयितुं त्वदीयाः । 008a
व्यात्ताननस्यापततो यथैव कालस्य काले हरतः प्रजा वै ॥ 008c
ततो बलं भारत भारतानां प्रदह्यमानं समरे महात्मना । 009a
भीतं दिशोऽकीर्यत भीमनुन्नं महानिलेनाभ्रगणा यथैव ॥ 009c
ततो धीमान्सारथिमब्रवीद्बली स भीमसेनः पुनरेव हृष्टः ॥ 010ac
सूताभिजानीहि परान्स्वकान्वा रथान्ध्वजांश्चापततः समेतान् । 011a
युध्यन्ह्यहं नाभिजानामि किञ्चिन्मा सैन्यं स्वं छादयिष्ये प्रमत्तः ॥ 011c
अरीन्विशोकान्हि निरीक्ष्य सर्वतो महांश्च मन्युः पुनरेति मां भृशम् । 012a
राजातुरो नागमद्यत्किरीटी बहूनि दुःखान्यभिचिन्तयामि ॥ 012c
एतद्दुःखं धारये धर्मराजो यन्मां हित्वा यातवाञ्शत्रुमध्ये । 013a
नैनं जीवं नाभिजानाम्यजीवं बीभत्सुं वा तन्ममाद्यातिदुःखम् ॥ 013c
सोऽहं द्विषत्सैन्यमुदग्रकल्पं विनाशयिष्ये परमप्रतीतः । 014a
एतन्निहत्याजिमध्ये समेतं प्रीतो भविष्यामि सह त्वयाद्य ॥ 014c
सर्वांस्तूणान्सायकानामवेक्ष्य किं शिष्टं स्यात्सायकानां रथे मे । 015a
का वा जातिः किं प्रमाणं च तेषां ज्ञात्वा व्यक्तं तत्समाचक्ष्व सूत । 015c
'कति वा सहस्राणि कति वा शतानि ह्याचक्ष्व मे सारथे क्षिप्रमेव ॥ 015e
विशोक उवाच । 016
सर्वं विदित्वैवमहं वदामि तवार्थसिद्धिप्रदमद्य वीर । 016a
कैकेयकाम्भोजसुराष्ट्रबाह्लिका म्लेच्छाश्च सुह्माः परतङ्कणाश्च । 016c
मद्राश्च वङ्गा मगधाः कुणिन्दा आनर्तकावर्तकाः पार्वतीयाः । 017a
सर्वे गृहीतप्रवरायुधास्त्वां संवेष्ट्य संवेष्ट्य ततो विनेदुः ॥ 017c
रथे तवास्मिन्निशिताः सुपीतास्ततो भल्ला द्वादश वै सहस्राः' । 018a
षण्मार्गणानामयुतानि वीर क्षुराश्च भल्लाश्च तथायुताख्याः ॥ 018c
नाराचानां द्वे सहस्रे च वीर त्रीण्येव च प्रदराणां स्म पार्थ । 019a
अस्त्यायुधं पाण्डवेयावशिष्टं न यद्वहेच्छकटं षङ्गवीयम् ॥ 019c
एतद्विद्वन्मुञ्च सहस्रशोऽपि गदासिबाहुद्रविणं च तेऽस्ति । 020a
प्रासाश्च मुद्गराः शक्तयस्तोमराश्च माभैषीस्त्वं सङ्क्षयादायुधानाम् ॥ 020c
भीमसेन उवाच । 021
'अद्यैव नूनं कथयन्तु सिद्धां मम प्रतिज्ञां सर्वलोके विशोक । 021a
न मोक्ष्यते समरे भीमसेन एकः शत्रून्समरे वाप्यजैषीत् । 021c
आशंसितानामिदमेकमस्तु तन्मे देवाः सकलं साधयन्तु ॥' 021e
सूताद्य मद्बाहुयुतैः समस्तान्समाहनद्भिः पार्थिवानाशुवेगैः । 022a
च्छन्नं बाणैराहवं घोररूपं नष्टादित्यं मृत्युलोकेन तुल्यम् ॥ 022c
अद्यैतद्वै विदितं पार्थिवानां भविष्यति ह्याकुमारं च सूत । 023a
निमग्नो वा समरे भीमसेन एकः कुरून्वा समरे व्यजैषीत् ॥ 023c
सर्वे सङ्ख्ये कुरवो निष्पतन्तु मां वा लोकाः कीर्तयन्त्वाकुमारम् । 024a
सर्वानेकस्तानहं पातयिष्ये ते वा सर्वे भीमसेनं तुदन्तु ॥ 024c
आशास्तारः कर्म चाप्युत्तमं ये तन्मे देवाः सफलं साधयन्तु । 025a
आयातीह केशवसारथी रथी शक्रस्तूर्णं यज्ञ इवोपहूतः ॥ 025c
ईक्षस्वैतां भारतीं दीर्यमाणामेते कस्माद्विद्रवन्ते नरेन्द्राः । 026a
व्यक्तं धीमान्सव्यसाची नराग्र्यः सैन्यं ह्येतच्छादयत्याशु बाणैः ॥ 026c
पश्य ध्वजांश्च द्रवतो विशोक नागान्हयान्पत्तिसङ्घांश्च सङ्ख्ये । 027a
रथान्विकीर्णाञ्शरशक्तिताडितान्पश्यस्वैतान्रथिनश्चैव सूत ॥ 027c
आपूर्यते कौरवी चाप्यभीक्ष्णं सेना ह्यसौ सुभृशं हन्यमाना । 028a
धनञ्जयस्याशनितुल्यवेगैर्ग्रस्ता शरैः काञ्चनबर्हजालैः ॥ 028c
एते द्रवन्ति स्म रथाश्वनागाः पदातिसङ्घानतिमर्दयन्तः । 029a
सम्मुह्यमानाः कौरवाः सर्व एव द्रवन्ति नागा इव दाहभीताः ॥ 029c
हाहाकृताश्चैव रणे विशोक मुञ्चन्ति नादान्विपुलान्गजेन्द्राः ॥ 030ac
विशोक उवाच । 031
किं भीम नैनं त्वमिहाशृणोषि विस्फारितं गाण्डिवस्यातिघोरम् । 031a
क्रुद्धेन पार्थेन विकृष्यतोऽद्य कच्चिन्नेमौ तव कर्णौ विनष्टौ ॥ 031c
सर्वे कामाः पाण्डव ते समृद्धाः कपिर्ह्यसौ दृश्यते हस्तिसैन्ये । 032a
नीलाद्धनाद्विद्युतमुच्चरन्तीं तथा पश्य विस्फुरन्तीं धनुर्ज्याम् ॥ 032c
कपिर्ह्यसौ वीक्षते सर्वतो वै ध्वजाग्रमारुह्य धनञ्जयस्य । 033a
वित्रासयन्रिपुसङ्घान्विमर्दे बिभेम्यस्मादात्मनैवाभिवीक्ष्य ॥ 033c
विभ्राजते चातिमात्रं किरीटं विचित्रमेतच्च धनञ्जयस्य । 034a
दिवाकराभो मणिरेष दिव्यो विभ्राजते चैव किरीटसंस्थः ॥ 034c
पार्श्वे भीमं पाण्डुराभ्रप्रकाशं पश्यस्व शङ्खं देवदत्तं सुघोषम् । 035a
अभीषुहस्तस्य जनार्दनस्य विगाहमानस्य चमूं परेषाम् ॥ 035c
रविप्रभं वज्रनाभं क्षुरान्तं पार्श्वे स्थितं पश्य जनार्दनस्य । 036a
चक्रं यशोवर्धनं केशवस्य सदार्चितं यदुभिः पश्य वीर ॥ 036c
महाद्विपानां सरलद्रुमोपमाः करा निकृत्ताः प्रपतन्त्यमी क्षुरैः । 037a
किरीटिना तेन पुनः ससादिनः शरैर्निकृत्ताः कुलिशैरिवाद्रयः ॥ 037c
तथैव कृष्णस्य च पाञ्चजन्यं महार्हमेतं द्विजराजवर्णम् । 038a
कौन्तेय पश्योरसि कौस्तुभं च जाज्वल्यमानं विजयां स्रजं च ॥ 038c
ध्रवं रथाग्र्यः समुपैति पार्थो विद्रावयन्सैन्यमिदं परेषाम् । 039a
सिताभ्रवर्णैरसितप्रयुक्तैर्हयैर्महार्है रथिनां वरिष्ठः ॥ 039c
रथान्हयान्पत्तिगणांश्च सायकैर्विदारितान्पश्य पतन्त्यमी यथा । 040a
तवानुजेनामरराजतेजसा महावनानीव सुपर्णवायुना ॥ 040c
चतुः शतान्पश्य रथानिमान्हतान्सवाजिसूतान्समरे किरीटिना । 041a
महेषुभिः सप्तशतानि दन्तिनां पदातिसादींश्च रथाननेकशः ॥ 041c
अयं समभ्येति तवान्तिकं बली निघ्नन्कुरूंश्चित्र इव ग्रहोऽर्जुनः । 042a
समृद्धकामोऽसि हतास्तवाहिता बलं तवायुश्च चिराय वर्धताम् ॥ 042c
भीमसेन उवाच । 043
ददानि ते ग्रामवरांश्चतुर्दश प्रियाख्याने सारथे सुप्रसन्नः । 043a
दासीशतं चापि रथांश्च विंशतिं यदर्जुनं वेदयसे विशोक ॥ ॥ 043c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अशीतितमोऽध्यायः ॥ 80 ॥
8-80-19 प्रदरा बाणविशेषाः ॥