अध्यायः 078

अर्जुनेन कृष्णाग्रे कर्णवधानन्तरभाव्यर्थानुवर्णनपूर्वकं तद्वधप्रतिज्ञा ॥ 1 ॥

सञ्जय उवाच । 001
स केशवस्य बीभत्सुः श्रुत्वा भारत भाषितम् । 001a
विशोकः सम्प्रहृष्टश्च क्षणेन समपद्यत ॥ 001c
ततो ज्यामभिमृज्याशु व्याक्षिपद्गाण्डिवं धनुः । 002a
दध्रे कर्णविनाशाय केशवं चाभ्यभाषत ॥ 002c
त्वया नाथेन गोविन्द ध्रुव एव जयो मम । 003a
प्रसन्नो यस्य भगवान्भूतभव्यभविष्यकृत् ॥ 003c
त्वत्सहायो ह्यहं कृष्ण त्रींल्लोकान्वै समागतान् । 004a
प्रापयेयं परं लोकं किमु कर्णं महाहवे ॥ 004c
पश्यामि द्रवतीं सेनां पाञ्चालानां जनार्दन । 005a
पश्यामि कर्णं समरे विचरन्तमभीतवत् ॥ 005c
भार्गवास्त्रं च पश्यामि ज्वलन्तं कृष्ण सर्वशः । 006a
सृष्टं कर्णेन वार्ष्णेय शक्रेणेव महाशनिम् ॥ 006c
अनेन खलु सङ्ग्रामे यत्तु कृष्ण मया कृतम् । 007a
कथयिष्यन्ति भूतानि यावद्भूमिर्धरिष्यति ॥ 007c
अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे । 008a
गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः ॥ 008c
अद्य राजा धृतराष्ट्रः स्वां बुद्धिमवमंस्यते । 009a
दुर्योधनमराज्यार्हं यया राज्येऽभ्यषेचयत् ॥ 009c
अद्य राज्यात्सुखाच्चैव श्रियो राष्ट्रात्तथा पुरात् । 010a
पुत्रेभ्यश्च महाबाहो धृतराष्ट्रो विमोक्ष्यति ॥ 010c
गुणवन्तं हि यो हित्वा निर्गुणं कुरुते प्रभुम् । 011a
स शोचति चिरं कृष्ण क्षिप्रमेवागते क्षये ॥ 011c
यथा च पुरुषः कश्चिच्छित्त्वा चाम्रवणं महत् । 012a
पलाशसेचने बुद्धिं कृत्वा शोचति मन्दधीः ॥ 012c
दृष्ट्वा पुष्पं पले गृध्नुः फलं दृष्ट्वाऽनुशोचति । 013a
तथेदं धृतराष्ट्रस्य पुष्पलुप्धस्य मानद । 013c
फलं दृष्ट्वा भृशं दुःखं भविष्यति जनार्दन ॥ 013e
सूतपुत्रे हते त्वद्य निराशो भविता प्रभुः ॥ 014ac
अद्य दुर्योधनो राज्याज्जीविताच्च निराशकः । 015a
भविष्यति हते कर्णे कृष्ण सत्यं ब्रवीमि ते ॥ 015c
अद्य दृष्ट्वा मया कर्णं शरैर्विशकलीकृतम् । 016a
स्मरतां तव वाक्यानि शमं प्रति जनेश्वरः ॥ 016c
अद्यासौ सौबलः कृष्ण ग्लहाञ्जानातु वै शरान् । 017a
दुरोदरं च गाण्डीवं मण्डलं च रथं मम ॥ 017c
अद्य कुन्तीसुतस्याहं दृढं राज्ञः प्रजागरम् । 018a
व्यपनेष्यामि गोविन्द हत्वा कर्णं शितैः शरैः ॥ 018c
अद्य कुन्तीसुतो राजा हते सूतसुते मया । 019a
सुप्रहृष्टमनाः प्रीतश्चिरं सुखमवाप्स्यति ॥ 019c
अद्य वाहमनाधृष्यं केशवाप्रतिमं शरम् । 020a
उत्स्रक्ष्यामीह यः कर्णं जीविताद्भ्रंशयिष्यति ॥ 020c
यस्य चैतद्व्रतं मह्यं वधे किल दुरात्मनः । 021a
पादौ न धावये तावद्यावद्धन्यां न फल्गुनम् ॥ 021c
मृषा कृत्वा व्रतं तस्य पापस्य मधुसूदन । 022a
पातयिष्ये रथात्कायं शरैः सन्नतपर्वभिः ॥ 022c
योसौ रणे नरं नान्यं पृथिव्यामनुमन्यते । 023a
तस्याद्य सूतपुत्रस्य भूमिः पास्यति शोणितम् ॥ 023c
अपतिर्ह्यसि कृष्णेति सूतपुत्रो यदब्रवीत् । 024a
धृतराष्ट्रमते कर्णः श्लाघमानः स्वकान्गुणान् ॥ 024c
अनृतं तत्करिष्यन्ति मामका निशिताः शराः । 025a
आशीविषा इव क्रुद्धास्तस्यपास्यन्ति शोणितम् ॥ 025c
मया हस्तवता मुक्ता नाराचा वैद्युतत्विषः । 026a
गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम् ॥ 026c
अद्य तप्स्यति राधेयः पाञ्चालीं यत्तदब्रवीत् । 027a
सभामध्ये वचः क्रूरं कुत्सयन्पाण्डवान्प्रति ॥ 027c
एते षण्डतिलाः कृष्णे निर्वीर्या हतविक्रमाः । 028a
अहं वः पाण्डवेयेभ्यो भयात्त्रास्येति चाब्रवीत् । 028c
हन्ताऽहं पाण्डवान्सर्वान्सपुत्रानिह भारत ॥ 028e
अनृतं तत्करिष्यन्ति मामका निशिताः शराः । 029a
हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि ॥ 029c
यस्य वीर्यं समाश्रित्य धार्तराष्ट्रो बृहन्मनाः । 030a
तमद्य कर्णं हन्तास्मि समरे मधुसूदन ॥ 030c
अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः । 031a
विद्रवन्ति दिशो भीताः सिंहं दृष्ट्वा मृगा इव ॥ 031c
अद्य दुर्योधनो राजा पृथिवीं नान्ववेक्षते । 032a
हते कर्णे मया सङ्ख्ये सपुत्रे ससुहृज्जने ॥ 032c
अद्य कर्णं हतं दृष्ट्वा धार्तराष्ट्रोऽत्यमर्षणः । 033a
जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम् ॥ 033c
सपुत्रपौत्रः सामात्यः ससुहृच्च निराशिषः । 034a
पित्र्ये राज्ये निराशश्च धार्तराष्ट्रो निराश्रयः ॥ 034c
अद्य राजा धर्मपुत्रो हतामित्रो भविष्यति । 035a
अद्य दुर्योधनो दीप्तां श्रियं राज्यं च हास्यति ॥ 035c
हते वैकर्तने कर्णे भीष्मे द्रोणे च संयुगे । 036a
कातरं तद्बलं कृष्ण प्रविष्टं भोक्ष्यते तु यत् ॥ 036c
अद्यप्रभृति राजानं धर्मपुत्रं युधिष्ठिरम् । 037a
अनुमोदन्तु सुहृदो ज्ञातपूर्वाश्च ब्राह्मणाः ॥ 037c
अद्य तं निहतं श्रुत्वा कर्णं वैकर्तनं मया । 038a
करोतु पटहोन्मिश्रं देवतास्थानपूजनम् ॥ 038c
अद्य कृष्ण हते कर्णे कुरुतां चिरसम्भृतम् । 039a
याजनं वै महाबाहो देवतानां यथाविधि ॥ 039c
अद्य त्वम्बा च कृष्णा च त्वरमाणे परस्परम् । 040a
सस्वजेतां हृषीकेश सम्पूर्णेऽस्मिन्मनोरथे ॥ 040c
अद्य त्वं पाण्डवो ज्येष्ठस्तथाऽऽर्यश्च वृकोदरः । 041a
उदीक्षेतां हते कर्णे कृष्ण सौम्येन चक्षुषा ॥ 041c
अभिवाद्य गुरूनद्य कनिष्ठैश्चाभिवादितः । 042a
सस्वजानो ह्यहं दोर्भ्यां प्राप्स्यामि विपुलं यशः ॥ 042c
अद्य कर्णे हते कृष्ण प्रशंसन्तोऽर्जुनं सुराः । 043a
त्रिदिवं यान्तु संहृष्टाः सङ्गताश्च तपोधनाः ॥ 043c
अद्य लोकास्त्रयः कृष्ण जानन्तु मम पौरुषम् । 044a
दृष्ट्वा कर्णं हतं युद्धे द्वैरथे सव्यसाचिना ॥ 044c
अद्याहमनृणः कृष्ण भविष्यामि धनुष्मताम् । 045a
रथस्य च शराणां च धनुषो गाण्डिवस्य च ॥ 045c
मोक्ष्याम्यद्य महद्दुःखं त्रयोदशसमार्जितम् । 046a
हत्वा कर्णं रणे कृष्ण शम्बरं मघवानिव ॥ 046c
अद्य कर्णे हते युद्धे सोमकानां महारथाः । 047a
कृतकार्याः प्रमोदन्तां मित्रकार्येप्सवो युधि ॥ 047c
न जाने च कथं प्रीतिः शैनेयस्याद्य माधव । 048a
अहं हत्वा रणे कर्णं पुत्रांश्चास्य जयाधिकान् । 048c
प्रीतिं दास्यामि भीमस्य सात्यकेर्यमयोस्तथा ॥ 048e
धृष्टद्युम्नस्य वीरस्य तथैव च शिखण्डिनः । 049a
अद्यानृण्यं गमिष्यामि हत्वा कर्णं महाहवे । 049c
धर्मराजस्य संश्रुत्य वार्ष्णेयशपथं मिथः ॥ 049e
अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम् । 050a
युध्यन्तं कौरवैः सार्धं घातयन्तं च सूतजम् ॥ 050c
भवत्समक्षं वक्ष्यामि पुनरेवात्मसंस्तवम् । 051a
इत्यप्यमित्रप्रवरमद्याहं हन्मि सूतजम् ॥ 051c
धनुर्वेदे मत्समः को नु लोके पराक्रमे वा मम कोऽस्ति तुल्यः । 052a
को वाऽप्यन्यो मत्समोऽस्ति क्षमायां ममानृशंस्ये सदृशोऽस्ति कोऽन्यः ॥ 052c
अहं धनुष्मान्ससुरासुरांश्च सर्वाणि भूतानि च सङ्गतानि । 053a
स्वबाहुवीर्याद्गमये पराभवं मत्पौरुषं विद्धि परं परेभ्यः ॥ 053c
शरार्चिषा गाण्डिवेनाहमेकः सर्वान्कुरून्बाह्लिकांश्चाभिपन्नः । 054a
हिमात्यये कक्षगतो यथाऽग्निः स निर्दहेयं सहसा प्रगृह्य ॥ 054c
पाणी पृषत्कालिखितौ ममैतौ धनुश्च सङ्ख्ये विततं सबाणम् । 055a
पादौ चेमौ सुरथौ सध्वजौ च न मादृशं युद्धगतं भजन्ति ॥ ॥ 055c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अष्टसप्ततितमोऽध्यायः ॥ 78 ॥

8-78-6 ज्वलन्तम् । पुंस्त्वमार्षम् ॥ 8-78-16 स्मरतां स्मरतु ॥ 8-78-17 मण्डलं द्यूते शारीस्थापनपट्टम् । दुरोदरं पाशम् ॥