अध्यायः 077

कृष्णेनार्जुनम्प्रति भीष्मादियुद्धनिधनप्रकारानुवादपूर्वकं तेषां वधे तस्यैव मुख्यकारणत्वकथनम् ॥ 1 ॥ बाल्यात्प्रभृति दुर्योधनापनयानुस्मराणपूर्वकं सर्वत्र कर्णस्यैव मूलतया महापराधित्वद्योतनेन तस्यावश्यं हननविधानम् ॥ 2 ॥

सञ्जय उवाच । 001
ततः पुनरमेयात्मा केशवोऽर्जुनमब्रवीत् । 001a
कृतसङ्कल्पमायान्तं वधे कर्णस्य भारत ॥ 001c
अद्य सप्तदशाहानि वर्तमानस्य नित्यशः । 002a
विनाशस्यातिघोरस्य नरवारणवाजिनाम् ॥ 002c
भूत्वा हि विपुला सेना तावकानां परैः सह । 003a
अन्योन्यं समरं प्राप्य किञ्चिच्छेषा विशाम्पते ॥ 003c
भूत्वा वै कौरवाः पार्थ प्रभूतगजवाजिनः । 004a
त्वां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि ॥ 004c
एते ते पृथिवीपालाः सृञ्जयाश्च समागताः । 005a
त्वां समासाद्य दुर्धर्षं पाण्डवाश्च व्यवस्थिताः ॥ 005c
पाञ्चालैः पाण्डवैर्मात्स्यैः कारूशैश्चेदिभिः सह । 006a
'मगधैः पारिजातैश्च दाक्षिणात्यैः सकेरलैः' । 006c
त्वया गुप्तैरमित्रघ्नैः कृतः शत्रुगणक्षयः ॥ 006e
को हि शक्तो रणे जेतुं कौरवांस्तात संयुगे । 007a
अन्यत्र पाण्डवाद्युद्धे श्वेताश्वाद्वानरध्वजात् ॥ 007c
शक्तस्त्वं हि रणे जेतुं ससुरासुरमानुषान् । 008a
त्रींल्लोकान्समरे युक्तान्किं पुनः कौरवं बलम् ॥ 008c
भगदत्तं च राजानं कोऽन्यः शक्तस्त्वया विना । 009a
जेतुं पुरुषशार्दूल योऽपि स्याद्वासवोपमः ॥ 009c
तथेमां विपुलां सेनां गुप्तां पार्थ त्वयाऽनघ । 010a
न शेकुः पार्थिवाः सर्वे चक्षुर्भिरपि वीक्षितुम् ॥ 010c
तथैव सततं पार्थ रक्षिताभ्यां त्वया रणे । 011a
धृष्टद्युम्नशिखण्डिभ्यां द्रोणभीष्मौ निपातितौ ॥ 011c
को हि शक्तो रणे पार्थ भारतानां महारथौ । 012a
भीष्मद्रोणौ युधा जेतुं शक्रतुल्यपराक्रमौ ॥ 012c
को हि शान्तनवं भीष्मं द्रोणं वैकर्तनं कृपम् । 013a
द्रौणिं च सौमदत्तिं च कृतवर्माणमेव च ॥ 013c
सैन्धवं मद्रराजं च राजानं च सुयोधनम् । 014a
वीरान्कृतास्त्रान्समरे सर्वानेवानिवर्तिनः ॥ 014c
अक्षौहिणीपतीनुग्रान्संहतान्युद्धदुर्मदान् । 015a
त्वामृते पुरुषव्याघ्र जेतुं शक्तः पुमानिह ॥ 015c
श्रेण्यश्च बहुलाः क्षीणाः प्रदीर्णाश्वरथद्विपाः । 016a
नानाजनपदाश्चोग्राः क्षत्रियाणाममर्षिणाम् ॥ 016c
गणाश्च दासमीयानां वसातीनां च भारत । 017a
प्राच्यानां वाटधानानां भोजानां चाभिमानिनाम् ॥ 017c
उदीर्णाश्वगजा सेना सर्वक्षत्रस्य भारत । 018a
त्वां समासाद्य निधनं गता भीमं च भारत ॥ 018c
उग्राश्च भीमकर्माणस्तुषारा यवनाः खशाः । 019a
दार्वाभिसारा दरदाः शका माठरतङ्कणाः ॥ 019c
आन्ध्रकाश्च पुलिन्दाश्च किराताश्चोग्रविक्रमाः । 020a
म्लेच्छाश्च पर्वतीयाश्च सागरानूपवासिनः ॥ 020c
संरम्भिणो युद्धशौण्डा बलिनो दण्डपाणयः ॥ 021ac
एते सुयोधनस्यार्थे संरब्धाः कुरुभिः सह । 022a
न शक्या युधि निर्जेतुं त्वदन्येन परन्तप ॥ 022c
धार्तराष्ट्रमुदग्रं हि व्यूढं दृष्ट्वा महद्बलम् । 023a
यदि त्वं न भवेस्त्राता प्रतीयात्को नु मानवः ॥ 023c
तत्सागरमिवोद्धूतं रजसा संवृतं बलम् । 024a
विदार्य पाण्डवैः क्रुद्धैस्त्वया गुप्तैर्हतं विभो ॥ 024c
मागधानामधिपतिर्जयत्सेनो महाबलः । 025a
अद्य सप्तैव चाहानि हतः सङ्ख्येऽभिमन्युना ॥ 025c
ततो दशसहस्राणि गजानां भीमकर्मणाम् । 026a
जघान गदया भीमस्तस्य राज्ञः परिच्छदम् ॥ 026c
तथान्येऽभिहता नागा रथाश्च शतशो बलात् । 027a
तदेवं समरे पार्थ वर्तमाने महाभये ॥ 027c
भीमसेनं समासाद्य त्वां च पाण्डव कौरवाः । 028a
सवाजिरथमातङ्गा मृत्युलोकमितो गताः ॥ 028c
तथा सेनामुखे तत्र निहते पार्थ पाण्डवैः । 029a
भीष्मः प्रासृजदुग्राणि शरतालानि मारिष ॥ 029c
सचेदिकाशिपाञ्चालान्करूषान्मात्स्यकेकयान् । 030a
शरैः प्रच्छाद्य निधनमनयत्परमास्त्रवित् ॥ 030c
तस्य चापच्युतैर्बाणैः परदेहविदारणैः । 031a
पूर्णमाकाशमभवद्रुक्मपुङ्खैरजिह्मगैः ॥ 031c
हन्याद्रथसहस्राणि एकैकेनैव मुष्टिना । 032a
लक्षं नरद्विपान्हत्वा समेतान्समहाबलान् ॥ 032c
गत्या दशम्या ते गत्वा जघ्नुर्वाजिरथद्विपान् । 033a
हित्वा नवगतीर्दुष्टाः स बाणानाहवेऽत्यजत् ॥ 033c
दिनानि दश भीष्मेण निघ्नता तावकं बलम् । 034a
शून्याः कृता रथोपस्था हताश्च गजवाजिनः ॥ 034c
'दशमेऽहनि सम्प्राप्ते कृत्वा घोरं पराक्रमम्' । 035a
दर्शयित्वाऽऽत्मनो रूपं रुद्रोपेन्द्रसमं युधि ॥ 035c
पाण्डवानामनीकानि प्रविगाह्य विशाम्पते । 036a
विनिघ्नन्पृथिवीपालांश्चेदिपाञ्चालकेकयान् ॥ 036c
अहनत्पाण्डवीं सेनां रथाश्वगजसङ्कुलाम् । 037a
मज्जन्तमप्लवे मन्दमुज्जिहीर्षुः सुयोधनम् ॥ 037c
तथा चरन्तं समरे तपन्तमिव भास्करम् । 038a
पदातिकोटिसाहस्राः प्रवरायुधपाणयः ॥ 038c
न शेकुः सृञ्जया द्रष्टुं तथैवान्ये महीक्षितः । 039a
विचरन्तं तथा तं तु सङ्ग्रामे जितकाशिनम् ॥ 039c
सर्वोद्यमेन महता पाण्डवान्समभिद्रवत् । 040a
स तु विद्राव्य समरे पाण्डवान्सृञ्जयानपि । 040c
एक एव रणे भीष्म एकवीरत्वमागतः ॥ 040e
तं शिखण्डी समासाद्य त्वया गुप्तो महाव्रतम् । 041a
जघान पुरुषव्याघ्रं शरैः सन्नतपर्वभिः ॥ 041c
स एष पतितः शेते शरतल्पे पितामहः । 042a
त्वां प्राप्य पुरुषव्याघ्रं वृत्रः प्राप्येव वासवम् ॥ 042c
द्रोणः पञ्चदिनान्युग्रो विधम्य रिपुवाहिनीम् । 043a
कृत्वा व्यूहमभेद्यं च पातयित्वा महारथान् ॥ 043c
जयद्रथस्य समरे कृत्वा रक्षां महारथः । 044a
अन्तकप्रतिमश्चोग्रो रात्रियुद्धेऽदहत्प्रजाः ॥ 044c
दग्ध्वा योधाञ्छरैर्वीरो भारद्वाजः प्रतापवान् । 045a
धृष्टद्युम्नं समासाद्य स गतः परमां गतिम् ॥ 045c
यदि वाऽद्य भवान्युद्धे सूतपुत्रमुखान्रथान् । 046a
नावारयिष्यः सङ्ग्रामे न स्म द्रोणो व्यनङ्क्ष्यत ॥ 046c
भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम् । 047a
ततो द्रोणो हतो युद्धे पार्षतेन धनञ्जय ॥ 047c
कश्च शक्तो रणे कर्तुं त्वदन्यः पुरुषब्रुवः । 048a
यादृशं ते कृतं पार्थ जयद्रथवधं प्रति ॥ 048c
निवार्य सेनां महतीं हत्वा शूरांश्च पार्थिवान् । 049a
निहतः सैन्धवो राजा त्वयाऽस्त्रबलतेजसा ॥ 049c
आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्थिवाः । 050a
अनाश्चर्यं हि तत्त्वत्तस्त्वं हि पार्थ महारथः ॥ 050c
त्वां हि प्राप्य रणे क्षत्रमेकाहादिति भारत । 051a
नश्यमानमहं युक्तं मन्येयमिति मे मतिः ॥ 051c
सेयं पार्थ चमूर्घोरा धार्तराष्ट्रस्य संयुगे । 052a
हतसर्वस्वभूयिष्ठा भीष्मद्रोणौ हतौ यथा ॥ 052c
शीर्णप्रवरयोधाढ्या हतवाजिरथद्विपा । 053a
हीना सूर्येन्दुनक्षत्रैर्द्यौरिवाभाति भारती ॥ 053c
विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रम । 054a
आसुरीव महासेना देवराजपराक्रमैः ॥ 054c
तेषां हतावशिष्टास्तु सन्ति पञ्च महारथाः । 055a
द्रौणिश्च कृतवर्मा च कर्णो मद्राधिपः कृपः ॥ 055c
तांस्त्वमद्य नरव्याघ्र हत्वा पञ्च महारथान् । 056a
हतामित्रः प्रयच्छोर्वी राज्ञे सद्वीपपत्तनाम् ॥ 056c
साकाशजलपातालां सपर्वतमहावनाम् । 057a
प्रयच्छामितवीर्याय पार्थायाद्य वसुन्धराम् ॥ 057c
एतां पुरा विष्णुरिव हत्वा दैतेयदानवान् । 058a
प्रयच्छ मेदिनीं राज्ञे शक्रायैव हरिर्यथा ॥ 058c
अद्य मोदन्तु पाञ्चाला निहतेष्वरिषु त्वया । 059a
विष्णुना निहतेष्वेव दानवेयेषु देवताः ॥ 059c
यदि वा द्विपदां श्रेष्ठं द्रोणं मानयतो गुरुम् । 060a
अश्वत्थाम्नि कृपा तेऽस्ति कृपे वाचार्यगौरवात् ॥ 060c
अत्यन्तापचितान्बन्धून्मानयन्मातृबान्धवान् । 061a
कृतवर्माणमासाद्य न नेष्यासि यमक्षयम् ॥ 061c
भ्रातरं मातुरासाद्य शल्यं मद्रजनाधिपम् । 062a
यदि त्वमरविन्दाक्ष दयावान्न जिघांससि ॥ 062c
एतत्ते सुकृतं कर्म नात्र किञ्चन विद्यते । 063a
वयमप्यनुजानीमो नात्र दोषोऽस्ति कश्चन ॥ 063c
इमं पापमतिं क्षुद्रमत्यन्तं पाण्डवान्प्रति । 064a
कर्णमद्य नरश्रेष्ठ जहि पार्थ शितैः शरैः ॥ 064c
दहने यत्सपुत्राया निशि मातुस्तवानघ । 065a
द्यूतार्थे यच्च युष्मासु प्रावर्तत सुयोधनः । 065c
तस्य सर्वस्य दुष्टात्मा कर्णो वै मूलमित्युत ॥ 065e
प्रोत्साहयति दुष्टात्मा धार्तराष्ट्रं सुदुर्मतिम् । 066a
समितौ गदते कर्णस्तमद्य जहि भारत ॥ 066c
यश्च युष्मासु पापं वै धार्तराष्ट्रः प्रयुक्तवान् । 067a
तस्य सर्वस्य दुर्बुद्धिः कर्णो मूलमिहार्जुन ॥ 067c
कर्णं हि मन्यते त्राणं नित्यमेव सुयोधनः । 068a
ततो मामपि संरब्धो निग्रहीतुं पराक्रमात् ॥ 068c
स्थिता बुद्धिर्नरेन्द्राणां धार्तराष्ट्रस्य चोभयोः । 069a
कर्णः पार्थान्रणे सर्वान्नाशयिष्यति सायकैः ॥ 069c
कर्णमाश्रित्य कौन्तेय धार्तराष्ट्रस्य विग्रहः । 070a
रुचितो भवता सार्धं जानतोऽपि बलं तव ॥ 070c
कर्णो जल्पति वै नित्यमहं पार्थान्समागतान् । 071a
वासुदेवं च दाशार्हं विजेष्यामि महारणे । 071c
समितौ वल्गते कर्णस्तमद्य जहि फल्गुन ॥ 071e
यच्च युष्मासु पापं वै धार्तराष्ट्रः प्रतापवान् । 072a
सभायां कृतवान्नित्यं कर्णमाश्रित्य वै पुरा ॥ 072c
यच्च तं धार्तराष्ट्राणां षड्भिः शूरैर्महारथैः । 073a
पश्यतां संवृतं शूरं सौभद्रमपराजितम् ॥ 073c
द्रोणद्रौणिकृपान्वीरान्कम्पयानं महेषुभिः । 074a
विधमन्तमनीकानि प्रमथन्तं महारथान् ॥ 074c
मनुष्यवाजिमातङ्गान्प्रेषयन्तं यमक्षयम् । 075a
शरैः सौभद्रमायान्तं दहन्तमरिवाहिनीम् ॥ 075c
निर्मनुष्याश्च मातङ्गा विरथाश्च महारथाः । 076a
प्रद्रवन्ति स्म समरे दिशो भीताऽभिमन्यवे ॥ 076c
विगतासूंश्च तुरगान्पत्तीन्व्यायुधजीवितान् । 077a
कुर्वन्तमृषभस्कन्धं कुरुवृष्णियशस्करम् । 077c
तन्मे दहति गात्राणि सखे सत्येन ते शपे ॥ 077e
यत्तदासीत्सुदुष्टात्मा कर्णो विनिहतः प्रभुः । 078a
न शक्तो ह्यभिमन्योस्तु कर्णः स्थातुं रणाग्रतः ॥ 078c
सौभद्रशरनिर्भिन्नो विसञ्ज्ञः शोणितोक्षितः । 079a
निश्वसन्क्रोधसन्दीप्तो विमुखः सायकार्दितः ॥ 079c
तस्थौ स विह्वलः सङ्ख्ये प्रहारजनितच्छविः । 080a
अपयानकृतोत्साहो निरुत्साहश्च भारत ॥ 080c
दुर्योधनं रणे दृष्ट्वा लज्जमानो मुहुर्मुहुः । 081a
नापयासीत्ततः पार्थ सोऽभिमन्योर्महारणे ॥ 081c
दृष्ट्वा द्रोणं वधोपायमभिमन्योश्च पृष्टवान् । 082a
श्रुत्वा द्रोणवचः क्रूरं ततश्चिच्छेद कार्मुकम् ॥ 082c
ततश्छिन्नायुधं तेन दृष्ट्वा पञ्च महारथाः । 083a
स चैव निकृतिप्राज्ञः प्राहिणोच्छरवृष्टिभिः ॥ 083c
प्रहसन्स तु दुष्टात्मा कर्णो राजा च कौरवः । 084a
यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः । 084c
प्रमुखे पाण्डवेयानां कुरूणां चैव पश्यताम् ॥ 084e
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः । 085a
पतिमन्यं पृथुश्रोणि वृणीष्व मृदुभाषिणि ॥ 085c
एषा त्वं धृतराष्ट्रस्य दासीभूता निवेशनम् । 086a
प्रविशारालपक्ष्माक्षि न सन्ति पतयस्तव ॥ 086c
न पाण्डवाः प्रभवन्ति तव कृष्णे कथञ्चन । 087a
दासभार्या च पाञ्चालि स्वयं दासी च शोभने ॥ 087c
अद्य दुर्योधनो राजा पृथिव्यां नृपतिः स्मृतः । 088a
सर्वे चास्य महिपाला योगक्षेममुपासते ॥ 088c
पश्येदानीं यदा भद्रे निविष्टाः पाण्डवाः समम् । 089a
अन्योन्यं समुदीक्षन्ते धार्तराष्ट्रस्य तेजसा ॥ 089c
व्यक्तं षण्डतिला ह्येते नरके च निमज्जिताः । 090a
प्रेष्यवच्चापि राजानमुपस्थास्यन्ति कौरवम् ॥ 090c
उक्तवान्स च पापात्मा तथा परमदुर्मतिः । 091a
पापः पापवचः कर्णः पश्यतस्ते धनञ्जय ॥ 091c
अस्य पापस्य तद्वाक्यं सुवर्णविकृताः शराः । 092a
शमयन्ति शिलाधौता नाशयन्तोऽस्य जीवितम् ॥ 092c
अद्य कर्णं रणे ग्रस्तं पश्यन्तु कुरवस्त्वया । 093a
स्वर्गावतरणे यत्नं स्वर्गद्वारगतं यथा ॥ 093c
अद्य ते समरे वीर्यं पश्यन्तु कुरुयोधिनः । 094a
सूतपुत्रे हते पार्थ जानन्तु त्वां महारथम् ॥ 094c
अद्य काकवला गृध्रा वायसा जम्बुकास्तथा । 095a
विप्रकर्षन्तु गात्राणि सूतपुत्रस्य मारिष ॥ 095c
अद्याधिरथिराक्षिप्तो निहतश्च त्वया रणे । 096a
कुरूणां शोकमाधत्तां पाण्वानां मुदं तदा ॥ 096c
अद्य त्वां प्रतिमर्दन्तु पाञ्चालाः पाण्डवैः सह । 097a
यथा वृत्रवधे वृत्ते देवाः सर्वे शतक्रतुम् ॥ 097c
अद्य कर्णं रणे हत्वा प्राप्य चैवोत्तमं यशः । 098a
विशोको विज्वरः पार्थ भव बन्धुपुरस्कृतः ॥ 098c
नरसिंहवपुः कृत्वा यथा शस्तो महासुरः । 099a
हिरण्यकशिपुर्दैत्यो विष्णुना प्रभविष्णुना ॥ 099c
तथा त्वमपि राधेयं घोरां कृत्वा महातनुम् । 100a
जहि युद्धे महाबाहो त्रायस्व च भयात्स्वकान् ॥ 100c
कर्णं हाहाकृतं दीनं विषण्णं त्वच्छरार्दितम् । 101a
प्रपतन्तं महीं कर्णं पश्यन्तु वसुधाधिपाः ॥ 101c
तं च स्वशोणिते मग्नं शयानं पतितं भुवि । 102a
अपविद्धायुकधं कर्णमद्य पश्यन्तु बान्धवाः ॥ 102c
तच्चैवाद्य महत्कर्म गाण्डीवप्रेषितैः शरैः । 103a
रथोपस्थे विशीर्येत ताराराज इवाम्बरात् ॥ 103c
आशु चाद्य शरास्तस्य सम्पतन्तो महाजवैः । 104a
त्वच्छरैः सन्निकृत्ताग्रा विशीर्यन्ते महीतले ॥ 104c
त्वया चाद्य हते तस्य विक्रमे भरतर्षभ । 105a
विमुखाः सर्वराजानो भवन्तु गतजीविताः ॥ 105c
तथा चाधिरथौ याते प्रयान्तु कुरवो दिशः । 106a
मन्वानास्तं रथश्रेष्ठं सर्वलोकेषु धन्विनाम् ॥ 106c
स वै चाद्य भयात्त्यक्त्वा धार्तराष्ट्रो महाचमूम् । 107a
दुर्योधनो भयोद्विग्नो द्रवतु स्वं निवेशनम् ॥ 107c
तथा चाद्य हतं श्रुत्वा धृतराष्ट्रो जनेश्वरः । 108a
क्षणेन निपतेद्भूमौ विसञ्ज्ञो वै महीपतिः ॥ 108c
अद्य जानन्तु ते पार्थ विक्रमं सर्वयोधिनः । 109a
यदुवाच सभामध्ये परुषं भारत त्वयि ॥ 109c
यानि चान्यानि दुष्टात्मा पापानि कृतवांस्त्वयि । 110a
तान्यद्य भरतश्रेष्ठ नाशयन्तु शरास्तव ॥ 110c
शान्तिं कुरु परिक्लेशा कृष्णायाः शत्रुपातन । 111a
हत्वा शत्रुं रणे श्लाघ्यं गर्जन्तमतिपौरुषम् ॥ 111c
अद्य चाधिरथिर्वेद्धस्तव बाणैः समन्ततः । 112a
मन्यतां त्वां नरव्याघ्र प्रवरं सर्वधन्विनाम् ॥ 112c
गाण्डीवप्रसृतान्बाणानद्य गात्रस्पृशः शरान् । 113a
यातु कर्णो रणे पार्थ श्वाविच्छललतो यथा ॥ 113c
तं कथं कर्णमासाद्य विद्रवेयुर्महारथाः । 114a
यस्त्वेकः सर्वपाञ्चालानहन्यहनि नाशयन् । 114c
कालवच्चरते वीर पाञ्चालानां रथव्रजे ॥ 114e
तमप्यासाद्य समरे मित्रार्थे मित्रवत्सल । 115a
तथा ज्वलन्तमस्त्रैश्च शूरं सर्वधनुष्मताम् । 115c
निर्दहन्तं समारूढं दुर्धर्षं द्रोणमञ्जसा ॥ 115e
ते नित्यमुदिता जेतुं युधि शत्रुमरिन्दमाः । 116a
न चेदाधिरथेर्भीताः पाञ्चालाः स्युः पराङ्मुखाः ॥ 116c
तेषामापततां शूरः पाञ्चालानां तरस्विनाम् । 117a
आदत्तासूञ्शरैः कर्णः पतङ्गानामिवानलः ॥ 117c
एते द्रवन्ति पाञ्चाला द्राव्यन्ते योधिभिर्ध्रुवम् । 118a
कर्णेन भरतश्रेष्ठ पश्यपश्य तथाकृतान् ॥ 118c
तान्समारोहतः शूरान्मित्रार्थे त्यक्तजीवितान् । 119a
निस्तारय महाबाहो कर्णास्त्रात्पावकोपमात् ॥ 119c
अस्त्रं हिरामात्कर्णेन भार्गवादृषिसत्तमात् । 120a
यदवाप्तं तदा घोरं तस्य रूपमुदीर्यते ॥ 120c
तापनं सर्वसैन्यस्य घोररूपं भयानकम् । 121a
यमाश्रित्य महासेना ज्वलते स्वेन तेजसा ॥ 121c
एते चरन्ति सङ्ग्रामे कर्णचापच्युताः शराः । 122a
प्रभया इह शत्रूणां घातयन्तो जनान्प्रभो ॥ 122c
एते भ्रमन्ति पाञ्चाला उत्क्रमन्ति च मारिष । 123a
कर्णास्त्रं समरे प्राप्य दुर्निवार्यं महात्मभिः ॥ 123c
एष भीमो दृढक्रोधो वृतः पार्थ समन्ततः । 124a
सृञ्जयैर्योऽजयत्कर्णं पीड्यते निशितैः शरैः ॥ 124c
पाञ्चालान्सृञ्जयांश्चैव पाण्डवांश्चैव भारत । 125a
उपेक्षितो दहेत्कर्णो रोगो देहमिवान्तकः ॥ 125c
नान्यं त्वत्तो हि पश्यामि योधं यौधिष्ठिरे बले । 126a
यः समासाद्य राधेयं स्वस्तिमानाव्रजेद्गृहान् ॥ 126c
तमद्य निशितैर्बाणैर्निहत्य भरतर्षभ । 127c
यथा प्रतिज्ञां त्व पार्थ तीर्त्वा कीर्तिमवाप्स्यसि ॥ 127c
त्वं हि शक्तो रणे कर्णं विजेतुं सह पार्थिवैः । 128a
नान्यो युधि युधां श्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥ 128c
एतत्कृत्वा महत्कर्म हत्वा कर्णं महारथम् । 129a
कृतार्थः सफलः पार्थ सुखी भव नरोत्तम ॥ ॥ 129c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तसप्ततितमोऽध्यायः ॥ 77 ॥

8-77-23 यदि त्वं त्राता न भवेस्तर्हि तद्धार्तराष्ट्रं बलं कोनु प्रतीयाद्गच्छेदिति सम्बन्धः ॥ 8-77-51 त्वांहीति । क्षणेन सर्वं भस्मीकर्तुं समर्थं त्वां प्राप्य एकाहान्नश्यमानं क्षत्रं युक्तं बलवत्तरं मन्येयं जानीयाम् । क्षणेन नाश्यमपि पूर्णैकाहपर्यन्तं स्थायित्वादिति भावः ॥ 8-77-111 परिक्लेशा परिक्लेशानाम् ॥