अध्यायः 076

कर्णेन योद्धुन्निर्गच्छतोऽर्जुनस्य शुभनिमित्तप्रादुर्भावः ॥ 1 ॥ श्रीकृष्णेनार्जुनस्य प्रोत्साहनम् ॥ 2 ॥

सञ्जय उवाच । 001
प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना । 001a
सम्पूज्य देवताः सर्व ब्राह्मणान्स्वस्ति वाच्य च । 001c
सुमङ्गलं स्वस्त्ययनमारुरोह रथोत्तमम् ॥ 001e
तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः । 002a
आशिषोऽयुङ्क्त परमाः युक्तं कर्णरथं प्रति ॥ 002c
तमायान्तं महेष्वासं दृष्ट्वा भूतानि भारत । 003a
निहतं मेनिरे कर्णं पाण्डवेन महात्मना ॥ 003c
बभूवुर्विमलाः सर्वा दिशो राजन्समन्ततः । 004a
चाषाश्च शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर । 004c
प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम् ॥ 004e
बहवः पक्षिणो राजन्पुन्नामानः शुभाः शिवाः । 005a
त्वरयन्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे ॥ 005c
कङ्का गृध्रा बकाः श्येना वायसाश्च विशाम्पते । 006a
अग्रतस्तस्य गच्छन्ति भक्ष्यहेतोर्भयानकाः ॥ 006c
निमित्तानि च धन्यानि पाण्डवस्य शशंसिरे । 007a
विनाशमरिसैन्यानां कर्णस्य च वधं तथा ॥ 007c
प्रयातस्याथ पार्थस्य महान्स्वेदो व्यजायत । 008a
चिन्ता च विपुला जज्ञे कथं चेदं भविष्यति ॥ 008c
विषण्णं तु ततो ज्ञात्वा सव्यसाचिनमच्युतः । 009a
सञ्चोदयति तेजस्वी मधुहा वानरध्वजम् ॥ 009c
ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः । 010a
दृष्ट्वा पार्थं तथायान्तं चिन्तापरिगतं तदा ॥ 010c
गाण्डीवधन्वन्सङ्ग्रामे ये त्वया धनुषा जिताः । 011a
न तेषां मानुषो जेता त्वदन्य इह विद्यते ॥ 011c
एते हि बहवः शूराः शक्रतुल्यपराक्रमाः । 012a
त्वां प्राप्य समरे शूरं प्रयाताः परमां गतिम् ॥ 012c
को हि द्रोणं च भीष्मं च भगदत्तं च मारिष । 013a
विन्दानुविन्दावावन्त्यौ काम्भोजं च सुदक्षिणम् ॥ 013c
श्रुतायुं चाश्रुतायुं च शतायुं च महारथम् । 014a
प्रत्युद्गम्य भवेत्क्षेमी यो न स्यात्त्वद्विधः प्रभुः ॥ 014c
तव ह्यस्त्राणि दिव्यानि लाघवं बलमेव च । 015a
असम्मोहश्च युद्धेषु विज्ञानस्य च सन्नतिः । 015c
वेधः पातश्च लक्षेषु योगश्चैव तथार्जुन ॥ 015e
भवान्देवान्सगन्धर्वान्हन्यात्सर्वांश्च राक्षसान् । 016a
पृथिव्यां तु रणे पार्थ न योद्धा त्वत्समः पुमान् ॥ 016c
धनुर्गृह्णन्ति ये केचित्क्षत्रिया युद्धदुर्मदाः । 017a
आत्मनस्तु समं तेषां न पश्यामि शृणोमि च ॥ 017c
ब्रह्मणा हि प्रजाः सृष्टा गाण्डीवं च महद्धनुः । 018a
येन त्वं युध्यसे पार्थ तस्मान्नास्ति त्वया समः ॥ 018c
अवश्यं तु मया वाच्यं यत्पथ्यं तव पाण्डव । 019a
मावमंस्था महाबाहो कर्णमाहवशोभिनम् ॥ 019c
कर्णो हि बलवान्दृप्तः कृतास्त्रश्च महारथः । 020a
कृती च चित्रयोधी च देशकालस्य कोविदः ॥ 020c
बहुनात्र किमुक्तेन सङ्क्षेपाच्छृणु पाण्डव । 021a
त्वत्समं त्वद्विशिष्टं वा कर्णं मन्ये महारथम् । 021c
परमं यत्नमास्थाय त्वया वध्यो महाहवे ॥ 021e
तेजसा वह्निसदृशो वायुवेगसमो जवे । 022a
अन्तकप्रतिमः क्रोधे सिंहसंहननो बली ॥ 022c
अष्टरत्निर्महाबाहुर्व्यूढोरस्कः सुदुर्जयः । 023a
अभिमानी च शूरश्च प्रवीरः प्रियदर्शनः ॥ 023c
सर्वयोधगुणैर्युक्तो मित्राणामभयङ्करः । 024a
सततं पाण्डवद्वेषी धार्तराष्ट्रहिते रतः ॥ 024c
सर्वैरवध्यो राधेयो देवैरपि सवासवैः । 025a
ऋते त्वामिति मे बुद्धिस्तदद्य जहि सूतजम् ॥ 025c
देवैरपि हि संयत्तैर्बिभ्रद्भिर्मांसशोणितम् । 026a
अशक्यः स रथो जेतुं सर्वैरपि युयुत्सुभिः ॥ 026c
दुरात्मानं पापवृत्तं नृशंसं दुष्टप्रज्ञं पाण्डवेयेषु नित्यम् । 027a
हीनस्वार्थं पाण्डवेयैर्विरोधे हत्वा कर्णं निश्चितार्थो भवाद्य ॥ 027c
तं सूतपुत्रं रथिनां वरिष्ठं निष्कालिकं कालवशं नयाद्य । 028a
तं सूतपुत्रं रथिनां वरिष्ठं हत्वा प्रीतिं धर्मराजे कुरुष्व ॥ 028c
जानामि ते पार्थ वीर्यं यथावद्दुर्वारणीयं च सुरासुरैश्च । 029a
सदावजानाति हि पाण्डुपुत्रानसौ दर्पात्सूतपुत्रो दुरात्मा ॥ 029c
आत्मानं मन्यते वीरं येन पापः सुयोधनः । 030a
तमद्य मूलं पापानां जहि सौतिं धनञ्जय ॥ 030c
खड्गजिह्वं धनुरास्यं शरदंष्ट्रं तरस्विनम् । 031a
दृप्तं पुरुषशार्दूलं जहि कर्णं धनञ्जय ॥ 031c
अहं त्वामनुजानामि वीर्येण च बलेन च । 032a
जहि कर्णं रणे शूरं मातङ्गमिव केसरी ॥ 032c
यस्य वीर्येण वीर्यं ते धार्तराष्ट्रोऽवमन्यते । 033a
तमद्य पार्थ सङ्ग्रामे कर्णं वैकर्तनं जहि ॥ ॥ 033c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षट्सप्ततितमोऽध्यायः ॥ 76 ॥

8-76-23 रत्निस्त्वेकविंशत्यङ्गुलः । अष्टानां रत्नीनां अष्टषष्ट्यधिकं शतं अङ्गुलानि च भवन्ति ॥ 8-76-28 निष्कालिकं निर्गतः कालयिता जेतास्येति तम् ॥