अध्यायः 075

अर्जुनेन स्वावमानितस्य युधिष्ठिरस्य प्रसादनम् ॥ 1 ॥ अर्जुनेन युधिष्टिराग्रे कर्णवधप्रतिज्ञानम् ॥ 2 ॥

सञ्जय उवाच । 001
इति स्म कृष्णवचनात्प्रत्युच्चार्य युधिष्ठिरम् । 001a
बभूव विमनाः पार्थः किञ्चित्कृत्वेव पातकम् ॥ 001c
ततोऽब्रवीद्वासुदेवः प्रहसन्निव पाण्डवम् । 002a
कथं नाम भवेदेतद्यदि त्वं पार्थ धर्मजम् ॥ 002c
असिना तीक्ष्णधारेण हन्या धर्मे व्यस्थितम् । 003a
त्वमित्युक्त्वाथ राजानमेवं कश्मलमाविशः ॥ 003c
हत्वा तु नृपतिं पार्थ करिष्यसि किमुत्तरम् । 004a
एवं हि दुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः ॥ 004c
स भवान्धर्मभीरुत्वाद्ध्रुवं यायान्महत्तमः । 005a
नरकं घोररूपं च भ्रातुर्ज्येष्ठस्य वै वधात् ॥ 005c
स त्वं धर्मभृतां श्रेष्ठं राजानं धर्मसंहितम् । 006a
प्रसादय कुरुश्रेष्ठमेतदत्र मतं मम ॥ 006c
प्रसाद्य भक्त्या राजानं प्रीते चैव युधिष्ठिरे । 007a
प्रयावस्त्वरितौ योद्धुं सूतपुत्ररथं प्रति ॥ 007c
हत्वा तु समरे कर्णं त्वमद्य निशितैः शरैः । 008a
विपुलां प्रीतिमाधत्स्व धर्मपुत्रस्य मानद ॥ 008c
एतदत्र महाबाहो प्राप्तकालं मतं मम । 009a
एवं कृते कृतं चैव तव कार्यं भविष्यति ॥ 009c
सञ्जय उवाच । 010
ततोऽर्जुनो महाराज लज्जया वै समन्वितः । 010a
धर्मराजस्य चरणौ प्रपद्य शिरसा नतः ॥ 010c
उवाच भरतश्रेष्ठं प्रसीदेति पुनः पुनः । 011a
क्षमस्व राजन्यत्प्रोक्तस्त्वं मया धर्मभीरुणा ॥ 011c
पादयोः पतितं दृष्ट्वा धर्मराजो युधिष्ठिरः । 012a
धनञ्जयममित्रघ्नं रुदन्तं भरतर्षभम् ॥ 012c
उत्थाप्य भ्रातरं राजा धर्मराजो धनञ्जयम् । 013a
समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः ॥ 013c
रुदित्वा सुचिरं कालं भ्रातरौ सुमहाद्युती । 014a
कृतशौचौ महाराज प्रीतिमन्तौ बभूवतुः ॥ 014c
तत आश्लिष्य तं प्रेम्णा मूर्ध्नि चाघ्राय पाण्डवः । 015a
प्रीत्या परमया युक्तो विस्मयंश्च पुनःपुनः । 015c
अब्रवीत्तं महेष्वासं धर्मराजो धनञ्जयम् ॥ 015e
कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः । 016a
कवचं च ध्वजं चैव धनुः शक्तिर्हयाः शराः । 016c
शरैः कृत्ता महेष्वास यतमानस्य संयुगे ॥ 016e
सोऽहं दृष्ट्वा रणे तस्य कर्ण कर्णस्य फल्गुन । 017a
व्यवसीदामि दुःखेन न तु मे जीवितं प्रियम् ॥ 017c
न चेदद्य हि तं वीरं निहनिष्यसि संयुगे । 018a
प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम ॥ 018c
एवमुक्तः प्रत्युवाच विजयो भरतर्षभ ॥ 019ac
सत्येन ते शपे राजंस्त्वत्पादेन तथैव च । 020a
भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते ॥ 020c
'अहमेनं नरश्रेष्ठ सामात्यं च महीपते' । 021a
यथाद्य समरे कर्णं हनिष्यामि हतोपि वा । 021c
महीतले पतिष्यामि सत्येनायुधमालभे ॥ 021e
एवमाभाष्य राजानमब्रवीन्माधवं वचः । 022a
अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः । 022c
त्वमनुध्याहि भद्रं ते वधं तस्य दुरात्मनः ॥ 022e
एवमुक्तोऽब्रवीत्पार्थं केशवो राजसत्तम । 023a
शक्तोऽसि भरतश्रेष्ठ यत्नं कर्तुं यदात्थ माम् ॥ 023c
एष चापि हि मे कामो नित्यमेव महारथ । 024a
कथं भवान्रणे कर्णं निहन्यादिति सत्तम ॥ 024c
एवमुक्तस्ततो राजन्पार्थो वचनमब्रवीत् । 025a
हन्यते द्वैरथे भूयो युज्यन्तां वै रथोत्तमे ॥ 025c
उपावृत्ताश्च तुरगाः शिक्षिताश्चाश्वसादिभिः । 026a
रथोपकरणैः सर्वैः सत्वरं यातु मे रथः ॥ 026c
एवमुक्तो महाराज फल्गुनेन महात्मना । 027a
उवाच दारुकं कृष्णः कुरु सर्वं यदब्रवीत् । 027c
अर्जुनो भारतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ 027e
आज्ञप्तस्त्वथ कृष्णेन दारुको राजसत्तम । 028a
योजयामास च रथं वैयाघ्रं शत्रुतापनम् । 028c
सज्जं निवेदयामास पाण्डवस्य महात्मनः ॥ 028e
युक्तं तु रथमास्थाय दारुकेण महात्मना । 029a
उपस्थितं रथं दृष्ट्वा पद्मनाभो रणान्तकृत् । 029c
भूयश्चोवाच मतिमान्माधवो धर्मनन्दनम् ॥ 029e
युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुमर्हसि । 030a
अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः ॥ 030c
श्रुत्वा ह्यावां महासङ्ख्ये त्वां कर्णशरपीडितम् । 031a
प्रवृत्तिं ज्ञातुमायाताविहावां पाण्डुनन्दन ॥ 031c
दिष्ट्यासि राजन्विरुजो दिष्ट्या न ग्रहणं गतः । 032a
परिसान्त्वय बीभत्सुं जयमाशाधि चानघ ॥ 032c
युधिष्ठिर उवाच । 033
एह्येहि पार्थ बीभत्सो मां परिष्वज पाण्डव । 033a
वक्तव्यमुक्तोस्म्यहितं त्वया क्षान्तं च तन्मया ॥ 033c
अहं त्वामनुजानामि जहि कर्णं धनञ्जय । 034a
मन्युं च मा कृथाः पार्थ यन्मयोक्तोऽसि दारुणं ॥ 034c
सञ्जय उवाच । 035
ततो धनञ्जयो राजञ्शिरसा प्रणतस्तदा । 035a
पादौ जग्राह पाणिभ्यां भ्रातुर्ज्येष्ठस्य मारिष ॥ 035c
तमुत्थाप्य ततो राजा परिष्वज्य च पीडितम् । 036a
मूर्ध्नुपाघ्राय चैवैनमिदं पुनरुवाच ह ॥ 036c
धनञ्जय महाबाहो मानितोऽस्मि दृढं त्वया । 037a
माहात्म्यं विजयं चैवं भूयः प्राप्नुहि शाश्वतम् ॥ 037c
अर्जुन उवाच । 038
अद्य तं पापकर्माणं सानुबन्धं रणे शरैः । 038a
नयाम्यन्तं समासाद्य राधेयं बलगर्वितम् ॥ 038c
येन त्वं पीडितो बाणैर्दृढमायम्य कार्मुकम् । 039a
तस्याद्य कर्मणः कर्णः फलमाप्स्यति दारुणम् ॥ 039c
अद्य त्वामुपयास्यामि कर्णं हत्वा महीपते । 040a
सभाजये त्वामाक्रन्दादिति सत्यं ब्रवीमि ते ॥ 040c
नाहत्वा विनिषर्तिष्ये कर्णमद्य रणाजिरात् । 041a
इति सत्येन ते पादौ स्पृशामि जगतीपते ॥ 041c
सञ्जय उवाच । 042
इति ब्रुवाणं सुमनाः किरीटिनं युधिष्ठिरः प्राह वचो बृहत्तरम् । 042a
यशोऽक्षयं जीवितमीप्सितं ते जयं सदा वीर्यमरिक्षयं तदा ॥ 042c
प्रयाहि वृद्धिं च दिशन्तु देवता यथाहमिच्छामि तवास्तु तत्तथा । 043a
प्रयाहि शीघ्रं जहि कर्णमाहवे पुरन्दरो वृत्रमिवात्मवृद्धये ॥ ॥ 043c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चसप्ततितमोऽध्यायः ॥ 75 ॥