अध्यायः 073

युधिष्ठिराधिक्षेपादात्मवधोद्यतं पार्थं प्रति कृष्णेन तत्प्रतिनिधितया आत्मप्रशंसनचोदना ॥ 1 ॥ अर्जुनेनात्मप्रशंसनानन्तरं युधिष्ठिरक्षमापनम् ॥ 2 ॥

सञ्जय उवाच । 001
इत्येवमुक्तस्तु जनार्दनेन पार्थः प्रशस्याथ सुहृद्वचस्तत् । 001a
ततोऽब्रवीदर्जुनो धर्मराजमनुक्तपूर्वं परुषं प्रसह्य ॥ 001c
मा त्वं राजन्व्याहरस्वाद्य पापं त्वं तिष्ठसि क्रोशमात्रे व्यपेत्य । 002a
भीमस्तु मामर्हति गर्हणाय यो युध्यते सर्वलोकप्रवीरैः ॥ 002c
काले हि शत्रून्परिपीड्य वीरो हत्वा प्रवीरान्वसुधाधिपानाम् । 003a
रथप्रधानोत्तमनागमुख्या युधिप्रवीरा निहताश्च शूराः ॥ 003c
सुदुष्करं कर्म करोति भीमः कर्तुं यथा नार्हति कश्चिदन्यः । 004a
रथादवस्कन्द्य गदां परामृशंस्तथा रणे हन्ति तथैव वारणान् ॥ 004c
स कुञ्जराणामधिकं सहस्रं हत्वा नदंस्तुमुलं सिंहनादम् । 005a
काम्भोजवानायुजपार्वतीयानीहामृगाभान्विनिहत्य वाजिनः ॥ 005c
महारथान्द्विरदाञ्शैलकल्पान्सहेत यः कुञ्जरान्वध्यमानान् । 006a
असौ भीमो धार्तराष्ट्रेषु मग्नः स मामुपालब्धुमरिन्दमोऽर्हति ॥ 006c
वरासिना चाथ नराश्वकुञ्जरांस्तथा रथाङ्गैर्धनुषा च हन्त्यरीन् । 007a
प्रमृद्य पद्भ्यामहितांस्तु हन्ति पुनश्च दोर्भ्यां शतमन्युविक्रमः ॥ 007c
महाबलो वैश्रवणान्तकोपमः प्रसह्य हर्ता द्विषतां यशांसि । 008a
स भीमसेनोऽर्हति गर्हणाय न त्वं नित्यं रक्ष्यमाणः सुहृद्भिः ॥ 008c
कलिङ्गवङ्गाङ्गनिषादमागधान्सदा महाशैलवलाहकोपमान् । 009a
निहन्ति यः शत्रुगणाननेकशः स मां हि वक्तुं प्रभवत्यमानगसम् ॥ 009c
संयुक्तमास्थाय रथं हि काले धनुर्विधून्वञ्छरपूर्णमुष्टिः । 010a
सृजेच्च यो बाणसङ्घान्परेषु महाबलो मेघ इवाम्बुधाराः ॥ 010c
शतान्यष्टौ वारणानामदर्शयद्विशातितैः कुम्भघटाग्रहस्तैः । 011a
यो भीमसेनो निहतारिसङ्घः स मामुपालब्धुमरिन्दमोऽर्हति ॥ 011c
रथाश्च नागाश्च हयाश्च राजन्भीमेनाजौ निहताः सङ्घशोऽद्य । 012a
राजानश्च बहवो महाबलाः स मामुपालब्धुमरिन्दमोऽर्हति ॥ 012c
धृतराष्ट्रपुत्रा बलिनश्च येन महाबला निहताः प्रायशो वै । 013a
शूरो युद्धे ह्यप्रतिवार्यवीर्यः स मामुपालब्धुमरिन्दमोऽर्हति ॥ 013c
प्रतापयंस्तद्बलमुग्ररूपं योऽसौ रणे धार्तराष्ट्रस्य वीरः । 014a
एकः सहेताप्रतिसह्यपौरुषस्तेनास्मि वाच्यो न त्वया वै कदाचित् ॥ 014c
महारथा यत्र यत्रैव युद्धे भिन्दन्ति सैन्यं तव कामतोऽद्य । 015a
तत्रैव तत्रैव रणे महात्मा दृढं भीमः परसङ्घानमृद्नात् ॥ 015c
तेनास्मि वाच्यो न त्वया हं कदाचिन्मा मा वोचः क्रूरमिहाद्य पार्थ । 016a
नास्मद्विधो वै भवता तु वाच्यो यथा भवान्सर्वलोकस्य वाच्यः ॥ 016c
एवं हि मा ते ब्रुवतो नरेन्द्र कथं न दीर्येच्छतधाऽद्य जिह्वा । 017a
अहो बतेदं सुनृशंसरूपं कामादवोचस्त्वमिहाद्य यद्वै ॥ 017c
बलं न वाधिष्ठितं सत्तमानां यत्क्षत्रियाणां बहुलं वदन्ति । 018a
त्वं चाबलो भारत निष्ठुरोऽसि त्वमेव मां वेत्सि यथाविधोऽहम् ॥ 018c
नकुलेन राजन्गजवाजियोधा हताश्च वीराः सहसा समेत्य । 019a
त्यक्त्वा प्राणान्समरे युद्धकाङ्क्षी स मामुपालब्धुमरिन्दमोऽर्हति ॥ 019c
कृतं कर्म सहदेवेन दुष्करं यो युध्यते परसैन्यावमर्दी । 020a
न चाब्रवीत्किञ्चिदिहागतो बली पश्यान्तरं तस्य चेवात्मनश्च ॥ 020c
धृष्टद्युम्नः सात्यकिर्द्रौपदेया युधामन्युश्चोत्तमौजाः शिखण्डी । 021a
एतेऽद्य युधि सम्प्रपीडितास्ते मामुलपालब्धुमर्हन्ति न त्वम् ॥ 021c
त्वन्मूलमस्माभिरिदं हि वैरं प्राप्तं तथा व्यसनं चातिघोरम् । 022a
द्यूतप्रमत्तेन कृतं त्वयाऽसकृत्कस्मादुपालब्धुमिहार्हसि त्वम् ॥ 022c
त्वमेव राजन्सततं प्रमत्तस्त्वमेव मूढो भारतानामसाधुः । 023a
त्वां प्राप्य राज्यं च विनष्टमेतत्प्राप्ता महत्पाण्डवाश्चापि दास्यम् ॥ 023c
त्वत्तः कृतोऽस्मकद्वनवासदुःखं राज्यस्य नाशो ह्यभिमन्योश्च घोरः । 024a
आत्मानमेवं सुनृशंसरूपं ज्ञात्वा किमर्थं गर्हसे माद्य वीर ॥ 024c
लज्जस्व राजन्यदि तेऽस्ति लज्जा तूष्णीम्भूतः पश्य सर्वं कृतघ्नः । 025a
भीमो नित्यं समरस्य कर्ता दर्पस्य भेत्ता पुनरेव नित्यम् ॥ 025c
स्वयं ह्यशक्तेन नरेन्द्र युद्धे नरेण कार्या सततं क्षमैव । 026a
बलं हि वाचि द्विजसत्तमानां क्षात्रं द्विजा बाहुबलं वदन्ति ॥ 026c
त्वं वाग्बलो भारत निष्ठुरोऽसि त्वमेव मां वेत्सि यथाविधोऽहम् । 027a
घटामि नित्यं तव कर्तुमिष्टं दारैः सुतैर्जीवितेनात्मना च ॥ 027c
एवञ्च मां वाक्छलाकैर्हिनत्सि त्वत्तः सुखं न वयं विद्म किञ्चित् । 028a
मा मामवंस्था द्रौपदीतल्पसंस्थो महारथान्प्रतिहन्मि त्वदर्थे ॥ 028c
सर्वातिशङ्की भवसि प्रमत्तस्त्वत्तः सुखं नाभिजानामि किञ्चित् । 029a
प्रोक्तः स्वयं सत्यसन्धेन मृत्युस्तव प्रियार्थं नरदेव युद्धे ॥ 029c
शिखण्डिनाम्ना प्रधने तवार्थे मयाभिगुप्तेन हतश्च भीष्मः । 030a
द्रोणो हतो यः सततोपकारी धृष्टद्युम्नेन स्यन्दनाद्विप्रकृष्टः ॥ 030c
द्रौणिश्च रुद्धः सगणो महात्मा तथापि ते वै वचनं नृशंसवत् । 031a
दुःखं प्रियं ते नरदेव कर्तुं यस्य प्रियं ते न करोम्यहं वै ॥ 031c
न मुच्यते वै दिवि चेह यः पुमान्यस्ते मदन्योऽप्रियमारभेत । 032a
न चाभिनन्दामि तथाहि राज्यं यतस्त्वमक्षेषु दृढं प्रसक्तः ॥ 032c
स्वयं कृतं पापमनार्यजुष्टमस्माभिराजौ व्यसनं तितीर्षसि । 033a
अक्षेषु दोषा बहवो विधर्म्याः श्रुतास्त्वया सहदेवोऽब्रवीद्यान् ॥ 033c
तान्नेच्छसि त्यक्तुमनार्यजुष्टान्घोरे स्म सर्वे निरये त्वयाऽस्ताः । 034a
त्वं देविता त्वत्कृते राज्यनाशस्त्वत्सम्भवं व्यसनं नो नरेन्द्र ॥ 034c
मास्मान्क्रूरैर्वाक्प्रतोदैस्तुदस्त्वं भूयो राजन्कोपयस्यल्पबुद्ध्या ॥ 035ac
सञ्जय उवाच । 036
एता वाचः परुषाः सव्यसाची स्थिरप्रतिज्ञः श्रावयित्वा नरेन्द्रम् । 036a
विनिःश्वसञ्ज्येष्ठमनिष्टमुक्त्वा ततस्तु कोशादसिमुद्बबर्ह ॥ 036c
तमाह कृष्णः किमिदं पुनर्भवान्विकोशमाकाशनिभं करोत्यसिम् । 037a
प्रब्रूहि सत्यं पुनरुत्तरं सखे वचः प्रवक्ष्याभि तवार्थसिद्धये ॥ 037c
इतीव पृष्टः पुरुषोत्तमेन सुदुःखितः केशवमाह पार्थः । 038a
अहं हनिष्ये स्वशरीरमेतत्प्रसह्य येनाहितमुक्तवान्गुरुम् ॥ 038c
निशम्य तत्पार्थवचोऽब्रवीदिदं जनार्दनो धर्मभृतां वरिष्ठः । 039a
प्रब्रूहि पार्थ स्वगुणानिहात्मनस्ततो हतात्मा भवसीति निश्चयः ॥ 039c
तथा तु कृष्णस्य वचो निशम्य ततोऽर्जुनः प्राह धनुः प्रगृह्य । 040a
युधिष्ठिरं धर्मभृतां वरिष्ठं शृणुष्व राजन्निति दुर्वचः स्वयम् ॥ 040c
अर्जुन उवाच । 041
न मादृशोऽन्यो नरदेव विद्यते धनुर्धरो देवमृते पिनाकिनम् । 041a
अहं हि तेनानुमतो महात्मना क्षणेन हन्यां सचराचरं जगत् ॥ 041c
मया हि राजन्सदिगीश्वरा दिशो विजित्य सर्वा भवतः कृता वशे । 042a
स राजसूयश्च समाप्तदक्षिणः सभा च दिव्या भवतो ममौजसा ॥ 042c
पाणी पृषत्कालिखिताविमौ पुनर्धनुश्च सव्ये विततं सबाणम् । 043a
पादौ च मे लक्षणतः प्रशस्तौ न मादृशं युद्धगतं जयन्ति ॥ 043c
हता उदीच्या निहताः प्रतीच्याः प्राच्या निरस्ता दाक्षिणात्या विशस्ताः । 044a
संशप्तकानां किञ्चिदेवावशिष्टं सर्वस्य लोकस्य हतं मयाऽर्धम् ॥ 044c
शेते मया निहता शत्रुसेना छिन्नैर्गात्रैर्भूमितले स्खलन्ती । 045a
अनस्त्रज्ञान्नैव निहन्मि चास्त्रैस्तस्मान्न भस्मैव करोमि लोकान् ॥ 045c
जैत्रं रथं भीममास्थाय कृष्ण यावच्छीघ्रं सूतपुत्रं निहन्तुम् । 046a
राजा भवत्वद्य सुनिर्वृतोऽयं कर्णं रणे नाशयितास्मि बाणैः ॥ 046c
इत्येवमुक्त्वा पुनराह पार्थो युधिष्ठिरं धर्मभृतां वरिष्ठम् । 047a
अद्यापुत्रा सूतमाता भवित्री कुन्ती वाथो वा मया तेन वापि । 047c
सत्यं वदाम्यद्य न कर्णमाजौ शरैरहत्वा कवचं विमोक्ष्ये ॥ 047e
सञ्जय उवाच । 048
इत्येवमुक्त्वा पुनरेव पार्थो युधिष्ठिरं धर्मभृतां वरिष्ठम् । 048a
विमुच्य शस्त्राणि धनुर्विसृज्य कोशे च खड्गं विनिधाय तूर्णम् ॥ 048c
स व्रीडया नम्रशिराः किरीटी युधिष्ठिरं प्राञ्जलिरभ्युवाच । 049a
प्रसीद राजन्क्षम यन्मयोक्तं काले भवान्वेत्स्यति तन्नमस्ते ॥ 049c
ततस्तु पादावुपगृह्य पार्थः समुत्थितो दीप्ततेजाः किरीटि । 050a
प्रसाद्य राजानममित्रसाहं स्थितोऽब्रवीच्चैनमभिप्रतप्तम् ॥ 050c
याम्येष भीमं समराद्विमोक्तुं सर्वात्मना सूतपुत्रं च हन्तुम् । 051a
भवत्प्रियार्थं मम जीवितं हि ब्रवीमि सत्यं तदवेहि राजन् ॥ 051c
नेदं चिरात्क्षिप्रमिदं भविष्यदावर्ततेऽसावभियामि चैनम् । 052a
अद्याप्यपुत्रा तेन हतेन राधा कुन्ती मया वा तदिदं विद्धि राजन् ॥ ॥ 052c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे त्रिसप्ततितमोऽध्यायः ॥ 73 ॥

8-73-29 सत्यसन्धेन भीष्मेण ॥