अध्यायः 072

युधिष्ठिरवधोद्यतमर्जुनम्प्रति कृष्णेन तत्कारणप्रश्ने तेन तन्निवेदनम् ॥ 1 ॥ कृष्णेन वधप्रतिनिधित्वेन युधिष्ठिराधिक्षेपविधानम् ॥ 2 ॥

सञ्जय उवाच । 001
युधिष्ठिरेणैवमुक्तः कौन्तेयः श्वेतवाहनः । 001a
असिं जग्राह सङ्क्रुद्धो जिघांसुर्भरतर्षभम् ॥ 001c
तस्य कोपं समाज्ञाय चित्तज्ञः केशवस्तदा । 002a
उवाच किमिदं खड्गं गृह्णास्यर्जुन शंस मे ॥ 002c
नेह पश्यामि योद्धव्यं त्वया किञ्चिद्धनञ्जय । 003a
नेहागता धार्तराष्ट्राः सर्वे भीमेन वारिताः ॥ 003c
उपागतोऽसि कौन्तेय राजा द्रष्टव्य इत्यसौ । 004a
स राजा भवता दृष्टः कुशली च युधिष्ठिरः ॥ 004c
तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम् । 005a
हर्षकाले च सम्प्राप्ते कस्मात्त्वां मन्युराविशत् ॥ 005c
न तं पश्यामि कौन्तेय यस्ते वध्यो भवेदिह । 006a
प्रहर्तुमिच्छसे कस्मात्किं वा ते चित्तविभ्रमः ॥ 006c
कस्माद्भवान्महाखड्गं परिगृह्णात्यकारणात् ॥ 007ac
तत्त्वां पृच्छामि कौन्तेय किमिदं ते चिकीर्षितम् । 008a
परामृशसि यत्क्रुद्धः खड्गमद्भुतविक्रम ॥ 008c
एवमुक्तः कटाक्षेण प्रेक्षमाणो युधिष्ठिरम् । 009a
अर्जुनः प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन् ॥ 009c
अन्यस्मै देहि गाण्डीवमिति मां यः प्रचोदयेत् । 010a
भिन्द्यामहं तस्य शिर इत्युपांशु व्रतं मम । 010c
युधिष्ठिरेण तेनाहमुक्तश्चास्मि जनार्दन ॥ 010e
यदुक्तोऽहमदीनार्थं राज्ञाऽनेन यशस्विना । 011a
समक्षं तव गोविन्द न तत्क्षन्तुमिहोत्सहे ॥ 011c
तस्मादेनं विधिष्यामि राजानं धर्मचारिणाम् । 012a
प्रतिज्ञां पालयिष्यामि हत्वैनं नरसत्तमम् ॥ 012c
एतदर्थं मया खड्गो गृहीतो यदुनन्दन । 013a
सोऽहं युधिष्ठिरं हत्वा सत्यस्यानृण्यतां गतः । 013c
विशोको विज्वरश्चापि भविष्यामि जनार्दन ॥ 013e
किं वा त्वं मन्यसे प्राप्तमस्मिन्कार्य उपस्थिते । 014a
त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम् ॥ 014c
'जातस्त्वत्तो हि धर्मश्चाधर्मश्चेति परा श्रुतिः' । 015a
तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान् ॥ 015c
सञ्जय उवाच । 016
धिग्धिगित्येव गोविन्दः पार्थमुक्त्वाब्रवीत्पुनः ॥ 016ac
कृष्ण उवाच । 017
इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया । 017a
अकाले पुरुषव्याघ्र संरम्भं यद्भवानगात् ॥ 017c
न हि धर्मविभागज्ञैरेवं कार्यं धनञ्जय । 018a
यथा त्वं पाण्डवाद्येह धर्मभीरुरपण्डितः ॥ 018c
योऽकार्याणां क्रियायाश्च संयोगं नावबुध्यते । 019a
कार्याणामक्रियायाश्च स पार्थ पुरुषाधमः ॥ 019c
अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः । 020a
समासविस्तरविदां न तेषां वेत्सि निश्चयम् ॥ 020c
अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये । 021a
एवं स मुह्यत्यवशो यथा त्वं पार्थ मुह्यसि ॥ 021c
न हि कार्यमकार्यं वा सुखं ज्ञातुं कथञ्चन । 022a
श्रुतेन ज्ञायते सर्वं तच्च त्वं नावबुध्यसे ॥ 022c
अविज्ञानादिह भवान्सत्यं रक्षति धर्मवित् । 023a
प्राणिनां त्वं वधं पार्थ धार्मिको नावबुध्यसे ॥ 023c
प्राणिनां हि वधात्तात वृथा धर्मो मतो मम । 024a
अनृतं तु भवेद्वाच्यं न तु हिंसा कदाचन ॥ 024c
स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम् । 025a
हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव ॥ 025c
अयुध्यमानस्य गुरोस्तथाऽशत्रोश्च मानद । 026a
पराङ्मुखस्य द्रवतः शरणं चापि गच्छतः ॥ 026c
कृताञ्जलेः प्रपन्नस्य प्रमत्तस्य तथैव च । 027a
न वधः पूज्यते सद्भिस्तच्च सर्वं गुरौ तव ॥ 027c
त्वया चैतद्व्रतं पार्थ बालेनेव कृतं पुरा । 028a
तस्मादधर्मसंयुक्तं मौर्ख्यादेव व्यवस्यसि ॥ 028c
स्वगुरुं पार्थ कस्मात्त्वं हन्तुकामोऽभिधावसि । 029a
असम्प्रधार्य धर्माणां गतिं सूक्ष्मां दुरत्ययाम् ॥ 029c
इदं धर्मरहस्यं च तव वक्ष्यामि पाण्डव । 030a
यद्ब्रूयात्तव भीष्मो वा राजा वापि युधिष्ठिरः ॥ 030c
विदुरो वा पुनः क्षत्ता गान्धारी वा यशस्विनी । 031a
कुन्ती वा भरतश्रेष्ठ द्रौपदी वा यशस्विनी । 031c
तत्ते वक्ष्यामि तत्त्वेन निबोधैतद्धनञ्जय ॥ 031e
सत्यस्य वचनं साधु न सत्याद्विद्यते परम् । 032a
सुदुर्विदं हि तत्त्वेन तत्सत्यमिति मे सतिः ॥ 032c
भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत् । 033a
यत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत् ॥ 033c
विवाहकाले रतिसम्प्रयोगे प्राणात्यये सर्वधनापहारे । 034a
विप्रस्य चार्थे ह्यनृतं वदेत पञ्चानृतान्याहुरपातकानि ॥ 034c
सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत् । 035a
तत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत् ॥ 035c
तादृशो हन्यते बालो यस्य सत्यमनिश्चितम् । 036a
सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ॥ 036c
किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः । 037a
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव ॥ 037c
किमाश्चर्यं पुनर्मूढो धर्मकामो ह्यपण्डितः । 038a
सुमहत्प्राप्नुयात्पापमापगास्विव कौशिकः ॥ 038c
अर्जुन उवाच । 039
आचक्ष्व भगवन्नेतद्यथा विन्दाम्यहं तथा । 039a
बलाकस्यानुसम्बद्धं नदीनां कौशिकस्य च ॥ 039c
वासुदेव उवाच । 040
मृगव्याधोऽभवत्कश्चिद्बलाको नाम भारत । 040a
यात्रार्थं पुत्रदाराणां मृगान्हन्ति न कामतः ॥ 040c
वृद्धौ च मातापितरौ बिभर्त्यन्यांश्च संश्रितान् । 041a
स्वधर्मनिरतो नित्यं संविभज्यानसूयकः ॥ 041c
स कदाचिन्मृगप्रेप्सुर्नान्वविन्दन्मृगं क्वचित् । 042a
अथापश्यत्स पीवानं श्वापदं घ्राणचक्षुषम् ॥ 042c
अदृष्टपूर्वमपि तत्सत्वं तेन हतं तदा । 043a
अन्धे हते ततो व्योम्नः पुष्पवर्षं पपात च ॥ 043c
अप्सरोगीतवादित्रैर्नादितं च मनोरमम् । 044a
विमानमगमत्स्वर्गान्मृगव्याधनिनीषया ॥ 044c
तद्भूतं सर्वभूतानामभावाय किलार्जुन । 045a
तपस्तप्त्वा वरं प्राप्तं कृतमन्धं स्वयम्भुवा ॥ 045c
तद्धत्वा सर्वभूतानामभावकृतनिश्चयम् । 046a
बलाकोऽगात्स्वर्गलोकमेवं धर्मः सुदुर्विदः ॥ 046c
कौशिकोऽप्यभवद्विप्रस्तपस्वीनो बहुश्रुतः । 047a
नदीनां सङ्गमे ग्रामाददूरे स किलावसत् ॥ 047c
सत्यं मया सदा वाच्यमिति तस्याभवद्व्रतम् । 048a
सत्यवादीति विख्यातः स तदासीद्धनञ्जय ॥ 048c
अथ दस्युभयात्केचित्तदा तद्वनमाविशन् । 049a
तत्रापि दस्यवः क्रुद्धास्तानमार्गन्त यत्नतः ॥ 049c
अथ कौशिकमभ्येत्य प्रोचुस्ते सत्यवादिनम् । 050a
कतरेण पथा याता भगवन्निति वै जनाः । 050c
सत्येन पृष्टः प्रब्रूहि यदि तद्वेत्थ शंस नः ॥ 050e
श्रीकृष्ण उवाच । 051
सत्यस्य त्वविभागज्ञः सत्यं तेभ्यः शशंस ह । 051a
बहुवृक्षलतागुल्ममेतद्गहनमाश्रिताः । 051c
इति तान्ख्यापयामास तेभ्यस्तत्त्वं स कौशिकः ॥ 051e
ततस्ते तान्समासाद्य क्रूरा जघ्नुरिति श्रुतिः । 052a
ततोऽधर्मेण महता वाग्दुरुक्तेन कौशिकः ॥ 052c
गतः सुकष्टं निरयं धर्मसूक्ष्मेष्वतत्त्ववित् । 053a
दृष्टपूर्वश्रुतो मूढो धर्माणामविशारदः ॥ 053c
वृद्धानपृच्छन्सन्देहानन्धः श्वभ्रमिवर्च्छति ॥ 054ac
तत्र ते लक्षणोद्देशः कश्चिदेव भविष्यति । 055a
दुष्करं प्रतिसङ्ख्यानं कार्त्स्न्येनात्र व्यवस्थितिः ॥ 055c
सत्यं धर्म इति ह्येके वदन्ति बहवो जनाः । 056a
न च पार्थाभ्यसूयामि नैतत्सर्वत्र शिष्यते ॥ 056c
श्रुतिस्तु धार्या इत्येके वदन्ति बहवो जनाः । 057a
न त्वेतत्प्रत्यसूयामि तत्र सर्वं विधीयते ॥ 057c
यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः । 058a
अहिंसार्थाय हिंस्राणां धर्मप्रवचनं कृतम् । 058c
धारणाद्धर्ममित्याहुर्धर्मो धारयते प्रजाः ॥ 058e
प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम् । 059a
यस्मात्प्रभवसंयुक्तः स धर्म इति निश्चयः ॥ 059c
येऽन्यायेन जिगीषन्तो धर्मं पृच्छन्ति मानवाः । 060a
अकूजनेन चेन्मोक्षो नात्र कूजेत्कथञ्चन ॥ 060c
अवश्यं कूजितव्ये ह शङ्केरन्वाप्यकूजनात् । 061a
येऽन्यायेन जिहीर्षन्तो धर्मं पृच्छन्ति कस्यचित् । 061c
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विनिश्चितम् ॥ 061e
प्राणात्यये विवाहे वा सर्वजात्या महाभये । 062a
सर्वस्वस्य च लोपे वा वक्तव्यमनृतं भवेत् ॥ 062c
अधर्मं हि न पश्यन्ति मृषोद्यं तत्र पण्डिताः । 063a
सर्वथाऽभिवदेत्तत्तु नानृतं स्याद्विचक्षणः ॥ 063c
यः स्तेनैः सह सम्बन्धो मुच्यते शपथादपि । 064a
भवेत्तत्रानृतं श्रेयः सत्यादिति विचारितम् ॥ 064c
न च तेभ्यो धनं देयं सत्यादिति कथञ्चन । 065a
पापेभ्योऽपि धनं दत्तं दातारमपि पीडयेत् । 065c
तस्माद्धर्मार्थमनृतमुक्त्वा नानृतवाग्भवेत् ॥ 065e
एष ते लक्षणोद्देशो मयोद्दिष्टो यथाविधि । 066a
एतज्ज्ञात्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः ॥ 066c
अर्जुन उवाच । 067
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महायशाः ॥ 067ac
सुहृद्ब्रूयाद्यथाऽस्माकं तथोक्तं वचनं त्वया । 068a
भवान्मातृसमोऽस्माकं भवान्पितृसमोऽपि च । 068c
गतिश्च परमा कृष्ण त्वमेव च परायणम् ॥ 068a
न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्वचित् । 069c
तस्माद्भवान्परं धर्मं वेद सर्वं यथातथम् ॥ 069e
अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम् । 070a
अधर्मयुक्ते संयोगे ब्रूहि किञ्चिदनुग्रहम् ॥ 070c
इदं चापरमत्रैव ब्रूहि तत्त्वं विवक्षितम् ॥ 071ac
जानासि दाशार्ह मम व्रतं तु यो मां ब्रूयात्कश्चन मानुषेषु । 072a
अन्यस्मै त्वं गाण्डिवं देहि पार्थ यो मत्तोऽस्त्रे वीर्यतो वा विशिष्टः ॥ 072c
हन्यामहं केशव तं प्रसह्य भीमो हन्यात्तूवरकेति चोक्तः । 073a
तन्मां राजा ह्युक्तवांस्ते समक्षं धनुर्देहीत्यसकृद्वृष्णिवीरे ॥ 073c
तं हन्यां चेत्केशव जीवलोके स्थाता नाहं कालमप्यल्पमात्रम् । 074a
ध्यात्वा नूनं ह्येनसा चापि मुक्तो वधं राज्ञो भ्रष्टवीर्यो विचेताः ॥ 074c
यथा प्रतिज्ञा मम लोकबुद्धौ भवेत्सत्या धर्मभृतां वरिष्ठ । 075a
यथा जीवत्पाण्डवोऽहं च कृष्ण तथा बुद्धिं दातुमप्यर्हसि त्वम् ॥ 075c
वासुदेव उवाच । 076
राजा श्रान्तो विक्षतो दुःखितश्च कर्णेन सङ्ख्ये निशितैर्बाणसङ्घैः । 076a
यश्चानिशं सूतपुत्रेण वीर शरैर्भृशं ताडितो युध्यमानः ॥ 076c
अतस्त्वमेतेन सरोषमुक्तो दुःखान्वितेनेदमयुक्तरूपम् । 077a
अकोपितो ह्येष यदि स्म सङ्ख्ये कर्णं न हन्यादिति चाब्रवीत्सः ॥ 077c
जानाति तं पाण्डव एष चापि पापं लोके कर्णमसह्यमन्यैः । 078a
ततस्त्वमुक्तो भृशरोषितेन राज्ञा समक्षं परुषाणि पार्थ ॥ 078c
नित्योद्युक्ते सततं चाप्रसह्ये कर्णे द्यूतं ह्यद्य रणे निबद्धम् । 079a
तस्मिन्हते कुरवो निर्जिताः स्युरेवं बुद्धिः पार्थिवे धर्मपुत्रे ॥ 079c
ततो वधं नार्हति धर्मपुत्रस्त्वया प्रतिज्ञाऽर्जुन पालनीया । 080a
जीवन्नयं येन मृतो भवेद्धि तन्मे निबोधेह तवानुरूपम् ॥ 080c
यदा मानं लभते माननार्हस्तदा स वै जीवति जीवलोके । 081a
यदाऽवमानं लभते महान्तं तदा जीवन्मृत इत्युच्यते सः ॥ 081c
सम्मानितः पार्थिवोऽयं सदैव त्वया च भीमेन तथा यमाभ्याम् । 082a
वृद्धैश्च लोके पुरुषैश्च शूरैस्तस्यापमानं कलया प्रयुङ्क्ष्व ॥ 082c
त्वमित्यत्रभवन्तं हि ब्रूहि पार्थ युधिष्ठिरम् । 083a
त्वमित्युक्तो हि निहतो गुरुर्भवति भारत ॥ 083c
एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे । 084a
अधर्मयुक्तं संयोगं कुरुष्वैनं कुरूद्वह ॥ 084c
अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः । 085a
अविचार्यैव कार्यैषा श्रेयस्कामैर्नरैः सदा ॥ 085c
अवधेन वधः प्रोक्तो यद्गुरुस्त्वमिति प्रभुः । 086a
तद्ब्रूहि त्वं यन्मयोक्तं धर्मराजस्य धर्मवित् ॥ 086c
यदा ह्ययं पाण्डव धर्मराजस्त्वत्तोऽयुक्तं लप्स्यते चैव साधु । 087a
ततोऽस्य पादावभिवाद्य पश्चाच्छ्रेयो ब्रूयात्सान्त्वयुक्तं हितं च ॥ 087c
भ्राता प्राज्ञस्तव कोपं न जातु कुर्याद्राजा धर्ममार्गानुसारी । 088a
मुक्तोऽनृताद्भातृवधाच्च पापाद्धृष्टः कर्णं त्वं जहि पार्थ पश्चात् ॥ ॥ 088c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्विसप्ततितमोऽध्यायः ॥ 72 ॥

8-72-22 सुखं अनधीत्येत्यर्थः । श्रुतेन शास्त्रेण ॥ 8-72-26 अशत्रोः अशातनीयस्य अवध्यस्य ॥ 8-72-47 तपस्वीनः तपस्विनामिनः श्रेष्ठः ॥ 8-72-52 यथा चाल्पश्रुतो मूढो धर्माणामविभागवित् । वृद्धानपृष्ट्वा सन्देहं महच्छ्वभ्रमिहार्हति । इति ङ. पाठः ॥ 8-72-57 तत्र ते लक्षणोद्देशात्कश्चिदत्र भविष्यति इति क.ड.पाठः । दुष्करं परमं ज्ञानं तर्केणानुव्यवस्यति इति ङ पाठः । दुष्करं प्रतिसङ्ख्यानं कार्त्स्न्येनास्य व्यवस्यति इति क.घ.ड.पाठः । श्रुतेर्धर्म इति ह्येके इति ङ.पाठः ॥ 8-72-62 प्राणात्यये विधाहे वा सर्वज्ञातिवधात्यये । नर्मण्यभिप्रवृत्ते वा न च प्रोक्तं मृषा भवेत् इति झ.ङ.पाठः ॥ 8-72-63 अधर्मं नात्र पश्यन्ति धर्मतत्वार्थदर्शिनः इति ङ.पाठः ॥ 8-72-64 यः स्तेनैः सह सम्बन्धान्मुच्यते शपथैरपि । श्रेयस्तत्रानृतं वक्तुं तत्सत्यमविचारितम् । इति ङ. पाठः ॥ 8-72-65 शक्ये सति कथञ्चन इति ङ. पाठः ॥ 8-72-70 अनुग्रहं अवधेन प्रतिज्ञारक्षणम् ॥ 8-72-74 तं हन्यामिति स्थाता न न स्थास्ये । एनसा मुक्तोपि कृतप्रायश्चित्तोऽपि न स्थास्ये इत्यर्थः । किं कृत्वा राज्ञो वधं ध्यात्वा ॥ 8-72-78 समक्षं आवयोरिति शेषः ॥ 8-72-79 कर्णे पणीकृते । द्यूतं युद्धरूपम् ॥ 8-72-83 अत्र भवन्तं मान्यं त्वमिति ब्रूहि ॥ 8-72-84 एवं पूज्यावमानरूपं संयोगं आत्मनानुष्ठितं कुरुष्व ॥ 8-72-86 यत् गुरुस्त्वमिति प्रोक्तस्तत् अवधेन शस्त्रपातनमन्तरेणैव वधः वधकरं भवतीत्यर्थः ॥