अध्यायः 070

अर्जुनेन स्वयुद्धानुवादपूर्वकं युधिष्ठिरम्प्रति कर्णवधप्रतिज्ञानम् ॥ 1 ॥

सञ्जय उवाच । 001
तद्धर्मशीलस्य वचो निशम्य राज्ञः क्रुद्धस्यातिरथो महात्मा । 001a
उवाच दुर्मर्षमदीनसत्वो युधिष्ठिरं जिष्णुरनन्तवीर्यः ॥ 001c
द्रोणं हतं पार्थ कर्णो विदित्वा भिन्नां नावविमावत्यगाधे कुरूणाम् । 002a
सम्मुह्यमानान्धार्तराष्ट्रान्विदित्वा निरुत्साहांश्च विजये परेषाम् ॥ 002c
सोदर्यवत्त्वरितोऽमितौजा उत्तारयिष्यन्धृतराष्ट्रस्य पुत्रान् । 003a
रणे रथेनाधिरथिर्महात्मा ततो हि मां त्वरितः सोऽभ्यधावत् ॥ 003c
संशप्तकैर्युध्यमानस्य मेऽद्य सेनाग्रयायी कुरुसैन्यस्य राजन् । 004a
आशीविषाभान्विकिरञ्शरौघान्द्रौणिः पुरस्तात्सहसाध्यतिष्ठत् ॥ 004c
स मे दृष्ट्वा शूरतमो ध्वजाग्रं समादिशद्रथसङ्घाननेकान् । 005a
तेषामहं पञ्चशतं निहत्य आसादयं द्रोणपुत्रं नदन्तम् ॥ 005c
स द्रोणपुत्रः सदृशं महात्मा मामप्यरौत्सीत्तदनीकमध्ये । 006a
किरञ्शरौघान्बहुरूपान्विचित्रान्स्वातीगतः शुक्र इवातिवर्षन् ॥ 006c
स मे रान्सर्वतः कङ्कपत्रानवासृजद्वै पृथिवीप्रकाशान् । 007a
निवार्य तूर्णं परमाजिमध्ये ततोऽपि मां बाणगणैः समार्पयत् ॥ 007c
आकर्षणं वापि विकृष्य मुक्तं न दृश्यते तस्य महारथस्य । 008a
न सन्दधानः कुत आददानो न व्याक्षिपन्न विकर्षन्विमुञ्चन् ॥ 008c
सव्येन वा यदि वा दक्षिणेन न ज्ञायते कतरेणास्यतीति । 009a
आचार्यवत्समरे पर्यवर्तन्महच्चित्रं दर्शयन्सर्वतः स्म ॥ 009c
दृष्ट्वीविषं चासुहरं परेषां सर्वा दिशः पूरयानं शरौघैः । 010a
अलातचक्रप्रतिमं महात्मनः सदा नतं कार्मुकं ब्रह्मबन्धोः ॥ 010c
ततोऽपरान्बाणगणाननेकानाकर्णपूर्णायतविप्रमुक्तान् । 011a
ससर्ज शीघ्रास्त्रबलेन वीरस्तोयं यथा प्रावृषि कालमेघः ॥ 011c
आविध्यन्मां पञ्चभिद्रोणपुत्रः शितैः शरैः पञ्चभिर्वासुदेवम् । 012a
अभ्यघ्नं बाणैस्तमहं सुधारैर्निमेषमात्रेण सुवर्णपुङ्खैः ॥ 012c
स निर्विद्धो विरथो द्रोणपुत्रो रथानीकं चाधिरथेर्विवेश । 013a
मयाभिभूतान्स्वरथप्रबर्हानस्त्रं च पश्यन्रुधिरप्रदिग्धम् ॥ 013c
ततोऽभिभूतं युधि वीक्ष्य सैन्यं विध्वस्तयोधं द्रुतनागयूथम् । 014a
पञ्चाशता रथमुख्यैः समेतः कर्णस्त्वरन्नभ्यपतत्प्रमाथी ॥ 014c
तान्सूदयित्वाऽहमपास्य कर्णं द्रष्टुं भवन्तं त्वरयोपयातः । 015a
सर्वे पाञ्चाला ह्युद्विजन्ते स्म कर्णं दृष्ट्वा गावः केसरिणं यथैव ॥ 015c
मृत्योरास्यं व्यात्तमिवाभिपद्य प्रभद्रकाः कर्णमासाद्य सर्वे । 016a
यास्यामि तांस्तारयिष्यन्बलौघाद्दिष्ट्या भवान्स्वस्तिमान्पार्थ दृष्टः ॥ 016c
हनिष्येऽहं भारत सूतपुत्रमस्मिन्सङ्ग्रामे यदि दृश्यतेऽद्य । 017a
आयाहि पश्याद्य युयुत्समानौ मां सूतपुत्रं च धृतौ रणाय ॥ 017c
महाझषस्येव मुखं प्रपन्नाः प्रभद्रकाः कर्णमुखं प्रपन्नाः । 018a
षट्साहस्रा भारत राजपुत्राः स्वर्गाय लोकाय रणे निमग्नाः ॥ 018c
तानद्य यास्यामि रणाद्विमोक्तुं सर्वात्मना सूतपुत्रं च हन्तुम् ॥ 019ac
अथ प्रवीरेण महानुभाव द्विषत्सैन्यं निर्दहन्विस्तरेण । 020a
समेत्याहं सूतपुत्रेण सङ्ख्ये वज्रीव वृत्रेण नरेन्द्रमुख्य ॥ 020c
एवं गते किञ्च मयाऽद्य शक्यं कार्यं कर्तुं निग्रहे सूतजस्य । 021a
तथैव राज्ञश्च सुयोधनस्य ये चापि मां योद्धुकामाः समेताः ॥ 021c
कर्णं न चेदद्य निहन्मि राजन्सबान्धवं युध्यमानं प्रसह्य । 022a
प्रतिश्रुत्याऽकुर्वतां या गतिर्वै कष्टां यायां तामहं राजसिंह ॥ 022c
आमन्त्रये त्वां ब्रूहि रणे जयं मे पुरा भीमं धार्तराष्ट्रा ग्रसन्ति । 023a
सौतिं हनिष्यामि नरेन्द्रसिंह सैन्यं तथा शत्रुगणांश्च सर्वान् ॥ ॥ 023c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्ततितमोऽध्यायः ॥ 70 ॥