अध्यायः 069

युधिष्ठिरेण कर्णशरविक्षतस्यात्मनो दिदृक्षया स्वशिबिरमुपागतौ कृष्णार्जुनौ दृष्ट्वा पार्थेन राधेयस्य वधभ्रमेण पार्थस्य प्रशंसनम् ॥ 1 ॥

सञ्जय उवाच । 001
[अथोपयातौ पृथुलोहिताक्षौ शराचिताङ्गौ रुधिरप्रदिग्धौ । 001a
समीक्ष्य सेनाग्रनरप्रवीरौ युधिष्ठिरो वाक्यमिदं बभाषे ॥] 001c
ततो युधिष्ठिरो दृष्ट्वा सहितौ केशवार्जुनौ । 002a
हतमाधिरथिं मेने सङ्ख्ये गाण्डीवधन्वना ॥ 002c
तावभ्यनन्दत्कौन्तेयः साम्ना परमवल्गुना । 003a
स्मितपूर्वममित्रघ्नं पूजयन्भरतर्षभ ॥ 003c
युधिष्ठिर उवाच । 004
स्वागतं देवकीपुत्र स्वागतं ते धनञ्जय । 004a
प्रियं मे दर्शनं बाढं युवयोर्नरसिंहयोः ॥ 004c
अरिष्टयोरक्षतयोः कर्णं हत्वा महारथम् । 005a
आशीविषसमं युद्धे सर्वशस्त्रविशारदम् ॥ 005c
अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च । 006a
रक्षितं वृषसेनेन सुषेणेन च धन्विना ॥ 006c
अनुज्ञातं महावीर्यं रामेणास्त्रे सुदुर्जयम् । 007a
अग्र्यं सर्वस्य लोकस्य रथिनं लोकविश्रुतम् ॥ 007c
त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे । 008a
हन्तारं परसैन्यानाममित्रगणमर्दनम् ॥ 008c
दुर्योधनहिते युक्तमस्मद्दुःखाय चोद्यतम् । 009a
अप्रधृष्यं महायुद्धे देवैरपि सवासवैः ॥ 009c
अनलानिलयोस्तुल्यं तेजसा च बलेन च । 010a
पातालमिव गम्भीरं सुहृदां नन्दिवर्धनम् ॥ 010c
अन्तकं मम मित्राणां हत्वा कर्णं महामृधे । 011a
दिष्ट्या युवामनुप्राप्तौ हत्वाऽसुरमिवामरौ ॥ 011c
तेन युद्धमभीतेन मयाऽद्याप्यच्युतार्जुनौ । 012a
कृतं घोरं महाबाहू धृष्टद्युम्नस्य पश्यतः । 012c
अन्तकेनेव क्रुद्धेन प्रजाः सर्वा जिघांसता ॥ 012e
तेन केतुश्च मे च्छिन्नो हतौ च पार्ष्णिसारथी । 013a
हतवाहः कृतश्चास्मि युयुधानस्य पश्यतः ॥ 013c
धृष्टद्युम्नस्य यमयोर्वीरस्य च शिखण्डिनः । 014a
पश्यतां द्रौपदेयानां शतद्रोश्च महात्मनः ॥ 014c
एताञ्जित्वा महावीर्यः कर्णः शत्रुगणान्बहून् । 015a
जितवान्मां महाबाहो यतमानो महारणे ॥ 015c
अनुसृत्य च मां युद्धे परुषाण्युक्तवान्बहु । 016a
तत्र तत्र युधां श्रेष्ठ परिभूय न संशयः ॥ 016c
भीमसेनप्रभावात्तु यज्जीवामि धनञ्जय । 017a
बहुनात्र किमुक्तेन हते सोढुं समुत्सहे ॥ 017c
त्रयोदशाहं वर्षाणि यस्माद्भीतो धनञ्जय । 018a
न स्म निद्रां लभे रात्रौ न चाहनि सुखं क्वचित् ॥ 018c
तस्य द्वेषेण संयुक्तः परिदह्ये धनञ्जय । 019a
आत्मनो मरणं जानन्वाध्रीणस इव द्विजः ॥ 019c
तस्यायमगमत्कालश्चिन्तयानस्य मे चिरम् । 020a
कथं कर्णो मया शक्यो युद्धे क्षपयितुं भवेत् ॥ 020c
जाग्रत्स्वपंश्च कौन्तेय कर्णमेव स्मराह्यहम् । 021a
पश्यामि तत्रतत्रैव कर्णभूतमिदं जगत् ॥ 021c
यत्र यत्र हि गच्छामि कर्णाद्भीतो धनञ्जय । 022a
तत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम् ॥ 022c
सोऽहं तेनैव वीरेण समरेष्वपलायिना । 023a
सहयः सरथः पार्थ जित्वा जीवन्विसर्जितः ॥ 023c
को नु मे जीवितेनार्थो राज्येनार्थो भवेत्पुनः । 024a
ममैवं विक्षतस्याद्य कर्णेनाहवशोभिना ॥ 024c
न प्राप्तपूर्वं यद्भीष्मात्कृपाद्द्रोणाच्च संयुगे । 025a
तत्प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात् ॥ 025c
स त्वां पृच्छामि कौन्तेय यथा न कुशलस्तथा । 026a
तन्ममाचक्ष्व कार्त्स्न्येन यथा कर्णो हतस्त्वया ॥ 026c
शक्रतुल्यबलो युद्धे यमतुल्यः पराक्रमे । 027a
रामतुल्यस्तथास्त्रेषु स कथं ते निषूदितः ॥ 027c
महारथसमाख्यातः सर्वयुद्धविशारदः । 028a
धनुर्धराणां प्रवरः सर्वेषां वै सदार्जुन ॥ 028c
पूजितो धृतराष्ट्रेण सपुत्रेण विशाम्पते । 029a
त्वदर्थमेव राधेयः स कथं निहतस्त्वया ॥ 029c
धार्तराष्ट्रस्य योद्धारः सर्व एव सदार्जुन । 030a
तव मृत्युं रणे कर्णं मन्यन्ते पुरुषर्षभ ॥ 030c
स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः । 031a
तन्ममाचक्ष्व कौन्तेय यथा कर्णो हतस्त्वया ॥ 031c
सोत्सेधमस्य च शिरः पश्यतां सुहृदां हृतम् । 032a
त्वया पुरुषशार्दूल सिंहेनेव यथा रुरोः ॥ 032c
सर्वा दिशः पर्यपतत्त्वदर्थं त्वां सूतपुत्रः समरे परीप्सन् । 033a
दित्सन्नृणां शकटं रत्नपूर्णं कथं त्वयासौ निहतोऽद्य कर्णः ॥ 033c
त्वया रणे निहतः सूतपुत्रः कच्चिच्छेते भूमितले दुरात्मा । 034a
कच्चित्कृतं मे परमं त्वयाद्य प्रियं रणे सूतपुत्रं निहत्य ॥ 034c
सर्वा दिशः पर्यपतत्त्वदर्थं मुदान्वितो गर्वितः सूतपुत्रः । 035a
स शूरमानी समरे समेत्य कच्चित्त्वया निहतः सूतपुत्रः ॥ 035c
राज्यं परं हस्तिगवाश्वयुक्तं रथं दित्सुर्यः परेभ्यस्त्वदर्थे । 036a
त्वया रणे स्पर्धते यः स पापःकच्चित्त्वया निहतः पापबुद्धिः ॥ 036c
योऽसौ नित्यं शौर्यमदेन मत्तो विकत्थते संसदि कौरवाणाम् । 037a
प्रीत्यर्थं वै तात सुयोधनस्य कच्चित्स पापो निहतस्त्वयाद्य ॥ 037c
कच्चित्समागम्य धनुःप्रमुक्तैस्त्वत्प्रेषितैर्लोहमयैर्विहङ्गैः । 038a
शेते भिन्नः पांसुषु सूतपुत्रः कच्चिद्भग्नौ धार्तराष्ट्रस्य बाहू ॥ 038c
योऽसौ सदा श्लाघते राजमध्ये दुर्योधनं हर्षयन्दर्पयुक्तः । 039a
हन्ताऽस्मि सर्वानिति पाण्डुपुत्रानहं हन्ता फल्गुनस्येति मोहात् ॥ 039c
कच्चिद्वचोऽस्य वितथं त्वया कृतं यत्तत्प्रियामवदत्तात कर्णः । 040a
सभामध्ये रूक्षमनेकरूपं धिक्पाण्डवानपतिस्त्वं हि कृष्णे ॥ 040c
कच्चिद्ध्रुवं शत्रुरयं महात्मा ह्यधारयद्द्वादश यः समास्तु । 041a
कर्णो व्रतं घोरममित्रसाहो दुर्योधनस्यार्थनिविष्टबुद्धिः ॥ 041c
पादौ न धावे यावदहं न हन्मिधनञ्जयं समरेषूग्रवेगम् । 042a
कच्चिद्रणे फल्गुन तं निहत्य कच्चिद्व्रतं तस्य भग्नं त्वयाऽद्य ॥ 042c
योऽसौ कृष्णामब्रवीद्दुष्टबुद्धिः कर्णः सभायां कुरुवीरमध्ये । 043a
किं पाण्डवांस्त्वं न जहासि कृष्णे सुदुर्बलान्पतितान्हीनसत्वान् ॥ 043c
योऽसौ कर्णः प्रत्यजानात्त्वदर्थे नाहं हत्वा सह कृष्णेन पार्थम् । 044a
इहोपयातेति स पापबुद्धिः कच्चिच्छेते शरसम्भिन्नगात्रः ॥ 044c
कच्चित्सङ्ग्रामो विदितो वै तवायं समागमे सृञ्जय कौरवाणाम् । 045a
येनावस्थामीदृशीं प्रापितोऽहं कच्चित्त्वया सोऽद्य हतो दुरात्मा ॥ 045c
कच्चित्त्वया तस्य सुमन्दबुद्धेर्गाण्डीवमुक्तैर्विशिखैर्ज्वलद्भिः । 046a
सकुण्डलं भानुमदुत्तमाङ्गं कायात्प्रकृत्तं युधि सव्यसाचिन् ॥ 046c
यत्तन्मया बाणसमर्पितेन ध्यातोऽसि कर्णस्य वधाय वीर । 047a
तन्मे त्वया कच्चिदमोघमद्य ध्यानं कृतं कर्णनिपातनेन ॥ 047c
यद्दर्पपूर्णः स सुयोधनोऽस्मान्दिधक्षते कर्णसमाश्रयेण । 048a
कच्चित्त्वया सोऽद्य समाश्रयोऽस्य भग्नः पराक्रम्य सुयोधनस्य ॥ 048c
यो नः पुरा षण्ढतिलानवोचत्सभामध्ये कौरवाणां समक्षम् । 049a
स दुर्मतिः कच्चिदुपेत्य सङ्ख्ये त्वया हतः सूतपुत्रोऽत्यमर्षी ॥ 049c
यः प्राहिणोत्सूतपुत्रो दुरात्मा कृष्णां जितां सौबलेहानयेति । 050a
स मन्दबुद्धिर्निहतः प्रसह्य वैकर्तनस्त्वद्य कच्चिन्महात्मन् ॥ 050c
यः शस्त्रभृच्छ्रेष्ठतमं पृथिव्यां पितामहं व्याक्षिपदल्पचेताः । 051a
सङ्ख्यायमानोऽर्धरथः स कच्चित्त्वयां हतोऽद्याधिरथिर्महात्मन् ॥ 051c
अमर्षजं निकृतिसमीरणेरितं हृदि स्थितं ज्वलनमिमं सदा मम । 052a
हतो मया सोऽद्य समेत्य कर्ण इति ब्रुवन्प्रशमयसेऽद्य फल्गुन ॥ ॥ 052c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोनसप्ततितमोऽध्यायः ॥ 69 ॥

8-69-5 अरिष्टयोः शुभयोः ॥ 8-69-7 अनुज्ञातं अनुगृहीतम् ॥ 8-69-10 अनलानिलयोरिति क्रमात्तेजोबलाभ्याम् ॥ 8-69-13 अपसव्यः कृतश्चास्मि इति ख.घ.पाठः ॥ 8-69-17 नाहं तं सोढुमुत्सहे इति क.ड.पाठः ॥ 8-69-19 कृष्णग्रीवो रक्तशिराः श्वेतपक्षो विहङ्गमः । स वै वाध्रीणसः प्रोक्तो याज्ञिकैः पितृकर्मणीति प्राञ्चः । वाध्रीणस इव द्विप इति झ.पाठः ॥ 8-69-26 यथा नः कुशलं तथा इति क.ड.पाठः ॥ 8-69-38 विहङ्गैर्वाणैः ॥ 8-69-39 श्लाघते आत्मानमिति शेषः ॥ 8-69-47 बाणेभ्यः समर्पितेन कर्णबाणैरत्यन्तं प्रविद्धेनेत्यर्थः ॥