अध्यायः 068

कर्णबाणव्यथापनोदनाय युधिष्ठिरं शिबिरगतं विज्ञाय शत्रुनिग्रहे भीमनियोजनपूर्वकमर्जुनेन सह श्रीकृष्णस्य तत्समीपं प्रति गमनम् ॥ 1 ॥

सञ्जय उवाच । 001
ततो जनार्दनः श्रुत्वा तस्य वाक्यं विशाम्पते । 001a
रथेनापययौ क्षिप्रं सङ्ग्रामादिति भारत ॥ 001c
प्रत्यनीकमवस्थाप्य भीमं भीमपराक्रमम् । 002a
अलं विषहितुं ह्येष कुरूणां सम्प्रपश्यताम् ॥ 002c
कर्णं च समरे राजन्ग्राहयिष्यञ्श्रमं प्रति । 003a
विश्वमार्थं च कौरव्य पार्थस्य च महात्मनः । 003c
अपयातो रणाद्वीरो राजानं द्रष्टुमेव च ॥ 003e
अर्जुनं चाब्रवीत्कृष्णो भृशं राजा परिक्षतः । 004a
तमाश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि ॥ 004c
ततो धनञ्जयः श्रुत्वा राजानं शल्यपीडितम् । 005a
याहियाहिति बहुशो वासुदेवमचोदयत् । 005c
राजानं प्रति वार्ष्णेय दूयते मे दृढं मनः ॥ 005e
स चोद्यमानः पार्थेन केशिघ्नो वृष्णिनन्दनः । 006a
रथेनापययौ क्षिप्रं सङ्ग्रामाद्धोरदर्शनात् ॥ 006c
गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया । 007a
सैन्यमालोकयामास नापश्यत्तत्र चाग्रजम् ॥ 007c
युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत । 008a
दुःसहं वज्रिणा सङ्ख्ये पराजित्य गुरोः सुतम् ॥ 008c
द्रौणिं पराजित्य ततोग्रधन्वा कृत्वा महद्दुष्करं शूरकर्म । 009a
आलोकयामास ततः स्वसैन्यं धनञ्जयः शत्रुभिरप्रधृष्यः ॥ 009c
संयुध्यमानान्पृतनामुखस्थाञ्शूरः शूरान्हर्षयन्सव्यसाची । 010a
पूर्वापदानैः प्रथितैः प्रशंसन्स्थितांश्चकारात्मरथाननीके ॥ 010c
अपश्यमानस्तु किरीटमाली युधिष्ठिरं भ्रातरमाजमीढम् । 011a
उवाच भीमं तरसाभ्युपेत्य राज्ञः प्रवृत्तिस्त्विह कुत्र चेति ॥ 011c
भीमसेन उवाच । 012
अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः । 012a
कर्णबाणाभितप्ताङ्गो यदि जीवेत्कथञ्चन ॥ 012c
अर्जुन उवाच । 013
तस्माद्भवाञ्शीघ्रमितः प्रयातु ज्ञातुं प्रवृत्तिं पुरुषर्षभस्य । 013a
नूनं स विद्धोऽतिभृशं पृषत्कैः कर्णेन राजा शिबिरं गतोऽसौ ॥ 013c
यः सम्प्रहारैर्युधि सम्प्रवृत्ते द्रोणेन विद्धोऽतिभृशं तरस्वी । 014a
तस्थौ स तत्रापि जयप्रतीक्षो द्रोणेन यावन्न हतः किलासीत् ॥ 014c
स संशयं गमितः पाण्डवाग्र्यःसङ्ख्येऽद्य कर्णेन महानुभावः । 015a
ज्ञातुं प्रयाह्याशु तमद्य भीम स्थास्याम्यहं शत्रुगणान्निरुध्य ॥ 015c
भीमसेन उवाच । 016
त्वमेव जानीहि महानुभाव राज्ञः प्रवृत्तिं भरतर्षभस्य । 016a
अहं हि यद्यर्जुन याम्यमित्रा वदन्ति मां भीत इति प्रवीराः ॥ 016c
ततोऽब्रवीदर्जुनो भीमसेनं संशप्तकाः प्रत्यनीकस्थिता मे । 017a
एतानहत्वाद्य मया न शक्यमितोपयातुं रिपुसङ्खमध्यात् ॥ 017c
अथाब्रवीदर्जुनं भीमसेनः स्ववीर्यमासाद्य कुरुप्रवीर । 018a
संशप्तकान्प्रतियोत्स्यामि सङ्ख्ये सर्वानहं याहि धनञ्जय त्वम् ॥ 018c
तद्भीमसेनस्य वचो निशम्य धनञ्जयो भ्रातुरमित्रमध्ये । 019a
द्रष्टुं कुरुश्रेष्ठमभिप्रयास्यन्प्रोवाच वृष्णिप्रवरं तदानीम् ॥ 019c
अर्जुन उवाच । 020
'राजानं प्रति वार्ष्णेय दूयते मे दृढं मनः' । 020a
चोदयाश्वान्हृषीकेश विहायैतद्बलार्णवम् । 020c
अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव ॥ 020e
सञ्जय उवाच । 021
'तं रथ चोदयामास बीभत्सोर्वचनाद्धरिः' ॥ 021ac
ततो हयान्सर्वदाशार्हमुख्यः प्रचोदयन्भीममुवाच चेदम् । 022a
नैतच्चित्रं तव कर्माद्य भीम यास्यावहे जहि पार्थारिसङ्घान् ॥ 022c
ततो ययौ हृषीकेशो यत्र राजा युधिष्ठिरः । 023a
शीघ्राच्छीघ्रतरो राजन्वाजिभिर्गरुडोपमैः ॥ 023c
प्रत्यनीके त्ववस्थाप्य भीमसेनमरिन्दमम् । 024a
सन्दिश्य चैनं राजेन्द्र युद्धं प्रति वृकोदरम् ॥ 024c
ततस्तु गत्वा पुरुषप्रवीरौ राजानमासाद्य शयानमेकम् । 025a
रथादुभौ प्रत्यवरुह्य तस्माद्ववन्दतुर्धर्मराजस्य पादौ ॥ 025c
'इत्येवमुपसङ्गृह्य उभौ तु प्राञ्जली स्थितौ । 026a
शस्त्रक्षतौ महाराज रुधिरेण समुक्षितौ । 026c
निहत्य वाहिनीं तुभ्यमपयातौ रणाजिरात्' ॥ 026e
तं दृष्ट्वा पुरुषव्याघ्रं क्षेमिणं पुरुषर्षभम् । 027a
मुदाभ्यनन्दतां कृष्णावश्विनाविव वासवम् ॥ 027c
तावभ्यनन्दद्राजापि विवस्वानश्विनाविव । 028a
हते महासुरे जम्भे शक्रविष्णू यथा गुरुः ॥ 028c
मन्यमानो हतं कर्णं प्रीतः परपुरञ्जयः । 029a
'स भूत्वा पुरुषव्याघ्रो राजा तत्र युधिष्ठिरः' । 029c
हर्षगद्गदया वाचा प्रीतः प्राह परन्तपः ॥ ॥ 029e

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अष्टषष्टितमोऽध्यायः ॥ 68 ॥

8-68-9 ततोग्रधन्वा विस्तारितोग्रचापः ॥ 8-68-11 उवाच तं पप्रच्छ ॥ 8-68-24 प्रत्यनीके शत्रुसैन्यरामीपे ॥