अध्यायः 067

पार्थेनाश्वत्थाम्नि पराजिते कर्णेन भार्गवास्त्रप्रयोगात्पाण्डवसेनापीडनम् ॥ 1 ॥

सञ्जय उवाच । 001
द्रौणिस्तु रथवंशेन महता परिवारितः । 001a
अपतत्सहसा राजन्यत्र पार्थो व्यवस्थितः ॥ 001c
तमापतन्तं सहसा शूरः शौरिसहायवान् । 002a
दधार समरे पार्थो वेलेव मकरालयम् ॥ 002c
ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान् । 003a
अर्जुनं वासुदेवं च च्छादयामास सायकैः ॥ 003c
अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः । 004a
विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा ॥ 004c
अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव । 005a
तदस्त्रं वारयामास ब्राह्मणो युधि भारत ॥ 005c
यद्यद्धि व्याक्षिपद्युद्धे फल्गुनोऽस्त्रं जिघांसया । 006a
तत्तदस्त्रैर्महेष्वासो द्रोणपुत्रो जघान ह ॥ 006c
अस्त्रयुद्धे महाराज वर्तमाने महाभये । 007a
अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम् ॥ 007c
स दिशः प्रदिशश्चैव च्छादयित्वा ह्यजिह्मगैः । 008a
वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे ॥ 008c
ततोऽर्जुनो रथान्सर्वान्हत्वा तस्य पदानुगान् । 009a
चकार समरे भूमिं शोणितौघपरिप्लुताम् । 009c
[सर्वलोकवहां रौद्रां परलोकवहां नदीम्] ॥ 010a
सरथा रथिनः पेतुः पार्थचापच्युतैः शरैः ॥ 010c
[द्रौणेरपहतान्सङ्ख्ये ददृशुः स च तां तथा । 011a
प्रावर्तयन्महाघोरां नदीं परवहां तदा ॥ 011c
तयोस्तु व्याकुले युद्धे द्रौणेः पार्थस्य दारुणे । 012a
अमर्यादं योधयन्तः पर्यधावन्त पृष्ठतः ॥ 012c
रथैर्हताश्वसूतैश्च हतारोहैश्च वाजिभिः । 013a
द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः ॥ 013c
पार्थेन समरे राजन्कृतो घोरो जनक्षयः । 014a
निहता रथिनः पेतुः पार्थचापच्युतैः शरैः ॥] 014c
हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः । 015a
तद्दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः ॥ 015c
अर्जुनं जयतां श्रेष्ठं त्वरितोऽभ्येत्य वीर्यवान् । 016a
विधुन्वानो महच्चापं कार्तस्वरविभूषितम् ॥ 016c
अवाकिरत्ततो द्रौणिः समन्तान्निशितैः शरैः । 017a
भूयोऽर्जुनं महाराज द्रौणिरायम्य पत्रिणा ॥ 017c
वक्षोदेशे भृशं पार्थं ताडयामास निर्दयम् । 018a
सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत ॥ 018c
गाण्डीवधन्वा प्रसभं शरवर्षैरुदारधीः । 019a
सञ्छाद्य समरे द्रौणिं चिच्छेदास्य च कार्मुकम् ॥ 019c
स च्छिन्नधन्वा परिघं वज्रस्पर्शसमं युधि । 020a
आदाय चिक्षेप तदा द्रोणपुत्रः किरीटिने ॥ 020c
तमापन्ततं परिघं जाम्बूनदपरिष्कृतम् । 021a
चिच्छेद सहसा राजन्प्रहसन्निव पाण्डवः ॥ 021c
स पपात तदा भूमौ निकृत्तः पार्थसायकैः । 022a
विकीर्णः पर्वतो राजन्यथा वज्रेण ताडितः ॥ 022c
ततः क्रुद्धो महाराज द्रोणपुत्रो महारथः । 023a
ऐन्द्रेण चास्त्रवेगेन बीभत्सुं समवाकिरत् ॥ 023c
तस्येन्द्रजालावततं समीक्ष्य पार्थो राजन्गाण्डिवमाददे सः । 024a
ऐन्द्रं जालं प्रत्यहरत्तरस्वी वरास्त्रमादाय महेन्द्रसृष्टम् ॥ 024c
विदार्य तज्जालमथेन्द्रमुक्तं पार्थस्ततो द्रौणिरथं क्षणेन । 025a
प्रच्छादयामास ततोऽभ्युपेत्य द्रौणिस्तदा पार्थशराभिभूतः ॥ 025c
विगाह्य तां पाण्डवबाणवृष्टिं शरैः परं नाम ततः प्रकाश्य । 026a
शतेन कृष्णं सहसाभ्यविद्ध्यत्त्रिभिः शतैरर्जुनं क्षुद्रकाणाम् ॥ 026c
ततोऽर्जुनः सायकानां शतेन गुरोः सुतं मर्मसु निर्बिभेद । 027a
अश्वांश्च सूतं च तथा धनुर्ज्यामवाकिरत्पश्यतां तावकानाम् ॥ 027c
स विद्ध्वा मर्मसु द्रौणिं पाण्डवः परवीरहा । 028a
सारथिं चास्य भल्लेन रथनीडादपातयत् ॥ 028c
स सङ्गृह्य स्वयं वाहान्कृष्णौ प्राच्छदयच्छरैः । 029a
तत्राद्भुतमपश्याम द्रौणेराशु पराक्रमम् ॥ 029c
संयच्छंस्तुरगान्यच्च फल्गुनं चाप्ययोधयत् । 030a
तदस्य समरे राजन्सर्वभूतान्यपूजयन् ॥ 030c
'तेनास्य समरे योधास्तुष्टुवुः सर्व एव ते । 031a
यदा निजगृहे पार्थो द्रोणपुत्रेण धन्विना ॥ 031c
तदा प्रहस्य बीभस्तुर्द्रोणपुत्रस्य संयुगे । 032a
क्षिप्रं रश्मीनथाश्वानां क्षुरप्रैश्चिच्छिदे जयः ॥ 032c
प्राद्रवंस्तुरगास्तस्य शरवेगप्रपीडिताः । 033a
ततोऽभून्निनदो घोरस्तव सैन्यस्य भारत ॥ 033c
पाण्डवास्तु जयं लब्ध्वा तव सैन्यं समाद्रवन् । 034a
समन्तान्निशितान्बाणान्विमुञ्चन्तो जयैषिणः ॥ 034c
तावकी चतुरङ्गैषा पाण्डवैस्तु महाचमूः । 035a
पुनःपुनरथो वीरैः प्रभग्ना जितकाशिभिः ॥ 035c
पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम् । 036a
शकुनेः सौबलेयस्य कर्णस्य च विशाम्पते ॥ 036c
वार्यमाणा महासेना पुत्रैस्तव जनेश्वर । 037a
न चातिष्ठत सङ्ग्रामे पीड्यमाना समन्ततः ॥ 037c
ततो योधैर्महाराज पलायद्भिः समन्ततः । 038a
अभवद्य्वाकुलं भीतं पुत्राणां ते महद्बलम् ॥ 038c
तिष्ठतिष्ठेति सततं सूतपुत्रस्य जल्पतः । 039a
नावतिष्ठति सा सेना वध्यमाना महात्मभिः ॥ 039c
अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः । 040a
धार्तराष्ट्रबलं दृष्ट्वा विद्रुतं वै समन्ततः ॥ 040c
ततो दुर्योधनः कर्णमब्रवीत्प्रणयादिव । 041a
पश्य कर्ण महासेनां पाण्डवैरर्दितां भृशम् ॥ 041c
त्वयि तिष्ठति सन्त्रासात्समन्तात्प्रपलायते । 042a
एतज्ज्ञत्वा महाबाहो कुरु प्राप्तमरिन्दम ॥ 042c
सहस्राणि च योधानां त्वामेव पुरुषोत्तम । 043a
क्रोशन्ते समरे वीर द्राव्यमाणानि पाण्डवैः ॥ 043c
सञ्जय उवाच । 044
एतच्छ्रुत्वा तु राधेयो दुर्योधनवचो महत् । 044a
मद्रराजमिदं वाक्यमब्रवीत्प्रहसन्निव ॥ 044c
पश्य मे भुजयोर्वीर्यमस्त्राणां च जनेश्वर । 045a
अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह ॥ 045c
वाहयाश्वान्नरव्याघ्र मद्राधिप न संशयः । 046a
एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान् ॥ 046c
प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम् । 047a
सज्यं कृत्वा महाराज सम्मृज्य च पुनः पुनः ॥ 047c
सन्निवार्य च तान्योधान्सत्येन शपथेन च । 048a
प्रायोजयदमेयात्मा भार्गवास्त्रं महाबलः ॥ 048c
तस्माद्राजन्सहस्राणि प्रयुतान्यर्बुदानि च । 049a
कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे ॥ 049c
ज्वलितैस्तैः शरैर्घोरैः कङ्कबर्हिणवाजितैः । 050a
सञ्छन्ना पाण्डवी सेना न प्राज्ञायत किञ्चन ॥ 050c
हाहाकारो महानासीत्पाण्डवानां विशाम्पते । 051a
पीडितानां बलवता भार्गवास्त्रेण संयुगे ॥ 051c
निपतद्भिर्गजै राजन्नश्वैश्चापि सहस्रशः । 052a
रथैश्चापि नरव्याघ्र नरैश्चैव समन्ततः ॥ 052c
प्राकम्पत मही राजन्निहतैस्तैः समन्ततः । 053a
व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम् ॥ 053c
कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः । 054a
दहञ्शत्रून्नरव्याघ्रः शुशुभे स परन्तपः ॥ 054c
ते वध्यमानाः कर्णेन पाञ्चालाश्चेदिभिः सह । 055a
तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः ॥ 055c
चुक्रुशुश्च नरव्याघ्र यथाप्राणं नरोत्तमाः । 056a
तेषां तु क्रोशतां दीनं भीतानां रणमूर्धनि ॥ 056c
धावतां च ततो राजंस्त्रस्तानां च समन्ततः । 057a
आर्तनादो बभूवात्र भूतानामिव सम्प्लवे ॥ 057c
वध्यमानांस्तु तान्दृष्ट्वा सूतपुत्रेण मारिष । 058a
वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि ॥ 058c
ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः । 059a
अर्जुनं वासुदेवं च क्रोशन्ति च मुहुर्मुहुः । 059c
प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः ॥ 059e
श्रुत्वा तु निनदं तेषां वध्यतां कर्णसायकैः । 060a
अथाब्रवीद्वासुदेवं कुन्तीपुत्रो धनञ्जयः । 060c
भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र समीरितम् ॥ 060e
पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम् । 061a
नैतदस्त्रं हि समरे शक्यं हन्तुं कथञ्चन ॥ 061c
सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे । 062a
अन्तकप्रतिमं वीर्ये कुर्वाणं कर्म दारुणम् ॥ 062c
अभीक्ष्णं चोदयन्नश्वान्प्रेक्षते मां मुहुर्मुहुः । 063a
नच शक्ष्यामि कर्णस्य संयुगेऽहं पलायितुम् ॥ 063c
जीवन्प्राप्नोति पुरुषः सङ्ख्ये जयपराजयौ । 064a
मृतस्य तु हृषीकेश भङ्ग एव कुतो जयः ॥ 064c
एष कर्णो रणे भाति मध्याह्न इव भास्करः । 065a
निवर्तय रथं कृष्ण जीवन्भद्राणि पश्यति ॥ ॥ 065c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तषष्टितमोऽध्यायः ॥ 67 ॥