अध्यायः 066

कर्णबाणपीडितस्य युधिष्ठिरस्य विश्रमाय स्वशिबिरप्रवेशः ॥ 1 ॥

सञ्जय उवाच । 001
कर्णोऽपि शरजालेन केकयानां महारथान् । 001a
व्यधमत्परमेष्वासानग्रानीके व्यवस्थितान् ॥ 001c
तेषां प्रयतमानानां राधेयस्य निवारणे । 002a
रथान्पञ्चशतान्कर्णः प्राहिणोद्यमसादनम् ॥ 002c
अविषह्यतमं दृष्ट्वा राधेयं युधि योधिनः । 003a
भीमसेनमुपागच्छन्कर्णबाणप्रपीडिताः ॥ 003c
रथानीकं विदार्यैव शरै राजन्ननेकधा । 004a
कर्ण एकरथेनैव युधिष्ठिरमुपाद्रवत् ॥ 004c
सेनानिवेशं गच्छन्तं मार्गणैर्भृशपीडितम् । 005a
यमयोर्मध्यगं वीरं शनैर्यान्तं विचेतसम् ॥ 005c
स समासाद्य राजानं दुर्योधनहितेप्सया । 006a
सूतपुत्रस्त्रिभिस्तीक्ष्णैर्विव्याध परमेषुभिः ॥ 006c
तथैव राजा राधेयं प्रत्यविध्यत्स्तनान्तरे । 007a
शरैस्त्रिभिश्च यन्तारं चतुर्भिश्चतुरो हयान् ॥ 007c
चक्ररक्षौ नृपसुतौ माद्रीपुत्रौ परन्तपौ । 008a
तावप्यधावतां कर्णं राजानं मा वधीदिति ॥ 008c
तौ पृथक्शरवर्षाभ्यां राधेयं समवर्षताम् । 009a
नकुलः सहदेवश्च परमं यत्नमास्थितौ ॥ 009c
तथैव तौ प्रत्यविध्यत्सूतपुत्रः प्रतापवान् । 010a
भल्लाभ्यां शितधाराभ्यां महात्मानावरिन्दमौ ॥ 010c
दन्तवर्णांस्तु राधेयो निजघान मनोजवान् । 011a
युधिष्ठिरस्य सङ्ग्रामे कालवालान्हयोत्तमान् ॥ 011c
ततोऽपरेण भल्लेन शिरस्त्राणमपातयत् । 012a
कौन्तेयस्य महेष्वासः प्रहसन्निव सूतजः ॥ 012c
तथैव नकुलस्यापि हयान्हत्वा महारथः । 013a
ततोऽपरेण भल्लेन भृशं तीक्ष्णेन भारत । 013c
धनुश्चिच्छेद वीरस्य माद्रीपुत्रस्य धीमतः ॥ 013e
तौ हताश्वौ हतरथौ पाण्डवौ भृशविक्षतौ । 014a
भ्रातरावारुरुहतुः सहदेवरथं तदा ॥ 014c
तौ दृष्ट्वा मातुलस्तत्र विरथौ परवीरहा । 015a
अभ्यभाषत राधेयं मद्रराजोऽनुकम्पया ॥ 015c
मार्गितव्यस्त्वया कर्ण कुन्तीपुत्रो धनञ्जयः । 016a
अतस्त्वं धर्मराजेन किमर्थमिह युध्यसे ॥ 016c
[क्षीणशस्त्रास्त्राकवचः क्षीणबाणो विबाणधिः । 017a
श्रान्तसारथिवाहश्च च्छन्नोऽस्त्रैररिभिस्तथा । 017c
पार्थमासाद्य राधेय उपहास्यो भविष्यसि ॥] 017e
तथापि कर्णः संरब्धो युधिष्ठिरमपीडयत् । 018a
शरैस्तीक्ष्णैर्महावीर्यैर्माद्रीपुत्रौ च पाण्डवौ ॥ 018c
ततः शल्यः प्रहस्येदं कर्णं पुनरुवाच ह । 019a
रथस्थमतिसंरब्धं युधिष्ठिरवधे स्थितम् ॥ 019c
यदर्थं धार्तराष्ट्रेण सततं मानितो भवान् । 020a
तं पार्थ जहि राधेय किं ते हत्वा युधिष्ठिरम् । 020c
'हते यस्मिन्ध्रुवं पार्थः सर्वाञ्जेष्यति नो रथान् ॥ 020e
तस्मिन्हि धार्तराष्ट्रस्य निहते तु ध्रुवो जयः । 021a
ध्वजोऽसौ दृश्यते तस्य रोचमानोंऽशुमानिव । 021c
सारो ह्येष महाबाहो किं ते हत्वा युधिष्ठिरम् ॥' 021e
शङ्खयोर्ध्मातयोः शब्दः सुमहानेष कृष्णयोः । 022a
श्रूयते चापघोषश्च प्रावृषीवाम्बुदस्य ह ॥ 022c
असौ निघ्नन्रथोदारानर्जुनः शरवृष्टिभिः । 023a
सर्वां ग्रसति नः सेनां कर्ण पश्यैनमाहवे ॥ 023c
पृष्ठरक्षौ च शूरस्य युधामन्यूत्तमौजसौ ॥ 024ac
उत्तरं चास्य वै शूरश्चक्रं रक्षति सात्यकिः । 025a
धृष्टद्युम्नस्तथा चास्य चक्रं रक्षति दक्षिणम् ॥ 025c
भीमसेनश्च वै राज्ञा धार्तराष्ट्रेण युध्यते । 026a
यथा न हन्यात्तं भीमः सर्वेषां नोऽद्य पश्यताम् । 026c
कुरु राधेय वै राजा यथा मुच्येत तत्तथा ॥ 026e
पश्यैनं भीमसेनेन ग्रस्तमाहवशोभिना । 027a
यदि नामाद्य मुच्येत विस्मयः सुमहान्भवेत् ॥ 027c
परित्राह्येनमभ्येत्य संशयं परमं गतम् । 028a
किं नु माद्रीसुतौ हत्वा राजानं वा युधिष्ठिरम् ॥ 028c
इति शल्यवचः श्रुत्वा राधेयः पृथिवीपते । 029a
दृष्ट्वा दुर्योधनं चैव भीमग्रस्तं महाहवे ॥ 029c
राजगृध्नुर्भृशं चैव शल्यवाक्यप्रचोदितः । 030a
अजातशत्रुमुत्सृज्य माद्रीपुत्रौ च पाण्डवौ ॥ 030c
तव पुत्रं परित्रातुमभ्यधावत वीर्यवान् । 031a
मद्रराजप्रणुदितैरश्वैराकाशगैरिव ॥ 031c
गते कर्णे तु कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः । 032a
अपायाज्जवनैरश्वैः सहदेवस्य मारिष ॥ 032c
[ताभ्यां स सहितस्तूर्णं व्रीडन्निव नरेश्वरः] । 033a
प्राप्य सेनानिवेशं स्वं मार्गणैर्भृशविक्षतः ॥ 033c
अवतीर्य रथात्तूर्णमाविशच्छयनं शुभम् । 034a
अपेतशल्यो राजा तु हृच्छल्येनाभिपीडितः ॥ 034c
सोऽब्रवीद्भ्रातरौ राजा माद्रीपुत्रौ महारथौ । 035a
गच्छन्त त्वरितौ वीरौ यत्र भीमो व्यवस्थितः ॥ 035c
'ततस्ते पाण्डवाः सर्वे समाभाष्य परस्परम् । 036a
अनीकं भीमसेनस्य पाण्डवावभ्यगच्छताम्' । 036c
जीमूत इव नर्दंस्तु युध्यते स वृकोदरः ॥ 036e
ततोऽन्यं रथमास्थाय नकुलो रथपुङ्गवः । 037a
सहदेवश्च तेजस्वी भ्रातरौ शत्रुकर्शनौ ॥ 037c
तुरगैरग्र्यरंहोभिर्यत्र भीमस्तरस्विनौ । 038a
अनीकैः सहितौ तत्र भ्रातरौ समवस्थितौ ॥ ॥ 038c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षट्षष्टितमोऽध्यायः ॥ 66 ॥