अध्यायः 065
सङ्कुलयुद्धम् ॥ 1 ॥
सञ्जय उवाच । 001
ततः श्वेताश्वसंयुक्ते नारायणसमाहिते । 001a
तिष्ठन्रथवरे श्रीमानर्जुनः समपद्यत ॥ 001c
तद्बलं नृपतिश्रेष्ठ तावकं विजयो रणे । 002a
व्यक्षोभयदुदीर्णाश्वं महोदधिमिवानिलः ॥ 002c
दुर्योधनस्तव सुतः प्रमत्ते श्वेतवाहने । 003a
अभ्येत्य सहसा क्रुद्धः सैन्यार्धेनाभिसंवृतः ॥ 003c
पर्यवारयदायान्तं युधिष्ठिरममर्षणम् । 004a
क्षुरप्राणां त्रिसप्तत्या ततोऽविध्यत पाण्डवम् ॥ 004c
अक्रुध्यत भृशं तत्र कुन्तीपुत्रो युधिष्ठिरः । 005a
स भल्लांस्त्रिंशतस्तूर्णं तव पुत्रे न्यवेशयत् ॥ 005c
ततो धावन्त कौरव्या जिघृक्षन्तो युधिष्ठिरम् ॥ 006ac
दुष्टभावान्पराञ्ज्ञात्वा समवेता महारथाः । 007a
आजग्मुस्तं परीप्सन्तः कुन्तीपुत्रं युधिष्ठिरम् ॥ 007c
'सञ्जय उवाच । 008
युधिष्ठिरश्चित्रसेनं शरवर्षैरवाकिरत् । 008a
चित्रसेनस्तु कौन्तेयं सङ्क्रुद्धः समवारयत् ॥ 008c
मुहूर्ताद्विमुखीकृत्य चित्रसेनं स धर्मराट् । 009a
तावकं सैन्यमभ्यघ्नत्समन्तान्निशितैः शरैः ॥ 009c
तावका हि महाबाहो दुर्योधनपुरोगमाः । 010a
युधिष्ठिरं जिघृक्षन्तः सर्वसैन्यं समाक्षिपन् ॥ 010c
दृष्टप्रभावांस्तान्मत्वा समवेतान्महारथान् । 011a
आजग्मुः सम्परीप्सन्तः पाण्डवेयं युधिष्ठिरम्' ॥ 011c
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः । 012a
अक्षौहिण्या परिवृतास्तेऽभ्यधावन्युधिष्टिरम् ॥ 012c
भीमसेनश्च नाराचैर्मृद्नंस्तव महारथान् । 013a
अभ्यधावदभिप्रेप्सू राजानं शत्रुभिर्वृतम् ॥ 013c
तांस्तु सर्वान्महेष्वासान्कर्णो वैकर्तनो वृषा । 014a
शरवर्षेण महता प्रत्यवारयदागतान् ॥ 014c
शरौघान्विसृजन्तस्ते प्रेरयन्तश्च कुञ्जरान् । 015a
न शेकुर्यत्नवन्तोऽपि राधेयं प्रतिवीक्षितुम् ॥ 015c
तांश्च सर्वान्महेष्वासान्सर्वशस्त्रविशारदान् । 016a
महता शरवर्षेण राधेयः प्रत्यवारयत् ॥ 016c
दुर्योधनं च विंशत्या नाराचानां कृती बली । 017a
अविध्यत्तूर्णमभ्येत्य सहदेवो महीपतिम् ॥ 017c
स विद्धः सहदेवेन रराज बलसन्निधौ । 018a
प्रभिन्न इव मातङ्गो रुधिरेण परिप्लुतः ॥ 018c
दृष्ट्वा तव सुतं तत्र गाढविद्धं सुतेजनैः । 019a
अभ्यधावद्दृढं क्रुद्धो राधेयो रथिनां वरः ॥ 019c
दुर्योधनं तथा दृष्ट्वा शीघ्रमस्त्रमुदीर्य सः । 020a
अवधीत्पाण्डवानीकं पाञ्चालांश्चैव मारिष ॥ 020c
ततो यौधिष्ठिरं सैन्यं वध्यमानं महात्मना । 021a
सहसा प्राद्रावद्राजन्सूतपुत्रशरार्दितम् ॥ 021c
विविधा विशिखास्तत्र सम्पतन्ति परस्परम् । 022a
भल्लाः पुङ्खसमाश्लिष्टाः सूतपुत्रधनुश्च्युताः ॥ 022c
अन्तरिक्षे शरौघाणां पततां च परस्परम् । 023a
सङ्घर्षेण महाराज पावकः समजायत ॥ 023c
तकतो दशदिशः कर्णः शलभैरिव यायिभिः । 024a
अभ्यघ्नंस्तरसा राजञ्शरैः परशरीरगैः ॥ 024c
रक्तचन्दनसन्दिग्धौ मणिहेमविभूषितौ । 025a
बाहू व्यत्यक्षिपत्कर्णः परमास्त्रं विदर्शयन् ॥ 025c
ततः सर्वा दिशो राजन्सायकैर्विप्रमोहयन् । 026a
अपीडयद्भृशं कर्णो धर्मराजं युधिष्ठिरम् ॥ 026c
ततः क्रुद्धो महाराज धर्मपुत्रो युधिष्ठिरः । 027a
निशितैरिषुभिः कर्णं पञ्चाशद्भिः समार्पयत् ॥ 027c
[बाणान्धकारमभवत्तद्युद्धं घोरदर्शनम् । 028a
हाहाकारो महानासीत्तावकानां विशाम्पते ॥ 028c
वध्यमाने तदा सैन्ये धर्मपुत्रेण मारिष । 029a
सायकैर्विविधैस्तीक्ष्णैः कङ्कपत्रैः शिलाशितैः । 029c
भल्लैरनेकैर्विविधैः शक्त्यृष्टिमुसलैरपि ॥ 029e
यत्र यत्र स धर्मात्मा दुष्टां दृष्टिं व्यसर्जयत् । 030a
तत्र तत्र व्यशीर्यन्त तावका भरतर्षभ ॥ 030c
कर्णोऽपि भृशसङ्कुद्रो धर्मराजं युधिष्ठिरम् । 031a
नाराचैरर्धचन्द्रैश्च वत्सदन्तैश्च संयुगे ॥ 031c
अमर्षी क्रोधनश्चैव रोषप्रस्फुरिताननः । 032a
सायकैरप्रमेयात्मा युधिष्ठिरमभिद्रवत् ॥ 032c
युधिष्ठिरश्चापि स तं स्वर्णपुङ्खैः शितैः शरैः ॥] 033ac
प्रहसन्निव तं कर्णः कङ्कपत्रैः शिलाशितैः । 034a
उरस्यविध्यद्राजानं कुन्तीपुत्रं युधिष्ठिरम् ॥ 034c
स पीडितो भृशं तेन धर्मराजो युधिष्ठिरः । 035a
उपविश्य रथोपस्थे सूतं याहीत्यनोदयत् ॥ 035c
अक्रोशन्त ततः सर्वे धार्तराष्ट्राः सराजकाः । 036a
गृह्णीध्वमिति राजानमभ्यधावन्त सर्वशः ॥ 036c
ततः शताः सप्तदश केकयानां प्रहारिणाम् । 037a
पञ्चालैः सहिता राजन्धार्तराष्ट्रान्न्यवारयन् ॥ 037c
तस्मिन्सुतुमुले युद्धे वर्तमाने जनक्षये । 038a
दुर्योधनश्च भीमश्च समेयातां महाबलौ ॥ ॥ 038c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चषष्टितमोऽध्यायः ॥ 65 ॥