अध्यायः 064

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच । 001
ततः सरथनागाश्वाः पाञ्चालाः पाण्डुसृञ्जयाः । 001a
सेनापतिं परीप्सन्तो रुरुधुस्तनयं तव ॥ 001c
ततः प्रववृते युद्धं तावकानां परैः सह । 002a
घोरं प्राणभृतां काले भीमरूपं परन्तप ॥ 002c
नकुलो वृषसेनं तु विद्ध्वा पञ्चभिरायसैः । 003a
पितुः समीपे तिष्ठन्तं त्रिभिरन्त्यैरविध्यत ॥ 003c
नकुलं तु ततः शूरो वृषसेनो हसन्निव । 004a
नाराचेन सुतीक्ष्णेन विव्याध हृदये भृशम्' ॥ 004c
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शन । 005a
शत्रुं विव्याध विंशत्या सूतं चैवास्य सप्तभिः ॥ 005c
ततः शरसहस्रेण तावुभौ पुरुषर्षभौ । 006a
अन्योन्यमाच्छादयतां तवाभज्यत वाहिनी ॥ 006c
स दृष्ट्वा प्रद्रुतां सेनां धार्तराष्ट्रस्य सूतजः । 007a
निवारयामास बलादनुपत्य विशाम्पते ॥ 007c
'एतस्मिन्नन्तरे युद्धं कष्टमासीद्विशाम्पते' । 008a
निवृत्ते तु ततः सैन्ये नकुलः कौरवान्ययौ ॥ 008c
कर्णपुत्रस्तु समरे हित्वा नकुलमेव तु । 009a
जुगोप चक्रं त्वरितो राधेयस्यैव मारिष ॥ 009c
उलूकस्तु रणे क्रुद्धः सहदेवेन मारिष । 010a
'निवारितः शरशतैः क्रुद्धेन रणमूर्धनि ॥ 010c
तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान् । 011a
सारथिं प्रेषयामास यमस्य सदनं प्रति ॥ 011c
उलूकस्तु ततो यानादवप्लुत्य विशाम्पते । 012a
त्रिगर्तानां बलं तूर्णं जगाम पितृनन्दनः ॥ 012c
सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः । 013a
ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव ॥ 013c
सौबलस्तस्य समरे क्रुद्धो राजन्प्रतापवान् । 014a
विदार्य कवचं भूयो ध्वजं चिच्छेद काञ्चनम् ॥ 014c
तथैनं निशितैर्बाणैः सात्यकिः प्रत्यविध्यत । 015a
सारथिं च महाराज त्रिभिरेव समार्पयत् ॥ 015c
अथास्य वाहांस्त्वरितः शरैर्नित्ये यमक्षयम् । 016a
ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ ॥ 016c
आरुरोह रथं तूर्णमुलूकस्य महात्मनः । 017a
अपोवाहाथ शीघ्रं स शैनेयाद्युद्धशालिनः ॥ 017c
सात्यकिस्तु रणे राजंस्तावकानामनीकिनीम् । 018a
अभिदुद्राव वेगेन ततोऽनीकमभज्यत ॥ 018c
शैनेयशरसञ्छन्नं तव सैन्यं विशाम्पते । 019a
भेजे दशा दिशस्तूर्णं न्यपतच्च गतासुवत् ॥ 019c
भीमसेनं तव सुतो वारयामास संयुगे ॥ 020ac
तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम् । 021a
चक्रे लोकेश्वरं तत्र तेनातुष्यन्त वै जनाः ॥ 021c
ततोऽपायान्नृपस्तस्माद्भीमसेनभयार्दितः । 022a
कुरुसैन्यं ततः सर्वं भीमसेनमुपाद्रवत् । 022c
तत्र नादो महानासीद्धीमसेनं जिघांसताम् ॥ 022e
युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छदे । 023a
अथान्यद्धनुरादाय कृपः शस्त्रभृतां वरः । 023c
युधामन्योर्ध्वजं सूतं छत्रं चापातयत्क्षितौ ॥ 023e
ततोऽपायाद्रथेनैव युधामन्युर्महारथः ॥ 024ac
उत्तमौजाश्च हार्दिक्यं भीमं भीमपराक्रमम् । 025a
छादयामास सहसा मेघो वृष्ट्येव पर्वतम् ॥ 025c
तद्युद्धमासीत्सुमहद्धोररूपं परन्तप । 026a
तादृशं न मया युद्धं दृष्टपूर्वं विशाम्पते ॥ 026c
कृतवर्मा ततो राजन्नुत्तमौजसमाहवे । 027a
हृदि विव्याध सहसा रथोपस्थ उपाविशत् ॥ 027c
सारथिस्तमपोवाह रथेन रथिनां वरम् । 028a
ततस्तु सात्वतो राजन्पाण्डुसैन्यमभिद्रवत् ॥ 028c
[दुःशासनः सौबलश्च गजानीकेन पाण्डवम् । 029a
महता परिवार्यैव क्षुद्रकैरभ्यताडयत् ॥ 029c
ततो भीमः शरशतैर्दुर्योधनममर्षणम् । 030a
विमुखीकृत्य तरसा गजानीकमुपाद्रवत् ॥ 030c
तमापतन्तं सहसा गजानीकं वृकोदरः । 031a
दृष्ट्वैव सुभृशं क्रुद्धो दिव्यमस्त्रमुदैरयत् ॥ 031c
गजैर्गजानभ्यहनद्वज्रेणेन्द्र इवासुरान् ॥ 032ac
ततोऽन्तरिक्षं बाणौघैः शलभैरिव पादपम् । 033a
छादयामास समरे गजान्निघ्नन्वृकोदरः ॥ 033c
ततः कुञ्जरयूथानि समेतानि सहस्रशः । 034a
व्यधमत्तरसा भीमो मेघसङ्घानिवानिलः ॥ 034c
सुवर्णजालापिहिता मणिजालैश्च कुञ्जराः । 035a
रेजुरभ्यधिकं सङ्ख्ये विद्युत्वन्त इवाम्बुदाः ॥ 035c
ते वध्यमाना भीमेन गजा राजन्विदुद्रुवुः । 036a
केचिद्विभिन्नहृदयाः कुञ्जरा न्यपतन्भुवि ॥ 036c
पतितैर्निपतद्भिश्च गजैर्हेमविभूषितैः । 037a
अशोभत मही तत्र विशीर्णैरिव पर्वतैः ॥ 037c
दीप्ताभै रत्नवद्भिश्च पतितैर्गजयोधिभिः । 038a
रराज भूमिः पतितैः क्षीणपुण्यैरिव ग्रहैः ॥ 038c
ततो भिन्नकटा नागा भिन्नकुम्भकरास्तथा । 039a
दुद्रुवुः शतशः सङ्ख्ये भीमसेनशराहताः ॥ 039c
केचिद्वमन्तो रुधिरं भयार्ताः पर्वतोपमाः । 040a
व्यद्रवञ्छरविद्धाङ्गा धातुचित्रा इवाचलाः ॥ 040c
महाभुजगसङ्काशौ चन्दनागुरुरूषितौ । 041a
अपश्यं भीमसेनस्य धनुर्विक्षिपतो भुजौ ॥ 041c
तस्य ज्यातलनिर्घोषं श्रुत्वाशनिसमस्वनम् । 042a
विमुञ्चन्तः शकृन्मूत्रं गजाः प्रादुद्रुवुर्भृशम् ॥ 042c
भीमसेनस्य तत्कर्म राजन्नेकस्य धीमतः । 043a
निघ्नतः सर्वभूतानि रुद्रस्येव च निर्बभौ ॥] ॥ 043c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चतुःषष्टितमोऽध्यायः ॥ 64 ॥