अध्यायः 063

रणाय राज्ञां द्वन्द्वीभावः ॥ 1 ॥ कर्णेन शिखण्डिपराजयः ॥ 2 ॥ धृष्टद्युम्नदुःशासनयोर्युद्धम् ॥ 3 ॥

धृतराष्ट्र उवाच । 001
निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे । 001a
वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः ॥ 001c
द्रवमाणे बलौघे च निराक्रन्दे मुहुर्मुहुः । 002a
'अवशेषं न पश्यामि मम सैन्येषु सञ्जय ॥ 002c
अहो बत दशां प्राप्तो न हि शक्ष्यामि जीवितुम् । 003a
जयकाङ्क्षी कथं सूत पुत्राणामनिवर्तिनाम् ॥ 003c
कथं जीवामि निहताञ्श्रुत्वा च मम सैनिकान् । 004a
बहुनाऽद्य किमुक्तेन दैवं तेषां परायणम्' ॥ 004c
मामकाः किमकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥ 005ac
सञ्जय उवाच । 006
दृष्ट्वा भीमं महाबाहुं तव पुत्रः प्रतापवान् । 006a
क्रोधरक्तेक्षणो राजन्भीमसेनमभिद्रवत् ॥ 006c
'तिष्ठतिष्ठ पृथापुत्र पश्य मेऽद्य पराक्रमम् । 007a
अद्य त्वां प्रेषायष्यामि यमस्य सदनं प्रति । 007c
इत्युक्त्वा प्रययौ कर्णो यत्र भीमो व्यवस्थितः' ॥ 007e
तावकं तु बलं दृष्ट्वा भीमसेनात्पराङ्मुखम् । 008a
यत्नेन महता कर्णः पर्यवस्थापयद्बली ॥ 008c
व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम् । 009a
प्रत्युद्ययौ तदा कर्णः पाण्डवान्युद्धदुर्मदान् ॥ 009c
प्रत्युद्ययुश्च राधेयं पाण्डवानां महारथाः । 010a
धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान् ॥ 010c
भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजयः । 011a
धृष्टद्युम्नश्च बलवान्सर्वे चापि प्रभद्रकाः ॥ 011c
पाञ्चालानां नरव्याघ्राः समन्तात्त्व वाहिनीम् । 012a
अभ्यद्रवन्त सङ्क्रुद्धाः समरे जितकाशिनः ॥ 012c
तथैव तावका राजन्पाण्डवानामनीकिनीम् । 013a
अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथान् ॥ 013c
रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् । 014a
बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम् ॥ 014c
शिखण्डी तु ययौ कर्णं धृष्टद्युम्नः सुतं तव । 015a
दुःशासनं महाराज महासेनः समभ्ययात् ॥ 015c
नकुलो वृषसेनं तु चित्रसेनं युधिष्ठिरः । 016a
उलूकं समरे राजन्सहदेवः समभ्ययात् ॥ 016c
सात्यकिः शकुनिं चापि द्रौपदेयाश्च कौरवान् । 017a
अर्जुनं च रणे यत्तो द्रोणपुत्रो महारथः ॥ 017c
युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे । 018a
कृतवर्मा च बलवानुत्तमौजसमाद्रवत् ॥ 018c
भीमसेनः कुरून्सर्वान्पुत्रांश्च तव मारिष । 019a
सहानीकान्महाबाहुरेक एव न्यवारयत् ॥ 019c
शिखण्डी तु ततः कर्णं विचरन्तमभीतवत् । 020a
भीष्महन्ता महाराज वारयामास पत्रिभिः ॥ 020c
प्रतिरुद्धस्ततः कर्णो रोपात्प्रस्फुरिताधरः । 021a
शिखण्डिनं त्रिभिर्बाणैर्भ्रुवोर्मध्येऽभ्यताडयत् ॥ 021c
धारयंस्तु स तान्बाणाञ्शिखण्डी बह्वशोभत । 022a
राजतः पर्वतो यद्वत्त्रिभिः शृङ्गैः समन्वितः ॥ 022c
सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे । 023a
कर्णं विव्याध समरे नवत्या निशितैः शरैः ॥ 023c
तस्य कर्णो हयान्हत्वा सारथिं च शरैः । 024a
उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः ॥ 024c
हताश्वात्तु ततो यानादवप्लुत्य महारथः । 025a
शक्तिं चिक्षेप कर्णाय सङ्क्रुद्धः शत्रुतापनः ॥ 025c
तां छित्त्वा समरे कर्णस्त्रिभिर्भारत सायकैः । 026a
शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः ॥ 026c
कर्णचापच्युतान्बाणान्वर्जयंस्तु नरोत्तमः । 027a
अपयातस्ततस्तूर्णं शिखण्डी भृशविक्षतः ॥ 027c
ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत् । 028a
तूलराशिं समासाद्य यथा वायुर्महाबलः ॥ 028c
धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः । 029a
दुःशासनं त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥ 029c
तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष । 030a
स तेन रुक्मपुङ्खेन भल्लेन नतपर्वणा ॥ 030c
धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः । 031a
दुःशासनाय सङ्क्रुद्धः प्रेषयामास भारत ॥ 031c
आपतन्तं महावेगं धृष्टद्युम्नसमीरितम् । 032a
शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशाम्पते ॥ 032c
अथापरैः षोडशभिर्भल्लैः कनकभूषणैः । 033a
धृष्टद्युम्नं समासाद्य बाह्वोरुरसि चार्पयत् ॥ 033c
ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष । 034a
क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर्जनाः ॥ 034c
अथान्यद्धनुरादाय पुत्रस्ते प्रहसन्निव । 035a
धृष्टद्युम्नं शरव्रातैः समन्तात्पर्यवारयत् ॥ 035c
तव पुत्रस्य ते दृष्ट्वा विक्रमं सुमहात्मनः । 036a
व्यस्मयन्त रणे योधाः सिद्धाश्चाप्सरसस्तथा ॥ 036c
धृष्टद्युम्नं तु पश्याम घटमानं महाबलम् । 037a
दुःशासनेन संरुद्धं सिंहेनेव महागजम् ॥ ॥ 037c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे त्रिषष्टितमोऽध्यायः ॥ 63 ॥