अध्यायः 062
कृष्णेनार्जुनम्प्रति युधिष्ठिरस्य कर्णेन पराभवकथनपूर्वकं कर्णयुद्धप्रदर्शनम् ॥ 1 ॥ तथा भीमसेनयुद्धप्रदर्शनम् ॥ 2 ॥
श्रीभगवानुवाच । 001
आतुरो मे मतो राजा अविषह्यश्च भारत । 001a
यथैनमनुवर्तन्ते पञ्चालाः सह पाण्डवैः ॥ 001c
त्वरमाणास्त्वराकाले सर्वशस्त्रभृतां वराः । 002a
मज्जन्तमिव पाताले बलिनो ह्युज्जिहीर्षवः ॥ 002c
न केतुर्दृश्यते राज्ञः कर्णस्य पिहितः शरैः । 003a
पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः ॥ 003c
धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो । 004a
पाञ्चालानां च सर्वेषां चेदीनां चैव भारत ॥ 004c
एष कर्णो रणे पार्थ पाण्डवानामनीकिनीम् । 005a
शरैर्विध्वंसयामास नलिनीमिव कुञ्जरः ॥ 005c
एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन । 006a
पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः ॥ 006c
एते भारत मातङ्गाः कर्णेनाभिहताः शरैः । 007a
आर्तनादान्विकुर्वाणा विद्रवन्ति दिशो दश ॥ 007c
रथानां द्रवते वृन्दमेतच्चैव समन्ततः । 008a
द्राव्यमाणं रणे पार्थ कर्णेनामिततेजसा ॥ 008c
हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्रतत्र ह । 009a
रथस्थं सूतपुत्रस्य केतुं केतुमतां वर ॥ 009c
असौ धावति राधेयो भीमसेनरथं प्रति । 010a
किरञ्शरशतान्येव विनिघ्नंस्तव वाहिनीम् ॥ 010c
एते नश्यन्ति पाञ्चाला द्राव्यमाणा महात्मना । 011a
शक्रेणेव यथा दैत्या द्राव्यमाणा महात्मना ॥ 011c
एष कर्णो रणे जित्वा पाञ्चालान्पाण्डुसृञ्जयान् । 012a
दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः ॥ 012c
एष कर्णो धनुःश्रेष्ठं विधून्वन्बहुशोभते । 013a
शत्रुं जित्वा यथा शक्रो देवसङ्घैः समावृतः ॥ 013c
एते नर्दन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम् । 014a
त्रासयन्तो रणे पाण्डून्सृञ्जयांश्च समन्ततः ॥ 014c
एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणे । 015a
अभिभाषति राधेयः सर्वसैन्यानि मानद ॥ 015c
अभिद्रवत भद्रं वो द्रुतं द्रवत कौरवाः । 016a
यथा न जीववान्कश्चिन्मुच्येत युधि सृञ्जयः ॥ 016c
तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः । 017a
एवमुक्त्वा गतो ह्येष पृष्ठतो विकिरञ्छरान् ॥ 017c
पश्य कर्णं रणे पार्थ श्वेतच्छत्रविराजितम् । 018a
उदयं पर्वतं यद्वच्छशाङ्केनाभिशोभितम् ॥ 018c
पूर्णचन्द्रनिकाशेन मूर्ध्नि च्छत्रेण भारत । 019a
ध्रियमाणेन समरे श्रीमच्छतशलाकिना ॥ 019c
एष त्वां प्रेक्षते कर्णः सकटाक्षं धनञ्जय । 020a
उत्तमं यत्नमास्थाय ध्रुवमेष्यति संयुगे ॥ 020c
पश्य ह्येनं महाबाहो विधुन्वानं महद्धनुः । 021a
शरांश्चाशीविषाकारान्विसृजन्तं महारणे ॥ 021c
असौ निवृत्तो राधेयो दृष्ट्वा ते वानरध्वजम् । 022a
प्रार्थयन्समरं पार्थ त्वया सह परन्तप । 022c
वधाय ह्यात्मनोऽभ्येति पावकं शलभो यथा ॥ 022e
कर्णमेकाकिनं दृष्ट्वा धार्तराष्ट्रो रणाजिरे । 023a
त्वां च पार्थाभिसंरब्धं कर्णं प्रति महारथम् ॥ 023c
कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे । 024a
अात्मानं च कृतार्थं च समीक्ष्य भरतर्षभ ॥ 024c
असौ दुर्योधनः क्रुद्धो रथानीकेन भारत । 025a
रिरक्षिषुः सुसंवृत्तो धार्तराष्ट्रो निवर्तते ॥ 025c
सर्वैः सहैभिर्दुष्टात्मा बध्यतां च प्रयत्नतः । 026a
त्वया यशश्च राज्यं च सुखं चोत्तममिच्छता ॥ 026c
अदीनयोर्विश्रुतयोर्युवयोर्योत्स्यमानयोः । 027a
देवासुरे पार्थ मृधे देवदानवयोरिव । 027c
पश्यन्तु कौरवाः सर्वे तव पार्थ पराक्रमम् ॥ 027e
त्वां च दृष्ट्वातिसंरब्धं कर्णं च भरतर्षम् । 028a
असौ दुर्योधनः क्रुद्धो नोत्तरं प्रतिपद्यते ॥ 028c
आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ । 029a
कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे ॥ 029c
प्रतिपद्यस्व कौन्तेय प्राप्तकालमनन्तरम् । 030a
आर्यां युद्धे मतिं कृत्वा प्रत्येहि रथयूथपम् ॥ 030c
पञ्च ह्येतानि मुख्यानि रथानां रथसत्तम । 031a
शतान्यायान्ति समरे बलिनां तिग्मतेजसाम् ॥ 031c
पञ्च नागसहस्राणि द्विगुणा वाजिनस्तथा । 032a
अभिसंहत्य कौन्तेय पदाताः प्रयुतानि च ॥ 032c
अन्योन्यरक्षितं वीर बलं तामभिवर्तते । 033a
द्रोणपुत्रं पुरस्कृत्य तच्छीघ्रं सन्निषूदय ॥ 033c
निकृत्त्यैतद्रथानीकं बलिनं लोकविश्रुतम् । 034a
सूतपुत्रे महेष्वासे दर्शयात्मानमात्मना ॥ 034c
उत्तमं जवमास्थाय प्रत्येहि भरतर्षभ । 035a
असौ कर्णः सुसंरब्धः पाञ्चालानभिघावति । 035c
केतुमस्य हि पश्यामि धृष्टद्युम्नरथं प्रति । 036a
समुपैष्यति पाञ्चालानिति मन्ये परन्तप ॥ 036c
आचचक्षे प्रियं पार्थ तवेदं भरतर्षभ । 037a
राजासौ कुशली श्रीमान्धर्मपुत्रो युधिष्ठिरः ॥ 037c
असौ भीमो महाबाहुः सन्निवृत्तश्चमूमुखे । 038a
वृतः सृञ्जय सैन्येन शैनेयेन च भारत ॥ 038c
वध्यन्त एते समरे कौरवा निशितैः शरैः । 039a
भीमसेनेन कौन्तेय पाञ्चालैश्च महात्मभिः ॥ 039c
सेना हि धार्तराष्ट्रस्य विमुखा व्यद्रवद्रणात् । 040a
वेगेन भीमसेनस्य विहता विविधैः शरैः ॥ 040c
विपन्नसस्येव मही रुधिरेण समुक्षिता । 041a
भारती भरतश्रेष्ठ सेना कृपणदर्शना ॥ 041c
निवृत्तं पश्य कौन्तेय भीमसेनं युधाम्पतिम् । 042a
आशीविषमिव क्रुद्धं तस्माद्द्रवति भारती ॥ 042c
पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः । 043a
पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन ॥ 043c
सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः । 044a
केतवोऽभिनिपात्यन्ते हस्त्यश्वं च प्रकीर्यते ॥ 044c
रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः । 045a
नानावर्णैर्हता बाणैः पाञ्चालैरपलायिभिः ॥ 045c
निर्मनुष्यान्गजानश्वान्रथांश्चैव धनञ्जय । 046a
समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस्तरस्विनः ॥ 046c
विमृद्नन्ति नरव्याघ्रा भीमसेनबलाश्रयात् । 047a
बलं परेषां दुर्धर्षं त्यक्त्वा प्राणानरिन्दम् ॥ 047c
एते नर्दिन्ति पाञ्चाला ध्मापयन्ति च वारिजान् । 048a
अभिद्रवन्ति च रणे मृद्नन्तः सायकैः परान् ॥ 048c
पश्य स्वर्गस्य माहात्म्यं पाञ्चाला हि पराक्रमात् । 049a
धार्तराष्ट्रान्विनिघ्नन्तो विशन्त्येते रथोत्तमान् ॥ 049c
[शस्त्रमाच्छिद्य शत्रूणां सायुधानां निरायुधाः । 050a
तेनैवैतानमोघास्त्रा निघ्नन्ति च नदन्ति च ॥ 050c
शिरांस्येतानि पात्यन्ते शत्रूणां बाहवोऽपि च । 051a
रथनागहया वीरा यशस्याः सर्व एव च] ॥ 051c
सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः । 052a
त्यक्त्वा प्राणान्महेष्वासैः पाञ्चालैः परिपात्यते ॥ 052c
सुहृदश्च पराक्रान्ताः कृपकर्णादयो विभो । 053a
निवारणे महेष्वासाः पाञ्चालानां परन्तप ॥ 053c
अनिवृत्तांश्च भीतांस्तान्धार्तराष्ट्रान्परन्तप । 054a
धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून्सहस्रशः ॥ 054c
रथाश्च विविधाः सर्वे निवृत्ते भरतर्षभे । 055a
विवर्णमुखभूयिष्ठा धार्तराष्ट्री महाचमूः ॥ 055c
पश्य भीमेन नाराचैर्भिन्ना नागाः पतन्त्यमी । 056a
वज्रिवज्रहतानीव शिखराणि धराभृताम् ॥ 056c
भीमसेनस्य निर्विद्धा बाणैः सन्नतपर्वभिः । 057a
स्वान्यनीकानि मृद्नन्तो द्रवन्त्येते महागजाः ॥ 057c
'एते द्रवन्ति कुरवो भीमसेनभयार्दिताः । 058a
त्यक्त्वा रथान्गजांश्चैव हयांश्चैव सहस्रशः ॥ 058c
हस्त्यश्वरथपत्तीनां द्रवतां निःस्वनं शृणु । 059a
भीमसेनस्य निनदं द्रावयानस्य कौरवान् ॥ 059c
अभिजानामि भीमस्य सिंहनादं पुनःपुनः' । 060a
नदतः पाण्डवेयस्य सङ्ग्रामे जितकाशिनः ॥ 060c
एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम् । 061a
विसृजंस्तोमरान्क्रुद्धो दण्डपाणिरिवान्तकः ॥ 061c
तस्य चैव भुजौ छिन्नौ भीमसेनेन गर्जतः । 062a
नागश्च क्रकरप्रख्यैर्नाराचैर्दशभिर्हतः ॥ 062c
हन्तैते पुनरायान्ति नागा ह्यन्ये प्रहारिणः । 063a
नीलाञ्जनचयप्रख्या महामात्रैरधिष्ठिताः ॥ 063c
शक्तितोमरसङ्घातैर्विनिघ्नन्तो वृकोदरम् । 064a
सप्तसप्त च नागस्था वैजयन्त्यश्च सध्वजाः । 064c
नवत्या निशितैर्बाणैश्छिन्नाः पार्थाग्रजेन ते ॥ 065a
दशभिर्दशभिश्चैको नाराचैर्निहतो गजः ॥ 065c
न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा । 066a
पुरन्दरसमे क्रुद्धे निवृत्ते भरतर्षभे ॥ 066c
अक्षौहिण्यस्तथा तिस्रो धार्तराष्ट्रस्य सङ्गताः । 067a
क्रुद्धेन भीमसेनेन नरसिंहेन वारिताः ॥ 067c
न शक्नुवन्ति वै पार्थं पार्थिवाः समुदीक्षितुम् । 068a
मध्यन्दिनगतं सूर्यं यथा दुर्बलचक्षुषः ॥ 068c
एते भीमस्य सन्त्रस्ताः सिंहस्येवेतरे मृगाः । 069a
शरैः सन्त्रासिताः सह्ख्ये न लभन्ते सुखं क्वचित् ॥ 069c
राधेयो बहुभिः सार्धमसौ गच्छति वेगितः । 070a
वर्धयित्वा तु भीरुं तं पार्श्वतो ह्यानयद्धनुः । 070c
तं पालयन्महाराजं धार्तराष्ट्रं बलान्वितः ॥ 070e
सञ्जय उवाच । 071
एतच्छ्रुत्वा महाबाहुर्वासुदेवाद्धनञ्जयः । 071a
भीमसेनेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् । 071c
अर्जुनो व्यधमच्छिष्टान्संशप्तकगणान्बहून् ॥ 071e
ते वध्यमानाः पार्थेन संशप्तकगणाः प्रभो । 072a
शक्रस्यातिथितां गत्वा विशोका ह्यभवंस्तदा ॥ 072c
नारायणांस्तु गोपालान्व्यधमत्पाण्डुनन्दनः । 073a
उत्तमं वेगमास्थाय चण्डवायुर्घनानिव ॥ 073c
अन्वकीर्यन्त भीतास्ते तत्रतत्रैव भारत । 074a
लुलितांश्च ततः शूरानहनत्पुरुषोत्तमः ॥ 074c
पुनश्च पुरुषव्याघ्रः शरैः सन्नतपर्वभिः । 075a
जघान धार्तराष्ट्रस्य चतुर्विधबलां चमूम् ॥ ॥ 075c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्विषष्टितमोऽध्यायः ॥ 62 ॥
8-62-9 हस्तिकक्ष्यां केतुमिति सम्बन्धः ॥ 8-62-19 छत्रेणोपलक्षितः ॥ 8-62-34 द्रोणपुत्रे महेष्वासे इति क.ट.पाठः ॥