अध्यायः 061

कृष्णेनार्जुनम्प्रति कुरूणां युधिष्ठिरग्रहणोद्यमकथनम् ॥ 1 ॥

सञ्जय उवाच । 001
तेषां प्रवृत्ते सङ्ग्रामे विपुले शोणितोदके । 001a
रराज लोहितेनोर्वी संसिक्ता बहुधा भृशम् ॥ 001c
ततो रजसि संशान्ते प्रकाशः सर्वतोऽभवत् । 002a
एतस्मिन्नन्तरे पार्थं कृष्णो वचनमब्रवीत् । 002c
दर्शयन्निव कौन्तेयं धर्मराजं युधिष्ठिरम् ॥ 002e
एष पाण्डव ते भ्राता धार्तराष्ट्रैर्महाबलैः । 003a
जिघांसुभिर्महेष्वासैः शीघ्रं पार्थोऽनुसार्यते ॥ 003c
तमन्वगेव पाञ्चालाश्चेदिमात्स्याश्च भारत । 004a
अनुयान्ति महात्मानं परीप्सन्तो महाजवाः ॥ 004c
एष दुर्योधनः पार्थ गजानीकेन दंशितः । 005a
राजा सर्वस्य लोकस्य राजानमनुधावति ॥ 005c
जिघांसुः पुरुषव्याघ्रं भ्रातृभिः सहितो बली । 006a
आशीविषसमस्पर्शैः सर्वायुधविशारदैः ॥ 006c
नदद्भिः सिंहनादांश्च धमद्भिश्चापि वारिजान् । 007a
बलवद्भिर्महेष्वासैर्विधून्वानैर्धनूंषि च ॥ 007c
एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः । 008a
युधिष्ठिरं धार्तराष्ट्रो रत्नोत्तममिवार्थिनः ॥ 008c
पश्य सात्वतभीमाभ्यां निरुद्धा विष्ठिताः पुनः । 009a
जिहीर्षवोऽमृतं दैत्याः शक्राग्निभ्यामिवाहवे ॥ 009c
एते बहुत्वात्त्वरिताः पुनर्गच्छन्ति पाण्डवम् । 010a
समुद्रमिव वार्योघाः प्रावृट्काले महारथाः ॥ 010c
मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम् । 011a
हुतमग्नौ च कौन्तेयं दुर्योधनवशं गतम् ॥ 011c
यथायुक्तमनीकं हि धार्तराष्ट्रस्य पाण्डव । 012a
नास्य शक्रोऽपि मुच्येत सम्प्राप्तो बाणगोचरम् ॥ 012c
दुर्योधनस्य वीरस्य शरौघाञ्शीघ्रमस्यतः । 013a
सङ्क्रुद्धस्यान्तकस्येव को वेगं संसहेद्रणे ॥ 013c
रसतस्तस्य वीरस्य द्रौणेः शारद्वतस्य च । 014a
कर्णस्य चेषुवेगो वै पर्वतानपि शातयेत् ॥ 014c
कर्णेन च कृतो राजा विमुखोऽद्य तु दृश्यते ॥ 015ac
बलवाँल्लघुहस्तश्च कृती युद्धविशारदः । 016a
राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे । 016c
सहितो धृतराष्ट्रस्य पुत्रैः शूरैर्महाबलैः ॥ 016a
तस्यैभिर्युध्यमानस्य सङ्ग्रामे शंसितात्मनः । 017a
अन्यैरपि च पार्थस्य कृतं कर्म महारथैः ॥ 017c
उपवासकृशो राजा भृशं भरतसत्तमः । 018a
ब्राह्मे बले स्थितो ह्येष न क्षात्रे हि बले विभुः ॥ 018c
कर्णेन चाभियुक्तोऽयं भूपतिः शत्रुतापनः । 019a
संशयं समनुप्राप्तः पाण्डवो वै युधिष्ठिरः ॥ 019c
न जीवति महाराजो मन्ये पार्थ युधिष्ठिरः । 020a
यद्भीमसेनः सहते सिंहनादममर्षणः ॥ 020c
नर्दतां धार्तराष्ट्राणां पुनःपुनररिन्दमः । 021a
धमतां च महाशङ्खान्सङ्ग्रामे जितकाशिनाम् ॥ 021c
युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ । 022a
सञ्चोदयत्यसौ कर्णो धार्तराष्ट्रान्महाबलान् ॥ 022c
स्थूणाकर्णास्त्रजालेन पार्थ पाशुपतेन च । 023a
प्रच्छादयन्ति राजानमनुयान्ति महारथाः ॥ ॥ 023c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकषष्टितमोऽध्यायः ॥ 61 ॥

8-61-9 जिहीर्षवो युधिष्ठिरं हर्तुमिच्छन्तः ॥ 8-61-17 तस्य युधिष्ठिरस्य कर्म कर्तव्यं पराजयाख्यम् । एभिर्दुर्योधनादिभिः कृतं निष्पादितम् ॥ 8-61-18 तत्र हेतुः । ब्राह्मे बले क्षमायाम् क्षात्रे बले निष्ठुरत्वे ॥ 8-61-22 हत नाशयतेति कर्णश्चोदयतीति सम्बन्धः ॥ 8-61-23 स्थूणाकर्णो गन्धर्वः ॥