अध्यायः 060
गजयुद्धम् ॥ 1 ॥ सङ्कुलयुद्धम् ॥ 2 ॥
सञ्जय उवाच । 001
हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः । 001a
धृष्टद्युम्नं घ्नतेत्याशु क्रुद्धाः पार्षतमभ्ययुः ॥ 001c
प्राच्याश्च दाक्षिणात्याश्च प्रवरा गजयोधिनः । 002a
अङ्गा वङ्गाश्च पुण्ड्राश्च मागधास्ताम्रलिप्तकाः ॥ 002c
मेकलाः कोशला मद्रा दशार्णा निषधास्तथा । 003a
गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत ॥ 003c
शरतोमरनाराचैर्वृष्टिमन्त इवाम्बुदाः । 004a
सिषिचुस्ते ततः सर्वे पाञ्चालबलमाहवे ॥ 004c
तानभिद्रवतो नागान्मदवेगसमुद्धतान् । 005a
विपाठक्षुरनाराचैर्धृष्टद्युम्नो ह्यवीवृषत् ॥ 005c
एकैकं दशभिः षड्भिरष्टाभिरपि पार्षतः । 006a
द्विरदानभिविव्याध क्षिप्रं गिरिनिभाञ्शरैः ॥ 006c
प्रच्छाद्यमानं द्विरदैर्मेघैरिव दिवाकरम् । 007a
पर्ययुः पाण्डुपाञ्चाला नदन्तो ह्यात्तकार्मुकाः ॥ 007c
तान्नागानभिवर्षन्तो ज्यातलत्रविनादिनः । 008a
वीरनृत्यं प्रनृत्यन्तः शूरतालप्रचोदितैः । 008c
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः ॥ 008e
सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान् । 009a
समन्तात्सिषिचुर्वीरा मेघास्तोयैरिवाचलान् ॥ 009c
ते म्लेच्छैः प्रेषिता नागा नरानश्वान्रथानपि । 010a
हस्तैराक्षिप्य ममृदुः पद्भिश्चाप्यतिमन्यवः ॥ 010c
बिभिदुश्च विषाणाग्रैः समाक्षिप्य च चिक्षिपुः । 011a
विषाणलग्नाश्चाप्यन्ये परिपेतुर्विभीषणाः ॥ 011c
प्रमुखे वर्तमानं तु द्विपमङ्गस्य सात्यकिः । 012a
नाराचेनोग्रवेगेन भित्त्वा मर्माण्यताडयत् ॥ 012c
तस्यावर्जितकायस्य द्विरदादुत्पतिष्यतः । 013a
नाराचेनाहनद्वक्षः सात्यकिः सोऽपतद्भुवि ॥ 013c
पुण्ड्रस्यापततो नागं चलन्तमिव पर्वतम् । 014a
सहदेवः प्रसन्नाग्रैर्नाराचैरहनत्त्रिभिः ॥ 014c
विपताकं वियन्तारं विवर्मध्वजजीवितम् । 015a
तं कृत्वा द्विरदं भूयः सहदेवोऽङ्गमभ्ययात् ॥ 015c
सहदेवं तु नकुलो वारयित्वाङ्गमार्दयत् । 016a
नाराचैर्यमदण्डाभैस्त्रिभिर्नागं शतेन तम् ॥ 016c
दिवाकरकरप्रख्यानङ्गश्चिक्षेप तोमरान् । 017a
नकुलाय शतान्यष्टौ त्रिधैकैकं तु सोऽच्छिनत् ॥ 017c
तथाऽर्धचन्द्रेण शिरस्तस्य चिच्छेद पाण्डवः । 018a
स पपात हतो म्लेच्छस्तेनैव सह दन्तिना ॥ 018c
अथाङ्गपुत्रे निहते हस्तिशिक्षाविशारदे । 019a
अङ्गाः क्रुद्धा महामात्रा नागैर्नकुलमभ्ययुः ॥ 019c
चलत्पताकैः सुमुखैर्हेमकक्ष्यातनुच्छदैः । 020a
मिमर्दिषन्तस्त्वरिताः प्रदीप्तैरिव पर्वतैः ॥ 020c
मेकलोत्कलकालिङ्गा निषधास्ताम्रलिप्तकाः । 021a
शरतोमरवर्षाणि विमुञ्चन्तो जिघांसवः ॥ 021c
तैश्छाद्यमानं नकुलं निशाकरमिवाम्बुदैः । 022a
परिपेतुः सुसंरब्धाः पाण्डुपाञ्चालसात्यकाः ॥ 022c
ततस्तदभवद्युद्धं रथिनां हस्तिभिः सह । 023a
सृजतां शरवर्षाणि तोमरांश्च सहस्रशः ॥ 023c
नागानां प्रास्फुटन्कुम्भा मर्माणि च नखानि च । 024a
दन्ताश्चैवातिविद्धानां नाराचैर्हेमभूषणैः ॥ 024c
तेषामष्टौ महानागांश्चतुःषष्ट्या सुतेजनैः । 025a
नाराचैः सहदेवस्तान्पातयामास सादिभिः ॥ 025c
अञ्जोगतिभिरायम्य प्रयत्नाद्धनुरुत्तमम् । 026a
नाराचैरहनन्नागान्नकुलः कुलनन्दनः ॥ 026c
ततः पाञ्चालशैनेयौ द्रौपदेयाः प्रभद्रकाः । 027a
शिखण्डी च महानागान्सिषिचुः शरवृष्टिभिः ॥ 027c
ते पाण्डुयोधाम्बुधरैः शत्रुद्विरदपर्वताः । 028a
बाणवर्षैर्हताः पेतुर्वज्रवर्षैरिवाचलाः ॥ 028c
एवं हत्वा तव गजांस्ते पाण्डुरथकुञ्जराः । 029a
द्रुतं सेनां च वर्षन्तो भिन्नकूलामिवापगाम् ॥ 029c
तां ते सेनां समालोड्य पाण्डुपुत्रस्य सैनिकाः । 030a
विक्षोभयित्वा च पुनः कर्णं समभिदुद्रुवुः ॥ ॥ 030c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षष्टितमोऽध्यायः ॥ 60 ॥
8-60-7 प्रच्छाद्यमानं धृष्टद्युम्नम् ॥ 8-60-13 आवर्जितः प्रहारवञ्चनेन रक्षितः कायो येन तस्य ॥