अध्यायः 059
सङ्कुलयुद्धम् ॥ 1 ॥
सञ्जय उवाच । 001
ततः प्रववृते भूयः सङ्ग्रामो राजसत्तम । 001a
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ॥ 001c
धनूंषि बाणान्परिघानसिपट्टसतोमरान् । 002a
मुसलानि भुशुण्डीश्च शक्तिरिष्टिपरश्वथान् ॥ 002c
गदाः प्रासाञ्शितान्कुन्तान्भिण्डिपालान्महाङ्कुशान् । 003a
प्रगृह्य क्षिप्रमापेतुः परस्परजिघांसया ॥ 003c
बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत् । 004a
पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान् ॥ 004c
तेन शब्देन महता संहृष्टाश्चक्रुराहवम् । 005a
वीरा वीरैर्महाघोरकलहान्तं तितीर्षवः ॥ 005c
ज्यातलत्रधनुःशब्दाञ्शस्त्राणां च निपात्यताम् । 006a
ताडितानां च पतता निनादांश्च पदातिनाम् ॥ 006c
बाणशब्दांश्च विविधाञ्शूराणां चाभिगर्जताम् । 007a
श्रुत्वा गजा भृशं त्रेसुः पेतुर्मम्लुश्च सैनिकाः ॥ 007c
तेषां निनदतां चैव शस्त्रवर्षं च मुञ्चताम् । 008a
बहूनाधिरथिर्वीरः प्रममाथेषुभिः परान् ॥ 008c
पञ्च पाञ्चालवीराणां रथान्दश च पञ्च च । 009a
साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम् ॥ 009c
योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे । 010a
शिक्षितास्तमभिद्रुत्य परिवव्रुः समन्ततः ॥ 010c
ततः कर्णो द्विषत्सेनां शरवर्षैर्विलोडयन् । 011a
विजगाहाण्डजाकीर्णां पद्मिनीमिव यूथपः ॥ 011c
द्विषत्सैन्यमवस्कन्द्य राधेयो धनुरुत्तमम् । 012a
विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत् ॥ 012c
'हस्तिनः समहामात्रान्साश्वारोहान्हयानपि । 013a
रथिनोऽप्येकबाणेन भ्रमतश्चावपातयत्' ॥ 013c
वर्म वा चर्म वाऽश्रित्य निपातमपि देहिनः । 014a
विषेहुर्नास्य संस्पर्शं द्वितीयस्य पतत्त्रिणः ॥ 014c
वर्मयुक्तेषु देहेषु धनुषोऽस्यञ्शिताञ्शरान् । 015a
मौर्व्या तलत्रे न्यहनत्कशया वाजिनो यथा ॥ 015c
पाण्डुसृञ्जयपाञ्चालाञ्शरगोचरमागतान् । 016a
ममर्द तरसा कर्णः सिंहो मृगगणानिव ॥ 016c
ततः पाञ्चालपुत्रश्च द्रौपदेयाश्च मारिष । 017a
यमौ च युयुधानश्च त्वरिताः कर्णमभ्ययुः ॥ 017c
तेषु व्यायच्छमानेषु कुरुपाञ्चालपाण्डुषु । 018a
प्रियानसून्रणे त्यक्त्वा योधा जघ्नुः परस्परम् ॥ 018c
सुसन्नद्धाः कवचिनः सशिरस्त्राणभूषणाः । 019a
गदाभिर्मुसलैश्चान्ये परिघैश्च महाबलाः ॥ 019c
समभ्यधावन्त भृशं कालदण्डैरिवोद्यतैः । 020a
नर्दन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष ॥ 020c
ततो निजघ्नुरन्योन्यं पेतुश्चान्योन्यताडिताः । 021a
वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षणायुधाः ॥ 021c
दन्तपूर्णैः सरुधिरैर्वक्रैर्दाडिमसन्निभैः । 022a
जीवन्त इव चाप्येके तस्थुः शस्त्रौघबृंहिताः ॥ 022c
परश्वथैश्चाप्यपरे पट्टसैरसिभिस्तथा । 023a
शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः ॥ 023c
ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथा । 024a
सञ्चकर्तुश्च जघ्नुश्च राजन्योधा महारणे ॥ 024c
पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः । 025a
क्षरन्तः स्वरसं रक्तं प्रकृत्ताश्चन्दना इव ॥ 025c
रथै रथा विनिहता हस्तिभिश्चापि हस्तिनः । 026a
नरैर्नरा हताः पेतुरश्वाश्चाश्वैः सहस्रशः ॥ 026c
ध्वजाः शिरांसि च्छत्राणि द्विपहस्ता नृणां भुजाः । 027a
क्षुरैर्भल्लार्धचन्द्रैश्च च्छिन्नाः पेतुर्महीतले ॥ 027c
'वध्यतां दारुणाः शब्दाः पततां स्तनतामपि । 028a
नराश्वेभरथानां हिनराश्वेभरथैस्तथा' ॥ 028c
नरांश्च नागांश्च रथान्हयान्ममृदुराहवे ॥ 029ac
अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः । 030a
सपताकाध्वजाः पेतुर्विशीर्णा इव पर्वताः ॥ 030c
पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा । 031a
हताश्च हन्यमानाश्च पतिताश्चैव सर्वशः ॥ 031c
अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः । 032a
सादिभिः पत्तिसङ्घाश्च निहता युधि शेरते ॥ 032c
मृदितानीव पद्मानि प्रम्लाना इव च स्रजः । 033a
हतानां वदनान्यासन्गात्राणि च महाहवे ॥ 033c
रूपाण्यत्यर्थकान्तानि द्विरदाश्वनृणां नृप । 034a
समुन्नानीव वस्त्राणि ययुर्दुर्दुर्शतां पराम् ॥ ॥ 034c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोनषष्टितमोऽध्यायः ॥ 59 ॥
8-59-4 द्यांस्वर्गम् । वियदन्तरिक्षम् ॥ 8-59-11 अण्डजैर्जलपक्षिभिः सारसादिभिराकीर्णां व्याप्ताम् ॥ 8-59-15 मौर्व्या मौर्वीच्युतैः शरैर्बाणैस्तलत्रे ज्याघातवारणस्थाने न्यहनत् ॥ 8-59-18 व्यायच्छमानेषु यतमानेषु ॥ 8-59-19 परिघैर्हता इति शेषः । समभ्यधावन्तेत्युत्तरेणान्वयः ॥ 8-59-21 मस्तिष्कं शिरोभागस्थमांसपिण्डः ॥ 8-59-23 परश्वथैस्ततक्षुः । पट्टशैरसिभिश्च चिच्छिदुः । शक्तिभिर्बिभिदुः । भिन्दिपालैश्चिक्षिपुः । नखरैः सञ्चकर्तुः । प्रासतोमरैर्जघ्नुः ॥ 8-59-25 चन्दना रक्तचन्दनाः ॥ 8-59-33 पद्मानीव बदनानि । स्रजइव गात्राणि ॥ 8-59-34 समुन्नानि क्षारक्लिन्नानि मलिनानि ॥