अध्यायः 058

अर्जुनस्य द्रौणिग्रस्तधृष्टद्युम्नरक्षणपूर्वकं द्रौणिं निर्जित्य संशप्तकान्प्रति गमनम् ॥ 1 ॥

सञ्जय उवाच । 001
एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान् । 001a
आशिषं तां प्रवक्तव्यां मामको दास्यते तव ॥ 001c
येनैव ते पितुर्दत्ता यतमानस्य संयुगे । 002a
एष ते प्रतिवाक्यं वै असिर्दास्यति मामकः । 002c
येन कृत्तं तव पितुर्यतमानस्य तच्छिरः ॥ 002e
यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः । 003a
त्वामिदानीं कथं युद्धे न हनिष्यामि किल्बिषम् ॥ 003c
एवमुक्त्वा महातेजाः सेनापतिररिन्दमः । 004a
सुतीक्ष्णेनाथ भल्लेन द्रौणिं विव्याध पार्षतः ॥ 004c
ततो द्रौणिः सुसङ्क्रुद्धः शरैः सन्नतपर्वभिः । 005a
आच्छादयद्दिशो राजन्धृष्टद्युम्नस्य संयुगे ॥ 005c
नैवान्तरिक्षं न दिशो नापि योधाः सहस्रशः । 006a
दृश्यन्ते वै महाराज शरैश्छन्नाः समन्ततः । 006c
एकः सन्वारयामास प्रेक्षणीयः समन्ततः ॥ 006e
तथैव पार्षतो राजन्द्रौणिमाहवशोभिनम् । 007a
शरैः सञ्छादयामास सूतपुत्रस्य पश्यतः ॥ 007c
राधेयोऽपि महाराज पाञ्चालान्सह पाण्डवैः । 008a
द्रौपदेया युधामन्युमुत्तमौजसमेव च ॥ 008c
सात्यकिश्च महाराज योधांश्चान्यान्सहस्रशः । 009a
एकस्तान्वारयामास प्रेक्षणीयः समन्ततः ॥ 009c
धृष्टद्युम्नस्तु समरे द्रौणेश्चिच्छेद कार्मुकम् । 010a
क्षुरप्रेण सुतीक्ष्णेन पश्यतां सर्वयोधिनाम् ॥ 010c
तदपास्य धनुश्छिन्नमन्यदादत्त कार्मुकम् । 011a
वेगवत्समरे घोरं शरांश्चाशीविषोपमान् ॥ 011c
स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम् । 012a
हयान्सूतं रथं चैव निमेषाद्व्यधमच्छरैः ॥ 012c
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः । 013a
खड्गमादत्त विपुलं शतचन्द्रं च भानुमत् ॥ 013c
द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः । 014a
चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः ॥ 014c
रथादनवरूढस्य धन्विनो बाहुशालिनः । 015a
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् ॥ 015c
धृष्टद्युम्नं तु विरथं हताश्वरथसारथिम् । 016a
शस्त्रैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम् । 016c
नातरद्भरतश्रेष्ठ यतमानो महारथः ॥ 016e
तस्यान्तमिषुभी राजन्यदा द्रौणिर्न गच्छति । 017a
अथ त्यक्त्वा रथं वीरः पार्षतं त्वरितोऽन्वगात् । 017c
प्रगृह्य विपुलं खड्गं जातरूपपरिष्कृतम् ॥ 017e
तस्य सम्पततो राजन्वपुरासीन्महात्मनः । 018a
गरुडस्येव पततो जिघृक्षोः पन्नगोत्तमम् ॥ 018c
एतस्मिन्नेव काले तु केशवः परवीरहा । 019a
अब्रवीद्भरतश्रेष्ठमर्जुनं जयतां वरम् ॥ 019c
पश्य द्रौणिं पार्षतस्य यतमानं वधं प्रति । 020a
यत्नं करोति विपुलं हन्याच्चैनं न संशयः ॥ 020c
त्रायस्वैनं महाबाहो पार्षतं युद्धदुर्मदम् । 021a
द्रौणेरास्यगतं वीर मृत्योरास्यगतं यथा ॥ 021c
एवमुक्त्वा महाराज वासुदेवः प्रतापवान् । 022a
प्रैषयत्तुरगान्यत्र द्रौणिर्वीरो व्यवस्थितः ॥ 022c
ते हयाश्चन्द्रसङ्काशाः केशवेन प्रचोदिताः । 023a
पिबन्त इव चाकाशं जग्मुद्रौणेर्महारथम् ॥ 023c
दृष्ट्वा द्रौणिर्महाराज वासुदेवधनञ्जयौ । 024a
धृष्टद्युम्नवधे राजंश्चक्रे यत्नं महाबलः ॥ 024c
विकृष्यमाणं दृष्ट्वैव धृष्टद्युम्नं जनेश्वर । 025a
शरांश्चिक्षेप वै पार्थो द्रौणिं प्रति महारथः ॥ 025c
ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम् । 026a
द्रौणिमासाद्य विविशुर्वल्मीकमिव पन्नगाः ॥ 026c
विद्धस्तु तैः शरैर्घोरैद्रोणपुत्रः प्रतापवान् । 027a
उत्सृज्य समरे राजन्पाञ्चालममितौजसम् ॥ 027c
आरुरोह रथं वीरो धनञ्जयशरार्दितः । 028a
प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः ॥ 028c
एतस्मिन्नन्तरे शूरः सहदेवो जनाधिप । 029a
अपोवाह रथेनाजौ पार्षतं शत्रुतापनम् ॥ 029c
अर्जुनोऽपि महाराज द्रौणिं विव्याध पत्रिभिः । 030a
तं द्रोणपुत्रः संरब्धो बाह्वोरुरसि चार्पयत् ॥ 030c
क्रोधितस्तु रणे पार्थो नाराचं कालसन्निभम् । 031a
द्रोणपुत्राय चिक्षेप यमदण्डमिवापरम् ॥ 031c
स ब्राह्मणस्यांसदेशे निपपात महाद्युतेः । 032a
स विह्वलो महाराज शरवेगेन संयुगे । 032c
निषसाद रथोपस्थे वैक्लव्यं परमं ययौ ॥ 032e
तं तु मत्वा हतं वीरं सारथिः शत्रुकर्शनम् । 033a
अपोवाह रणेनाजौ त्वरमाणो रणाजिरात् ॥ 033c
अथोद्धुष्टं महाराज पाञ्चालैर्जितकाशिभिः । 034a
मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम् ॥ 034c
वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः । 035a
सिंहनादश्च सञ्जज्ञे दृष्ट्वा युद्धं तदद्भुतम् ॥ 035c
ततः कर्णो महाराज व्याक्षिपद्विजयं धनुः । 036a
दृष्ट्वार्जुनं रणे क्रुद्धः प्रेक्षते च मुहुर्मुहुः । 036c
द्वैरथं चापि पार्थेन गन्तुकामो महाद्युतिः ॥ 036e
एवं कृत्वाऽब्रवीत्पार्थो वासुदेवं धनञ्जयः । 037a
याहि संशप्तकान्कृष्ण कार्यमेतत्परं मम ॥ 037c
ततः प्रयातो गोविन्दः श्रुत्वा पाण्डवभाषितम् । 038a
रथेनातिपताकेन मनोमारुतरंहसा ॥ 038c
एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते । 039a
तावकानां परेषां च राजन्दुर्मन्त्रिते तव ॥ ॥ 039c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अष्टपञ्चाशोऽध्यायः ॥ 58 ॥