अध्यायः 057

सङ्कुलयुद्धम् ॥ 1 ॥

धृतराष्ट्र उवाच । 001
पाण्ड्ये हते किमकरोदर्जुनो जयतांवरः । 001a
एकवीरेण कर्णेन द्राविते च युधिष्ठिरे ॥ 001c
समाप्तविद्यो बलवान्युक्तो वीरश्च पाण्डवः । 002a
सर्वभूतेष्वनुज्ञातः शङ्करेण महात्मना ॥ 002c
तस्मान्महद्भयं तीव्रममित्रघ्नाद्धनञ्जयात् । 003a
स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व सञ्जय ॥ 003c
सञ्जय उवाच । 004
हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम् । 004a
हतं पश्य स्वराजानमपयातांश्च पाण्डवान् ॥ 004c
कर्णं पश्य महारङ्गे ज्वलन्तमिव पावकम् । 005a
असौ भीमो महेष्वासः प्रतिवृत्तो रणं प्रति ॥ 005c
त इमे नानुवर्तन्ते धृष्टद्युम्नपुरोगमाः । 006a
पाञ्चालाः सृञ्जयाश्चैव पाण्डवानां चमूमुखम् ॥ 006c
'निवृत्तैश्च पुनः पार्थैर्भग्नं शत्रुबलं महत्' । 007a
कौरवान्द्रवतो ह्येष कर्णो वारयते भृशम् ॥ 007c
अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः । 008a
असौ गच्छति कौन्तेय द्रौणिः शस्त्रभृतां वरः ॥ 008c
तमेष प्रद्रुतः सङ्ख्ये धृष्टद्युम्नो महारथः । 009a
अश्वत्थाम्ना हताः सङ्ख्ये सर्वे कौन्तेय सृञ्जयाः ॥ 009c
रथाश्वनरनागानां कृतं च कदनं महत् । 010a
इत्येतत्सर्वमाचष्ट वासुदेवः किरीटिने ॥ 010c
एतच्छ्रुत्वा च दृष्ट्वा च भ्रातृणां व्यसनं महत् । 011a
वाहयाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः ॥ 011c
ततः प्रायाद्धृषीकेशो रथेनाप्रतिमो युधि । 012a
'ततो रेणुः समभवत्पुनस्तत्र महारणे ॥ 012c
ततो राजन्महानासीत्सङ्ग्रामो रोमहर्षणः । 013a
सिंहनादरवाश्चात्र प्रादुरासन्समागमे । 013c
उभयोः सेनयो राजन्मृत्युं कृत्वा निवर्तनम् ॥ 013e
ततः हुनः समाजग्मुरभीताः कुरुसृञ्जयाः । 014a
युधिष्ठिरमुखाः पार्था वैकर्तनमुखा वयम् ॥ 014c
ततः प्रववृते युद्धं घोररूपं विशाम्पते । 015a
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनम् ॥ 015c
तस्मिन्प्रवृत्ते सङ्ग्रामे तुमुले रोमहर्षणे । 016a
संशप्तकेषु वीरेषु किञ्चिच्छेषेषु भारत ॥ 016c
धृष्टद्युम्नो महाराज सहितः सर्वराजभिः । 017a
कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः ॥ 017c
आगच्छमानांस्तान्दृष्ट्वा सङ्ग्रमे विजयैषिणः । 018a
दधारैको रणे कार्णो जलौघानिव पर्वतः ॥ 018c
समासाद्य तु ते कर्णं व्यशीर्यन्त महारथाः । 019a
यथाऽचलं समासाद्य वार्योघाः सर्वतोदिशम् ॥ 019c
तयोरासीन्महाराज सङ्ग्रामो घोरदर्शनः । 020a
प्रवृद्धयोर्महारङ्गे बलिनोर्विजिगीषतोः ॥ 020c
धृष्टद्युम्नस्तु राधेयं शरेणानतपर्वणा । 021a
छादयामास सङ्क्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत् ॥ 021c
विजयं तु धनुः श्रेष्ठं विधृन्वानो महारथः । 022a
पार्षतस्य धनुश्छित्त्वा शरांश्चाशीविषोपमान् ॥ 022c
ववर्ष शरवर्षाणि तोयवर्षानिवाम्बुदः । 023a
छादयामास सङ्क्रुद्धः पार्षतं नवभिः शरैः ॥ 023c
ते हेमविकृतं वर्म भित्त्वा तस्य महात्मनः । 024a
शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ ॥ 024c
तदपास्य धनुश्छिन्नं धृष्टद्युम्नः प्रतापवान् । 025a
ततोऽन्यद्धनुरादाय सारवद्भारसाधनम् । 025c
कर्णं विव्याध सप्तत्या शरैः सन्नतपर्वभिः ॥ 025e
तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम् । 026a
द्रोणशत्रुं महेष्वासो विव्याध निशितैः शरैः ॥ 026c
पुनरन्यं महाराज शरं कनकभूषणम् । 027a
प्रेषयामास समरे मृत्युदण्डमिवापरम् ॥ 027c
तमापतन्तं सहसा घोररूपं विशाम्पते । 028a
चिच्छेद शतधा राजन्पार्षतः कृतहस्तवत् ॥ 028c
दृष्टवान्पतितं भूमौ शरं कर्णो विशाम्पते ॥ 029ac
पार्षतः शरवर्षेण समन्तात्पर्यवारयत् । 030a
विव्याध चैनं त्वरितो नाराचैः सप्तभिस्तदा ॥ 030c
तं प्रत्यविध्यद्दशभिः शरैर्हेमविभूषितैः । 031a
तयोर्युद्धं समभवद्दृष्टिश्रोत्रमनोहरम् ॥ 031c
आसीद्धोरं च चित्रं च प्रेक्षणीयं च सर्वशः ॥ 032ac
सर्वेषां तत्र भूतानां रोमहर्षो व्यजायत । 033a
दृष्ट्वा तत्समरे कर्म कर्णपार्षतयोर्नृप ॥ 033c
एतस्मिन्नन्तरे द्रौणिरभ्ययात्तं महारथम् । 034a
पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम् ॥ 034c
स दृष्ट्वा समरे यान्तमभीतं च महारथम् । 035a
अभ्यभाषत सङ्क्रुद्धः पार्षतं शत्रुतापनम् ॥ 035c
रथं रथेन सम्पीड्य पार्षतस्य तु ब्राह्मणः ॥ 036a
तिष्ठतिष्ठेति ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे । 036c
इत्युक्त्वा सुभृशं वीरः शीघ्रकृन्निशितैः शरैः । 037a
छादयामास समरे यतमानो महारथः ॥ 037c
यत्नतः परया शक्त्या धृष्टद्युम्नं महारथम् । 038a
योधयामास समरे क्रुद्धरूपो विशाम्पते ॥ 038c
तयोस्तु सन्निपाते हि घोररूपो विशाम्पते ॥ 039ac
यथा हि समरे द्रौणिः पार्षतं दृश्य मारिष । 040a
नातिहृष्टमना ह्यासीन्मन्वानो मृत्युमात्मनः ॥ 040c
स ज्ञात्वा पितुरत्यन्तवैरिणं तु महाहवे । 041a
आत्मानं समरे ज्ञात्वाऽशस्त्रवध्यं महाबलः । 041c
जवेनाभिययौ द्रौणिं कालः कालक्षये यथा ॥ 041e
द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नमवस्थितम् । 042a
क्रोधेन निःश्वसन्वीरः पार्षदं समभिद्रवत् ॥ 042c
तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम् । 043a
प्रगृह्य महती चापे शरासनसमन्विते ॥ 043c
अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान् । 044a
धृष्टद्युम्नं समीपस्थं त्वरमाणो विशाम्पते ॥ 044c
पाञ्चालापशदाद्य त्वां प्रेषयामि यमक्षयम् । 045a
पापं हि यत्त्वया कर्म कृतं तातं घ्नता रणे ॥ 045c
अद्य त्वं प्राप्स्यसे तद्वै यथा ह्यकुशलस्तथा । 046a
अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे । 046c
नापक्रामसि वा मोहात्सत्यमेतद्ब्रवीमि ते ॥ ॥ 046e

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तपञ्चाशोऽध्यायः ॥ 57 ॥

8-57-2 अनुज्ञातः त्वं अजय्यो भविष्यसीत्यनुगृहीतः ॥