अध्यायः 055

अर्जुनेन संशप्तकानां वधः ॥ 1 ॥

सञ्जय उवाच । 001
प्रत्येत्याथ पुनर्जिष्णुर्जित्वा संशप्तकान्बभौ । 001a
वक्रानुवक्रगमनादङ्गारक इव ग्रहः ॥ 001c
पार्थबाणहता राजन्नराश्वरथकुञ्जराः । 002a
विचेलुर्बभ्रमुर्नेशुः पेतुर्मम्लुश्च भारत ॥ 002c
धुर्यान्धुर्येतरान्सूतान्ध्वजांश्चापासिसायकान् । 003a
पाणीन्पाणिगताञ्शस्त्रान्बाहूनपि शिरांसि च ॥ 003c
भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः । 004a
चिच्छेदामित्रवीराणां समरे प्रतियुध्यताम् ॥ 004c
तं प्रवीरास्त्वदीयानां नर्दमानाऽभिदुद्रुवुः । 005a
वासितार्थे युयुत्सन्तो वृषभा वृषभं यथा । 005c
निपतन्त्यर्जुनं शूराः शतशोऽथ सहस्रशः ॥ 005e
तेषां तस्य च तद्युद्धमभवद्रोमहर्षणम् । 006a
त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा ॥ 006c
तमविध्यत्त्रिभिर्बाणैर्दन्दशूकैरिवाहिभिः । 007a
उग्रायुधस्य तस्याशु शिरः कायादपाहरत् ॥ 007c
तेऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैरवीवृषन् । 008a
मरुद्भिः प्रेरिता मेघा हिमवन्तमिवोष्णगे ॥ 008c
अस्त्रैरस्त्राणिं संवार्य द्विषतां सर्वतोऽर्जुनः । 009a
सम्यगस्तैः शरैः सर्वानहितानहनद्बहून् ॥ 009c
छिन्नत्रिवेणुजङ्घेषान्हताश्वान्हतसारथीन् । 010a
विस्रस्तहस्ततूणीरान्विचक्ररथकेतनान् ॥ 010c
सञ्छिन्नरश्मियोक्त्राक्षान्व्यनुकर्षयुगान्रथान् । 011a
विध्वस्तसर्वसन्नाहान्बाणैश्चक्रेऽर्जुनस्त्वरन् ॥ 011c
ते रथास्तत्र विध्वस्ताः परार्द्ध्या भान्त्यनेकशः । 012a
धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्बुभिः ॥ 012c
द्विपाः सम्भिन्नमर्माणो वज्राशनिसमैः शरैः । 013a
पेतुर्गिर्यग्रवेश्मानि वज्रवाताग्निभिर्यथा ॥ 013c
अनेकैश्च शिलाधौतैर्वज्रानलविषोपमैः । 014a
शरैर्निजघ्निवान्पार्थो महेन्द्र इव दानवान् ॥ 014c
सारोहास्तुरगाः पेतुर्बहवोऽर्जुनताडिताः । 015a
निर्जिह्वान्त्राः क्षितौ क्षीणा रुधिरार्द्राः सुदुर्दृशः ॥ 015c
नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना । 016a
बभ्रमुश्चस्खलुः पेतुर्नेदुर्मम्लुश्च मारिष ॥ 016c
महार्हवर्माभरणा नानारूपाम्बरायुधाः । 017a
सरथाश्वद्विपा वीरा हताः पार्थेन शेरते ॥ 017c
निर्भयाः पुण्यकर्माणो विशिष्टाभिजनश्रुताः । 018a
गताः शरीरैर्वसुधामूर्जितैः कर्मभिर्दिवम् ॥ 018c
अथार्जुनरथं वीरास्त्वदीयाः समभिद्रवन् । 019a
नानाजनपदाध्यक्षाः सगणा जातमन्यवः ॥ 019c
उह्यमना रथाश्वेभैः पत्तयश्च जिघांसवः । 020a
समभ्यधावन्नस्यन्तो विविधं क्षिप्रमायुधम् ॥ 020c
तदायुधमहावर्षं क्षिप्तं योधमहाम्बुदैः । 021a
व्यधमन्निशितैर्बाणैः क्षिप्रमर्जुनमारुतः ॥ 021c
साश्वपत्तिद्विपरथं महाशस्त्रौघसम्प्लवम् । 022a
सहसा सन्तितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना ॥ 022c
अथाब्रवीद्वासुदेवः पार्थ किं क्रीडसेऽनघ । 023a
संशप्तकान्प्रमथ्यैनांस्ततः कर्णवधे त्वर ॥ 023c
तथेत्युक्त्वाऽर्जुनः कृष्णं शिष्टान्संशप्तकांस्तदा । 024a
क्षपयिष्यंस्तदा बाणैर्दैत्यानिन्द्र इवावधीत् ॥ 024c
आददत्सन्दधन्नेषून्दृष्टः कैश्चिद्रणेऽर्जुनः । 025a
विमुञ्चन्वा शराञ्शीघ्रं दृश्यन्ते वै नरा हताः ॥ 025c
आश्चर्यमिति गोविन्दो ब्रुवन्नश्वानचोदयत् । 026a
हंसांशुगौरास्ते सेनां हंसाः सर इवाविशन् ॥ 026c
ततः सङ्ग्रामभूमिं तां वर्तमाने जनक्षये । 027a
अवेक्षमाणो गोविन्दः सव्यसाचिनमब्रवीत् ॥ 027c
एष पार्थ महारौद्रो वर्तते भरतक्षयः । 028a
पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान् ॥ 028c
पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम् । 029a
हतानामपविद्धानि कलापानिषुधींस्तथा ॥ 029c
जातरूपमयैः पुङ्खैः शरांश्च नतपर्वणः । 030a
तैलधौतांश्च नाराचान्निर्मुक्तानिव पन्नगान् ॥ 030c
आकीर्णांस्तोमरान्वाहांश्छत्रान्हेमविभूषितान् । 031a
चर्माणि चापविद्धानि रुक्मपृष्ठानि भारत ॥ 031c
सुवर्णविकृतान्प्रासाञ्शक्तीः कनकभूषिताः । 032a
जाम्बूनदमयैः पट्टैर्बद्धाश्च विपुला गदाः ॥ 032c
जातरूपमयीश्चर्ष्टीः पट्टसान्हेमभूषितान् । 033a
दण्डैः कनकचित्रैश्च विप्रविद्धान्परश्वथान् ॥ 033c
परिघान्भिण्डिपालांश्च भुशुण्डीः कणपानपि । 034a
अयस्कुन्तांश्च पतितान्मुसलानि गुरूणि च ॥ 034c
नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः । 035a
जीवन्त इव दृश्यन्ते गतसत्वास्तरस्विनः ॥ 035c
गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान् । 036a
गजवाजिरथैः क्षुण्णान्पश्य योधान्सहस्रशः ॥ 036c
मनुष्यगजवाजीनां शरशक्त्यृष्टितोमरैः । 037a
निस्त्रिंशैः पट्टसैः प्रासैर्नखरैर्लगुडैरपि ॥ 037c
शरीरैर्बहुधा छिन्नैः शोणितौघपरिप्लुतैः । 038a
गतासुभिरमित्रघ्न संवृता रणभूमयः ॥ 038c
बाहुभिश्चन्दनादिग्धैः साङ्गदैः शुभभूषणैः । 039a
सतलत्रैः सकेयूरैर्भाति भारत मेदिनी ॥ 039c
साङ्गुलित्रैर्भुजाग्रैश्च विप्रविद्धैरलङ्कृतैः । 040a
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥ 040c
बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः । 041a
'निकृत्तैर्वृषभाक्षाणां शरीरैश्चापि सङ्घशः ॥ 041c
गजवाजिमनुष्याणां शरशक्त्यृष्टितोमरैः । 042a
कबन्धैः शोणितादिग्धैश्छिन्नगात्रशिरोधरैः । 042c
भूर्भाति भरतश्रेष्ठ शान्ताग्निभिरिवाध्वरे' ॥ 042e
रथांश्च बहुधा भग्नान्हेमकिङ्किणिनः शुभान् । 043a
अश्वांश्च बुहधा पश्य शोणितेन परिप्लुतान् ॥ 043c
अनुकर्षानुपासङ्गान्पताका विविधान्ध्वजान् । 044a
योधानां च महाशङ्खान्पाण्डुरांश्च प्रकीर्णकान् । 044c
निरस्तजिह्वान्मातङ्गाञ्शयानान्पर्वतोपमान् ॥ 044e
वैजयन्तीर्विचित्राश्च हतांश्च गजयोधिनः । 045a
वारणानां परिस्तोमान्संयुक्तानेककम्बलान् ॥ 045c
विपाटितविचित्राश्च रूपचित्राः कुथास्तथा । 046a
भिन्नाश्च बहुधा घण्टाः पतद्भिश्चूर्णिता गजैः ॥ 046c
वैदूर्यमणिदण्डांश्च पतितांश्चाङ्कुशान्भुवि । 047a
अश्वानां च युगापीडान्रत्नचित्रानुरश्छदान् ॥ 047c
विद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कुथाः । 048a
विचित्रान्मणिचित्रांश्च जातरूपपरिष्कृतान् ॥ 048c
अश्वास्तरपरिस्तोमान्राङ्कवान्पतितान्भुवि । 049a
चूडामणीन्नरेन्द्राणां विचित्राः काञ्चनस्रजः । 049c
छत्राणि चापविद्धानि चामरव्यजनानि च ॥ 049e
चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः । 050a
क्लृप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः । 050c
वदनैः पश्य सञ्छन्नां महीं शोणितकर्दमाम् ॥ 050e
सजीवांश्च नरान्पश्य कूजमानान्समन्ततः । 051a
उपास्यमानांश्च बहून्न्यस्तशस्त्रैश्च भूपते । 051c
ज्ञातिभिश्च जलक्लिन्नान्रोदमानैर्मुहुर्मुहुः ॥ 051e
उत्क्रान्तानपरान्योधाञ्छादयित्वा तरस्विनः । 052a
पुनर्युद्धाय गच्छन्ति जये लुब्धाः प्रमन्यवः ॥ 052c
अपरे तत्रतत्रैव परिधावन्ति मानवाः । 053a
सन्निवृत्ताश्च ते शूरा दृष्टा चैतान्विचेतसः ॥ 053c
जलं त्यक्त्वा प्रधावन्ति क्रोशमानाः परस्परम् । 054a
जलं पीत्वा मृतान्पश्य पिबतोऽन्यांश्च भारत ॥ 054c
परिष्वज्य प्रियानन्ये बान्धवान्बन्धुवत्सलाः । 055a
विसञ्ज्ञान्समरे योधांस्तत्रतत्र महारणे ॥ 055c
पश्यापरान्नरश्रेष्ठ सन्दष्टोष्ठपुटान्पुनः । 056a
भृकुटीकुटिलैर्वक्त्रैः प्रेक्षमाणान्महारणम् ॥ 056c
एतत्तवैवानुरूपं कर्मार्जुन महाहवे । 057a
दिवि वा देवराजस्य त्वया यत्कृतमाहवे ॥ 057c
सञ्जय उवाच । 058
एवं तां दर्शयन्कृष्णो युद्धभूमिं किरीटिने । 058a
गच्छन्नेवाशृणोच्छब्दं दुर्योधनबले महत् ॥ 058c
शङ्खदुन्दुभिनिर्घोषं भेरीपणवनिःस्वनम् । 059a
रथाश्वनरनागानां पादशब्दांश्च दारुणान् ॥ 059c
प्रविश्य तद्बलं कृष्णस्तुरगैर्वातवेगितैः । 060a
पाण्ड्येनाभ्यर्दितं सैन्यं त्वदीयं वीक्ष्य विस्मितः ॥ 060c
स हि नानाविधैर्बाणैरिष्वस्त्रप्रवरो युधि । 061a
न्यहनद्द्विषतां पूगान्गतासूनन्तको यथा ॥ 061c
गजवाजिमनुष्याणां शरीराणि शितैः शरैः । 062a
भित्त्वा प्रहरतां श्रेष्ठो विदेहासूनपातयत् ॥ 062c
शत्रुप्रवीरैरस्त्राणि नानाशस्त्राणि सायकैः । 063a
छित्त्वा तानवधीच्छत्रून्पाण्ड्यः शक्र इवासुरान् ॥ ॥ 063c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चपञ्चाशोऽध्यायः ॥ 55 ॥

8-55-3 धुर्यान् श्रेष्ठान् । धुर्यगतानिति पाठे वाहान् ॥ 8-55-5 वासितार्थे स्त्रीनिमित्तम् ॥ 8-55-7 दन्दशूकैः दंशनशीलैः । अपाहरदर्जुन इति शेषः ॥ 8-55-8 उष्णगे ग्रीष्मे गते सति प्रावृषीत्यर्थः । उष्णो ग्रीष्मो गतोऽतीतो यत्र स उष्णगः कालविशेष इति विग्रहः ॥ 8-55-9 अस्तैः क्षिप्तैः ॥ 8-55-11 अनुकर्षः रथाधस्थं दारु ॥ 8-55-15 निर्जिह्वान्त्राः निर्गताः जिह्वाः अन्त्राणि च येषां ते ॥ 8-55-29 कलापान् अलङ्कारान् ॥ 8-55-31 आकीर्णान् सर्वतोविक्षिप्तान् ॥ 8-55-37 वाजीनां शरीरैरिति सम्बन्धः । दैर्घ्यमार्षम् ॥63+