अध्यायः 053

अर्जुनेनाश्वत्थामपराजयः ॥ 1 ॥

सञ्जय उवाच । 001
ततः समभवद्युद्धं शुक्राङ्गिरसवर्चसोः । 001a
नक्षत्रमभितो व्योम्नि शुक्राङ्गिरसयोरिव ॥ 001c
सन्तापयन्तावन्योन्यं दीप्तैः शरगभस्तिभिः । 002a
लोकत्रासकरावास्तां विमार्गस्थौ ग्रहाविव ॥ 002c
ततोऽविध्यद्भुवोर्मध्ये नाराचैरर्जुनो भृशम् । 003a
स तेन विबभौ द्रौणिरूर्ध्वरश्मिर्यथा रविः ॥ 003c
अथ कृष्णौ शरशतैरश्वत्थाम्नाऽर्दितौ भृशम् । 004a
स्वरश्मिजालविकचौ युगान्तार्काविवासुतः ॥ 004c
ततोऽर्जुनः सर्वतोधारमस्त्रमवासृजद्वासुदेवेऽभिभूते । 005a
द्रौणायनिश्चाभ्यहनत्पृषत्कैर्वज्राग्निवैवस्वतदण्डकल्पैः ॥ 005c
स केशवं चार्जुनं चातितेजा विव्याध मर्मस्वतिरौद्रकर्मा । 006a
बाणैः सुमुक्तैरतितीव्रवेगैर्यैराहतो मृत्युरपि व्यथेत ॥ 006c
द्रौणेरिषूनिषुभिः सन्निवार्य व्यायच्छतस्तद्द्विगुणैः सुपुङ्खैः । 007a
तं साश्वसूतध्वजमेकवीरमावृत्य संशप्तकसैन्यमार्च्छत् ॥ 007c
धनूंषि बाणानिषुधीर्धनुर्ज्याः पाणीन्भुजान्पाणिगतं च शस्त्रम् । 008a
छत्राणि केतूंस्तुरगान्रथेषां वस्त्राणि माल्यान्यथा भूषणानि ॥ 008c
चर्माणि वर्माणि मनोरमाणि प्रसह्य चैषां स शिरांसि चैव । 009a
चिच्छेद पार्थो द्विषतां सुमुक्तैर्बाणैः स्थितानामपराङ्मुखानाम् ॥ 009c
सुकल्पिताः स्यन्दनवाजिनागाः समास्थिताः कृतयत्नैर्नृवीरैः । 010a
पार्थेरितैर्बाणशतैर्निरस्तास्तैरेव सार्धं नृवरैर्विनेशुः ॥ 010c
पद्मार्कपूर्णेन्दुनिभाननानि किरीटमाल्याभरणोज्ज्वलानि । 011a
भल्लार्धचन्द्रक्षुरसन्निकृत्तान्यपातयच्छत्रुशिरांस्यजस्रम् ॥ 011c
अथ द्विपैर्दैत्यरिपुद्विपाभै र्देवारिकल्पा बलमन्युकल्पैः । 012a
कलिङ्गवङ्गाङ्गनिषादवीरा जिघांसवः पाण्डवमभ्यधावन् ॥ 012c
तेषां द्विपानां निचकर्त पार्थो वर्माणि चर्माणि करान्नियन्तॄन् । 013a
ध्वजाः पताकाश्च ततः प्रपेतुर्वज्राहतानीव गिरेः शिरांसि ॥ 013c
तेषु प्रभग्नेषु गुरोस्तनूजं बाणैः किरीटि नवसूर्यवर्णैः । 014a
प्रच्छादयामास महाभ्रजालैर्वायुः समुद्यन्तमिवांशुमन्तम् ॥ 014c
ततोऽर्जुनेषूनिषुभिर्निरस्य द्रौणिः शितैरर्जुनवासुदेवौ । 015a
प्रच्छादयित्वा दिवि चन्द्रसूर्यौ ननाद सोऽम्भोद इवातपान्ते ॥ 015c
तमर्जुनस्तांश्च पुनस्त्वदीयानभ्यर्दितस्तैरभिसृत्य शस्त्रैः । 016a
बाणान्धकारं सहसैव कृत्त्वा विव्याध पार्थो वरहेमपुङ्खैः ॥ 016c
नाप्याददत्सन्दधन्नैव मुञ्चन्बाणान्रथेऽदृश्यत सव्यसाची । 017a
रथांश्च नागांस्तुरगान्पदातीन्संस्यूतदेहान्ददृशुर्हतांश्च ॥ 017c
सन्धाय नाराचवरान्दशाशु द्रौणिस्त्वरन्नेकमिवोत्ससर्ज । 018a
तेषां च पञ्चार्जुनमभ्यविध्यन्पञ्चाच्युतं निर्बिभिदुः सुपुङ्खाः ॥ 018c
तैराहतौ सर्वमनुष्यमुख्यावसृक्स्रवन्तौ धनदेन्द्रकल्पौ । 019a
समाप्तविद्येन तथाऽभिभूतौहतौ रणे ताविति मेनिरेऽन्ये ॥ 019c
अथार्जुनं प्राह दशार्हनाथः प्रमाद्यसे किं जहि योधमेतम् । 020a
कुर्याद्धि दोषं समुपेक्षितोऽयं कष्टो भवेद्व्याधिरिवाक्रियावान् ॥ 020c
तथेति चोक्त्वाऽच्युतमप्रमादी द्रौणेः प्रहस्याशु किरीटमाली । 021a
भुजौ वरौ चन्दनसारदिग्धौ वक्षः शिरोऽथाप्रतिमौ तथोरू ॥ 021c
गाण्डीवमुक्तैः कुपिताहिकल्पैर्द्रौणिं शरैः संयति निर्बिभेद । 022a
छित्त्वा तु रश्मींस्तुरगानविध्यत्ते तं रणादूहुरतीव दूरम् ॥ 022c
स तैर्हृतो वातजवैस्तुरङ्गैर्द्रौणिर्दृढं पार्थशराभिभूतः । 023a
आवृत्य नैव व्यषहत्स योद्धुं पार्थेन सार्धं मतिमान्विमृश्य । 023c
जानञ्जयं नियतं वृष्णिवीरे धनञ्जये चाङ्गिरसां वरिष्ठः ॥ 024a
विवेश कर्णस्य बलं तरस्वी भग्नोत्साहः क्षीणबाणास्त्रयोगः ॥ 024c
प्रतीपकामे तु रणादश्वत्थाम्नि हृते हयैः । 025a
मन्त्रौषधिक्रियायोगैर्व्याधौ देहादिवाहृते ॥ 025c
संशप्तकानभिमुखौ प्रयातौ केशवार्जुनौ । 026a
वातोद्धूतपताकेन स्यन्दनेनौघनादिना ॥ ॥ 026c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे त्रिपञ्चाशोऽध्यायः ॥ 53 ॥

8-53-1 नक्षत्रमभितः नक्षत्रं लक्षीकृत्य ॥ 8-53-2 विमार्गस्थौ वक्रातिचारगौ ॥ 8-53-4 कृष्णौ कृष्णार्जुनौ आसतुः दीपयाञ्चक्रतुः ॥ 8-53-5 सर्वतोधारं सर्वतोऽस्त्रधारावर्षकं । सर्वतोवारमिति घ.ङ.पाठः । वज्रकल्पैः अमोघैः । अग्निकल्पैः दाहकैः । वैवस्वतदण्डकल्पैः प्राणहरैः ॥ 8-53-7 व्यायच्छतो यतमानस्य । आर्च्छत् गतवान् ॥ 8-53-10 सुकल्पिताः सुसन्नद्धाः ॥ 8-53-13 करान् शुण्डाः ॥ 8-53-16 तं अश्वत्थामानम् । तान् तदन्यान् । तैः कृतं बाणान्धकारं कृत्त्वा छित्त्वा । कृती छेदन ॥ 8-53-17 संस्यूताः अन्योन्यं सन्घट्टवन्तः ॥ 8-53-19 समाप्तविद्येन समग्रधनुर्वेदविदा ॥ 8-53-20 अक्रियावान् प्रतिकाररहितः ॥ 8-53-22 अविकर्णैः अविकर्णतुल्याग्रैः ॥ 8-53-23 अङ्गिरसां अङ्गिरोगोत्राणां मध्ये ॥ 8-53-26 ओघनादिना जलौघवन्नादवता ॥