अध्यायः 052
संशप्तकैर्युध्यमानस्य पार्थस्याश्वत्थाम्नाऽऽह्वानम् ॥ 1 ॥ तयोर्युद्धम् ॥ 2 ॥
धृतराष्ट्र उवाच । 001
कथं संशप्तकैः सार्धमर्जुनस्याभवद्रणः । 001a
सूतपुत्रस्य पाञ्चालैः कथं युद्धं प्रवर्तितम् ॥ 001c
अश्वत्थाम्नस्तु यद्युद्धमर्जुनस्य च सञ्जय । 002a
अन्येषां च मदीयानां पाण्डवैस्तद्ब्रवीहि मे ॥ 002c
सञ्जय उवाच । 003
शृणु राजन्यथावृत्तं सङ्ग्रामं ब्रुवतो मम । 003a
वीराणां शत्रुभिः सार्धं देहपाप्मविनाशनम् ॥ 003c
पार्थः संशप्तकबलं प्रविश्यार्णवसन्निभम् । 004a
व्यक्षोभयदमित्रघ्नो महावात इवार्णवम् ॥ 004c
पूर्णचन्द्राभवक्राणि स्वक्षिभ्रूदशनानि च । 005a
शिरांस्युन्मथ्य वीराणां शितैर्भल्लैर्धनञ्जयः । 005c
सन्तस्तार क्षितिं क्षिप्रं विनालैर्नलिनैरिव ॥ 005e
सुवृत्तानायतान्पुष्टांश्चन्दनागुरुभूषितान् । 006a
सायुधान्सतलत्रांश्च पञ्चास्योरगसन्निभान् । 006c
बाहून्क्षुरैरमित्राणां चिच्छेद समरेऽर्जुनः ॥ 006e
धुर्यान्धुर्येतरान्सूतान्ध्वजांश्चापानि सायकान् । 007a
पाणीन्नितान्तनिशितैर्भल्लैश्चिच्छेद पाण्डवः ॥ 007c
रथान्द्विपान्हयांश्चैव सारोहानर्जुनो युधि । 008a
शरैरनेकसाहस्रैर्निन्ये राजन्यमक्षयम् ॥ 008c
तं प्रवीराः सुसंरब्धा नर्दमाना इवर्षभाः । 009a
वासितार्थमिव क्रुद्धमभिद्रुत्य महोत्कटाः । 009c
निघ्न्तमभिजघ्नुस्ते शरैः शृङ्गैरिवर्षभाः ॥ 009e
तस्य तेषां च तद्युद्धमभवद्रोणहर्षणम् । 010a
त्रैलोक्यविजये यद्वद्दैत्यानां सह वज्रिणा ॥ 010c
अस्त्रैस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः । 011a
इषुभिर्बहुभिस्तूर्णं विद्व्वा प्राणाञ्जहार सः ॥ 011c
छिन्नत्रिवेणुचक्राक्षान्हतयोधान्ससारथीन् । 012a
विध्वस्तायुधतूणीरान्समुन्मथितकेतनान् ॥ 012c
सञ्छिन्नयोक्ररश्मीषान्वित्रिवेणून्विकूबरान् । 013a
विस्रस्तबन्धुरयुगान्विस्रस्ताक्षप्रमण्डलान् ॥ 013c
रथान्विशकलीकुर्वन्महाभ्राणीव मारुतः ॥ 014ac
विस्मापकं प्रेक्षकाणां द्विषतां भयवर्धनम् । 015a
महारथसहस्रस्य समं कर्माकरोज्जयः ॥ 015c
सिद्धदेवर्षिसङ्घाश्च चारणाश्चापि तुष्टुवुः ॥ 016ac
देवदुन्दुभयो नेदुः पुष्पवर्षाणि चापतन् । 017a
केशवार्जुनयोर्मूर्ध्नि प्राह वाक्वाशरीरिणी ॥ 017c
चन्द्राग्न्यनिलसूर्याणां कान्तिदीप्तिबलद्युतीः । 018a
यौ सदा बिभ्रतुर्वीराविमौ तौ केशवार्जुनौ ॥ 018c
ब्रह्मेशानाविव पुरा वीरावेकरथे स्थितौ । 019a
सर्वभूतवरौ वीरौ नरनारायणाविमौ ॥ 019c
इत्येतन्महदाश्चर्यं दृष्ट्वा श्रुत्वा च भारत । 020a
अश्वत्थामा सुसङ्क्रुद्धः कृष्णावभ्यद्रवद्रणे ॥ 020c
अथ पाण्डवमस्यन्तममित्रान्तकराञ्छरान् । 021a
सेषुणा पाणिनाऽऽहूय प्रहसन्द्रौणिरब्रवीत् ॥ 021c
यदि मां मन्यसे वीर प्राप्तमर्हमिहातिथिम् । 022a
ततः सर्वात्मना त्वद्य युद्धातिथ्यं प्रयच्छ मे ॥ 022c
एवमाचार्यपुत्रेण समाहूतो युयुत्सया । 023a
बहुमेनेऽर्जुनोऽऽत्मानमिति चाह जनार्दनम् ॥ 023c
संशप्तकाश्च मे वध्या द्रौणिराह्वयते च माम् । 024a
यदत्रानन्तरं प्राप्तं शंस मे तद्वि माधव ॥ 024c
आतिथ्यकर्माभ्युत्थाय दीयतां यदि मन्यसे । 025a
एवमुक्तोऽवहत्पार्थं कृष्णोद्रोणात्मजान्तिके ॥ 025c
शैक्ष्येण विधिनाऽऽहूतं वायुरिन्द्रमिवाध्वरे । 026a
तमामन्त्र्यैकमनसं केशवो द्रौणिमब्रवीत् ॥ 026c
अश्वत्थामन्स्थिरो भूत्वा प्रहराशु सहस्व च । 027a
निर्वेष्टुं भर्तृपिण्डं हि कालोऽयमुपजीविनाम् ॥ 027c
सूक्ष्मो विवादो विप्राणां सूक्ष्मौ क्षात्रौ जयाजयौ ॥ 028ac
नहि सङ्क्षमसे मोहाद्दिव्यां पार्थस्य सत्क्रियाम् । 029a
समाप्तिमिच्छन्युध्यस्व स्थिरो भूत्वाऽद्य पाण्डवं ॥ 029c
इत्युक्तो वासुदेवेन तथेत्युक्त्वा द्विजोत्तमः । 030a
विव्याध केशवं षष्ट्या नाराचैरर्जुनं त्रिभिः ॥ 030c
तस्यार्जुनः सुसङ्क्रुद्धस्त्रिभिर्बाणैः शरासनम् । 031a
चिच्छेदाथान्यदादत्त द्रौणिर्घोरतरं धनुः ॥ 031c
सज्यं कृत्वा निमेषाच्च विव्याधार्जुनकेशवौ । 032a
त्रिभिः शतैर्वासुदेवं सहस्रेण च पाण्डवम् ॥ 032c
ततः शरसहस्राणि प्रयुतान्यर्बुदानि च । 033a
ससृजे द्रौणिरायस्तः स्तम्भयामास चार्जुनम् ॥ 033c
इषुधेर्धनुषो ज्यायास्त्वङ्गुलिभ्यश्च मारिष । 034a
बाह्वोः कराभ्यामुरसो वदनाद्घ्राणनेत्रतः ॥ 034c
कर्णाभ्यां शिरसोऽङ्गेभ्यो लोमवर्मभ्य एव च । 035a
रथध्वजाभ्यां च शरा निष्पेतुर्ब्रह्मवादिनः ॥ 035c
शरजालेन महता बद्ध्वा माधवपाण्डवौ । 036a
ननाद मुदितो द्रौणिर्महामेघौघनिःस्वनम् ॥ 036c
'तैः पतद्भिर्महाराज द्रौणिमुक्तैः समन्ततः । 037a
सञ्छादितौ रथस्थौ तावुभौ कृष्णधनञ्जयौ ॥ 037c
ततः शरशतैस्क्ष्णैर्भारद्वाजः प्रतापवान् । 038a
निश्चेष्टौ तावुभौ चक्रे रणे माधवपाण्डवौ ॥ 038c
हाहाकृतमभूत्सर्वं जङ्गमं स्थावरं तथा । 039a
चराचरस्य गोप्तारौ दृष्ट्वा सञ्छादितौ शरैः ॥ 039c
सिद्धचारणसङ्घाश्च सम्पेतुर्वै समन्ततः । 040a
अपि स्वस्ति भवेदद्य लोकानामिति चाब्रुवन् ॥ 040c
न मया तादृशो राजन्दृष्टपृर्वः पराकमः । 041a
सञ्जज्ञे यादृशो द्रौणेः कृष्णौ छादयतो रणे ॥ 041c
द्रौणेस्तु धनुषः शब्दं रथानां त्रासनं रणे । 042a
अश्रौषं बहुशो राजन्सिंहस्य नदतो यथा ॥ 042c
ज्या चास्य चरतो युद्धे सव्यं दक्षिणमस्यतः । 043a
विद्युदम्भोधरस्येव भ्राजमाना व्यदृश्यत ॥ 043c
स तदा क्षिप्रकारी च दृढहस्तश्च पाण्डवः । 044a
प्रमोहं परमं गत्वा प्रेक्षन्नास्ते धनञ्जयः ॥ 044c
विक्रमं चरतो युद्धे सव्यं दक्षिणमस्यतः । 045a
विक्रमं च हृतं मेने आत्मनस्तेन संयुगे ॥ 045c
अथास्य समरे राजन्वपुरासीत्सुदुर्दृशम् । 046a
द्रौणेस्तत्कुर्वतः कर्म यादृग्रूपं पिनाकिनः ॥ 046c
वर्धमाने ततस्तत्र द्रोणपुत्रे विशाम्पते । 047a
हीयमाने च कौन्तेये कृष्णं रोषः समाविशत् ॥ 047c
स रोषान्निश्वसन्राजन्निर्दहन्निव चक्षुषा । 048a
द्रौणिं ददर्श सङ्ग्रामे फल्गुनं च मुहुर्मुहुः ॥ 048c
ततः कृष्णोऽब्रवीत्क्रुद्धः पार्थं सप्रणयं वचः ॥ 049ac
अत्यद्भुतमिदं पार्थ त्वयि पश्यामि संयुगे । 049a
यत्त्वां विशेषयत्याजौ द्रोणपुत्रोऽद्य भारत ॥ 050c
कच्चित्ते गाण्डिवं हस्ते मुष्टिर्वा न व्यशीर्यत । 050a
कच्चिद्वीर्यं यथापूर्वं भुजयोर्वा बलं तव ॥ 051c
उदीर्यमाणं हि रणे पश्यामि द्रौणिमाहवे । 051a
गुरुपुत्र इति ह्येनं मानयन्पाण्डवर्षभ । 052c
उपेक्षां मा कृथाः पार्थ नायं काल उपेक्षितुम्' ॥ 052e
अर्जुन उवाच । 053
पश्य माधव दौरात्म्यं गुरुपुत्रस्य मां प्रति । 053a
वधं प्राप्तौ मन्यते नौ प्रावेश्य शवरेश्मनि । 053c
एषोस्मि हन्मि सङ्कल्पं शिक्षया च बलेन च ॥ 053e
'एवमुक्त्वाऽस्य चिच्छेद भल्लैः कर्मारमार्जितैः । 054a
धनुश्छत्रं पताकां च रथशक्तिं गदां वराम्' ॥ 054c
अश्वत्थाम्नः शरानस्ताञ्छित्त्वैकैकं त्रिधा त्रिधा । 055a
व्यधमद्भरतश्रेष्ठो नीहारमिव मारुतः ॥ 055c
ततः संशप्तकान्भूयः साश्वसूतरथद्विपान् । 056a
ध्वजपत्तिगणानुर्ग्रैर्बाणैर्विव्याध पाण्डवः ॥ 056c
ये ये ददृशिरे तत्र यद्यद्रूपास्तदा जनाः । 057a
ते ते तत्र शरैर्व्याप्तं मेनिरेऽऽत्मानमात्मना ॥ 057c
ते गाण्डीवप्रमुक्तास्तु नानारूपाः पतत्रिणः । 058a
क्रोशे साग्रे स्थिताञ्जघ्नुर्द्विपांश्च पुरुषान्रणे ॥ 058c
भल्लैश्छिन्नाः कराः पेतुः करिणां मदवर्षिणाम् । 059a
यथा वने परशुभिर्निकृत्ताः शाल्मलिद्रुमाः ॥ 059c
पश्चात्तु शैलवत्पतुस्ते गजाः सह सादिभिः । 060a
वज्रिवज्रावमथिता यथैवाद्रिचयास्तथा ॥ 060c
गन्धर्वनगराकारान्रथांश्चैव सुकल्पितान् । 061a
विनीतैर्जवनैर्युक्तानास्थितान्युद्धदुर्मदैः ॥ 061c
शरैर्विशकलीकुर्वन्नमित्रानभ्यवीवृषत् । 062a
स्वलङ्कृतानश्वसादीन्पत्तींश्चाहन्धनञ्जयः ॥ 062c
धनञ्जययुगान्तार्कः संशप्तकमहार्णवम् । 063a
व्यशोषयत दुःशोषं तीक्ष्णैः शरगभस्तिभिः ॥ 063c
पुनर्द्रौणिमहाशैलं नाराचैर्वज्रसन्निभैः । 064a
निर्बिभेद महावेगैस्त्वरन्वज्रीव पर्वतम् ॥ 064c
तमाचार्यसुतः क्रुद्धः साश्वयन्तारमाशुगैः । 065a
युयुत्सुरागमद्योद्धुं पार्थस्तानच्छिनच्छरान् ॥ 065c
ततः परमसङ्क्रुद्धः काण्डकोशमवासृजत् । 066a
अश्वत्थामाभिरूपाय गृहानतिथये यथा ॥ 066c
अथ संशप्तकांस्त्यक्त्वा पाण्डवो द्रौणिमभ्ययात् । 067a
अपाङ्क्तेयानिव त्यक्त्वा दाता पाङ्क्तेयमर्थिनम् ॥ 067c
'स्थिताः संशप्तका राजन्दृष्ट्वा युद्वं महात्मनोः' ॥ ॥ 068ac
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्विपञ्चाशोऽध्यायः ॥ 52 ॥
8-52-1 वासिता पुष्पवती गौस्तदर्थम् ॥ 8-52-12 त्रिवेणुः उभयतः काष्ठद्वयसहितो धूर्दण्डः । अक्षश्चक्राधारदण्डः ॥ 8-52-13 योक्राणि बन्धनरज्जवः । रश्मयः प्रग्रहाः । कूबरस्त्रिवेणोरग्रभागः । बन्धुरं रथतल्पः युगं धूरग्रकाष्ठम् । अक्षप्रमण्डलं रथनीडाक्षयोः सन्धानकाष्ठजातम् ॥ 8-52-14 विशकलीकुर्वन् विशेषेण शकलीकुर्वन् ॥ 8-52-15 चन्द्रादीनां कान्त्यादीन् यथासङ्ख्यं विभ्रतुः ॥ 8-52-22 अर्हं पूजयितुं योग्यम् ॥ 8-52-24 अनन्तरं प्रथमम् ॥ 8-52-26 जैत्रेण विधिना इति झ.पाठः ॥ 8-52-33 अायस्तः यत्नवान् ॥ 8-52-34 इषुधिप्रभृतिभ्यः शराः पेतुः लोमभ्योऽपि वर्मभ्योऽपि च पेतुस्तत्र हेतुः ब्रह्मवादिनः योगबलवत इत्यर्थः ॥ 8-52-64 महत् शैलं शिलासमूहो यस्मिन् तं महाशैलं पर्वतमिव ॥ 8-52-66 काण्डकोशं बाणनिषङ्गम् ॥