अध्यायः 051

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच । 001
भीमसेनं सपाञ्चालं चेदिकेकयसंवृतम् । 001a
सेनापतिः स्वयं क्रुद्धो वारयामास सायकैः ॥ 001c
ततस्तु चेदिकारूशान्सृञ्जयांश्च महारथान् । 002a
कर्णो जघान समरे भीमसेनस्य पश्यतः ॥ 002c
भीमसेनस्ततः कर्णे विहाय रथसत्तमम् । 003a
प्रययौ कौरवं सैन्यं कक्षमग्निरिव ज्वलन् ॥ 003c
सूतपुत्रोऽपि समरे पाञ्चालान्केकयांस्तथा । 004a
सृञ्जयांश्च महेष्वासान्निजघानं सहस्रशः ॥ 004c
संशप्तकेषु पार्थश्च कौरवेषु वृकोदरः । 005a
पाञ्चालेषु तथा कर्णः क्षयं चक्रुर्महारथाः ॥ 005c
ते क्षत्रिया दह्यामानास्त्रिभिस्तैः पावकोपमैः । 006a
जग्मुर्विनाशं समरे राजन्दुर्मन्त्रिते तव ॥ 006c
ततो दुर्योधनः क्रुद्धो नकुलं नवभिः शरैः । 007a
विव्याध भरतश्रेष्ठ चतुरश्चास्य वाजिनः ॥ 007c
ततः परममेयात्मा तव पुत्रो जनाधिप । 008a
क्षुरेण सहदेवस्य ध्वजं चिच्छेद काञ्चनम् ॥ 008c
नकुलस्तु ततः क्रुद्धस्तव पुत्रं च सप्तभिः । 009a
जघान समरे राजन्सहदेवश्च पञ्चभिः ॥ 009c
तावुभौ भरतश्रेष्ठौ ज्येष्ठौ सर्वधनुष्मताम् । 010a
विव्याधोरसि सङ्क्रुद्धः पञ्चभिः पञ्चभिः शरैः ॥ 010c
ततोऽपराभ्यां भल्लाब्यां धनुषी समकृन्तत । 011a
यमयोः प्रसभं वीरो विव्याधाशु त्रिभिस्त्रिभिः ॥ 011c
तावन्ये धनुषी श्रेष्ठे शक्रचापनिभे शुभे । 012a
प्रगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि ॥ 012c
ततस्तौ रभसौ युद्धे भ्रातरौ भ्रातरं युधि । 013a
शरैर्ववर्षतुर्घोरैर्महामेघौ यथाऽचलम् ॥ 013c
ततः क्रुद्धो महाराज तव पुत्रो महारथः । 014a
पाण्डुपुत्रौ महेष्वासौ वारयामास पत्रिभिः ॥ 014c
धनुर्मण्डलमेवास्य ददृशे युधि भारत । 015a
सायकाश्चाप्यदृश्यन्त निश्चरन्तः समन्ततः ॥ 015c
'तस्य सायकसञ्छन्नौ माद्रेयौ न विरेजतुः । 016a
मेघच्छन्नौ यथा व्योम्नि चन्द्रसूर्यौ गतप्रभौ ॥ 016c
ते तु बाणा महाराज स्वर्णपुङ्खाः शिलाशिताः' । 017a
आच्छादयन्दिशः सर्वाः सूर्यस्येव मरीचयः ॥ 017c
बाणभूते ततस्तस्मिन्सञ्छन्ने च नभस्तले । 018a
राज्ञस्तु ददृशे रूपं कालान्तकयमोपमम् ॥ 018c
पराक्रमं तु तं दृष्ट्वा तव सूनोर्महारथाः । 019a
मृत्योरुपान्तिकं प्राप्तौ माद्रीपुत्रौ स्म मेनिरे ॥ 019c
ततः सेनापती राजन्पाण्डवानां महारथः । 020a
पार्षतः प्रययौ तत्र यत्र राजा सुयोधनः ॥ 020c
माद्रीपुत्रौ ततः शूरौ व्यतिक्रम्य महारथौ । 021a
धृष्टद्युम्नस्तव सुतं पीडयामास सायकैः ॥ 021c
तमविध्यदमेयात्मा तव पुत्रो ह्यमर्षणः । 022a
पाञ्चाल्यं पञ्चविंशत्या प्रहस्य पुरुषर्षभः ॥ 022c
ततः पुनरमेयात्मा तव पुत्रो ह्यमर्षणः । 023a
विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिरेव च ॥ 023c
तथास्य सशरं चापं मुष्टिदेशे विशाम्पते । 024a
क्षुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे ॥ 024c
तदपास्य धनुश्छिन्नं पाञ्चाल्यः शत्रुकर्शनः । 025a
अन्यदादत्त वेगेन धनुर्भारसहं नवम् ॥ 025c
क्रोधाद्रुधिररक्ताक्षः संरम्भात्प्रज्वलन्निव । 026a
अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः ॥ 026c
स पञ्चदश नाराचाञ्श्वसतः पन्नगानिव । 027a
जिघांसुर्भरतश्रेष्ठं धृष्टद्युम्नो व्यपासृजत् ॥ 027c
ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलीमुखाः । 028a
विविशुर्वसुधां वेगात्कङ्कबर्हिणवाससः ॥ 028c
सोऽतिविद्धो महाराज पुत्रस्तेऽतिव्यराजत । 029a
वसन्तकाले सुमहान्प्रफुल्ल इव किंशुकः ॥ 029c
स च्छिन्नवर्मा नाराचप्रहारैर्झर्झरीकृतः । 030a
धृष्टद्युम्नस्य भल्लेन क्रुद्धश्चिच्छेद कार्मुकम् ॥ 030c
अथैनं छिन्नधन्वानं त्वरमाणो महीपतिः । 031a
सायकैर्दशभी राजन्भ्रुवोर्मध्ये समार्पयत् ॥ 031c
तस्य तेऽशोभयन्वक्त्रं कर्मारपरिमार्जिताः । 032a
प्रफुल्लं पङ्कजं यद्वद्धमरा मधुलिप्सवः ॥ 032c
तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महामनाः । 033a
अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश ॥ 033c
ततो दुर्योधनस्याश्वान्हत्वा सूतं च पञ्चभिः । 034a
धनुश्चिच्छेद भल्लेन जातरूपपरिष्कृतम् ॥ 034c
रथं सोपस्करं छत्रं शक्तिं खड्गं गदां ध्वजम् । 035a
भल्लैश्चिच्छेद दशभिः पुत्रस्य तव पार्षतः ॥ 035c
तपनीयाङ्गदं छत्रं नागं मणिमयं शुभम् । 036a
ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ॥ 036c
दुर्योधनं तु विरथं छिन्नवर्मायुधध्वजम् । 037a
भ्रातरं समुदैक्षन्त सोदरा भरतर्षभ ॥ 037c
तमारोप्य रथे राजन्कुण्डधारो महारथम् । 038a
अपाहरदसम्भ्रान्तो धृष्टद्युम्नस्य पश्यतः ॥ 038c
कर्णस्तु सात्यकिं हित्वा राजगृध्नुरमर्षणः । 039a
द्रोमहन्तारमुग्रेषुं ससाराभिमुखो रणे ॥ 039c
तं पृष्ठतोऽन्वयात्तूर्णं शैनेयोऽभिहतः शरैः । 040a
वारणं जघनोपान्ते विषाणाभ्यामिव द्विपः ॥ 040c
स भारतपुरोगानां राज्ञां च सुमहात्मनाम् । 041a
कर्णपार्षतयोर्युद्धे सङ्क्रुद्धानां महारणे ॥ 041c
न पाण्डवानां नास्माकं कश्चिदासीत्पराङ्मुखः । 042a
प्रत्यदृश्यत यत्कर्णः पाञ्चालांस्त्वरितो ययौ ॥ 042c
तस्मिन्क्षणे नरश्रेष्ठ गजवाजिरथक्षयः । 043a
प्रादुरासीदुभयतो राजन्मध्यगतेऽहनि ॥ 043c
पाञ्चालास्तु महाराज त्वरिता विजिगीषवः । 044a
सर्वतोऽभ्यद्रवन्कर्णं पतत्त्रिण इव द्रुमम् ॥ 044c
तेषामाधिरथिः क्रुद्धः प्रधानान्वै तरस्विनः । 045a
विचिन्वन्निव बाणौघैः समासादयदग्रतः ॥ 045c
व्याघ्रकेतुः सुशर्मा च शुक्रश्चित्रायुधः क्रतुः । 046a
दुर्जयो रोचमानश्च सिंहसेनस्तथाऽष्टमः । 046c
महता रथवंशेन परिवव्रुर्नरोत्तमम् ॥ 046e
सृजन्तः सायकांस्तूर्णं कर्णमाहवशोभिनम् । 047a
यतमानांस्तु ताञ्शूरान्मनुजेन्द्रः शितैः शरैः । 047c
अष्टाभिरष्टौ राधेयः पाञ्चालान्न्यहनद्रणे ॥ 047e
अथापरान्महाराज सूतपुत्रः प्रतापवान् । 048a
जघान बहुसाहस्रान्योधान्युद्धविशारदान् ॥ 048c
विष्णुं च विष्णुवर्माणं देवापिं भद्रमेव च । 049a
दण्डधारं च समरे चित्रं चित्रायुधं हरिम् ॥ 049c
सिंहकेतुं रोचमानं शलभं च महारथम् । 050a
निजघान सुसङ्क्रुद्धश्चेदीनां च महारथान् ॥ 050c
तेषामाददतः प्राणानासीदाधिरथेर्वपुः । 051a
शोणिताभ्युक्षिताङ्गस्य रुद्रस्यैवातिभैरवम् ॥ 051c
तत्र भारत कर्णेन मातङ्गास्ताडिताः शरैः । 052a
सर्वतोऽभ्यद्रवन्भीताः कुर्वन्तो महदाकुलम् ॥ 052c
निपेतुरुर्व्यां समरे कर्णसायकताडिताः । 053a
कुर्वन्तो विविधान्नादान्वज्रनुन्ना इवाचलाः ॥ 053c
गजवाजिमनुष्यैश्च निपतद्भिः समन्ततः । 054a
रथैर्भग्नैर्ध्वजैश्चैव समास्तीर्यत मेदिनी ॥ 054c
नैवं भाष्मो न च द्रोणो नान्ये युधि च तावकाः । 055a
चक्रुः स्म तादृशं कर्म यादृशं कृतवान्रणे ॥ 055c
मृगमध्ये यथा सिंहो दृश्यते निर्भयश्चरन् । 056a
पाञ्चालानां तथा मध्ये कर्णोऽचरदभीतवत् ॥ 056c
सूतपुत्रोऽथ नागेषु हयेषु च रथेषु च । 057a
नरेषु च नरव्याघ्रश्चकार कदनं महत् ॥ 057c
यथा मृगगणांस्त्रस्तान्सिंहो द्रावयते दिशः । 058a
पाञ्चालानां रथव्रातान्कर्णो व्यद्रावयत्तथा ॥ 058c
सिंहं स्म हि यथा प्राप्य न जीवन्ति मृगाः क्वचित् । 059a
तथा कर्णमनुप्राप्ता न जीवन्ति स्म सृञ्जयाः ॥ 059c
वैश्वानरमुखं प्राप्य दह्यन्ते शलभा यथा । 060a
कर्णाग्रिं समरे प्राप्य दग्धा भारत सृञ्जयाः ॥ 060c
चेदिष्वेकेन कर्णेन पाञ्चालेषु च भारत । 061a
विश्राव्य नाम निहता बहवः शूरसम्मताः ॥ 061c
मम चासीन्मती राजन्दृष्ट्वा कर्णस्य विक्रमम् । 062a
नैकोऽप्याधिरथेर्जीवन्पाञ्चाल्यो मोक्ष्यते युधि ॥ 062c
सङ्ख्ये विमर्द्य पाञ्चालान्सूतपुत्रः पुनः पुनः । 063a
अभ्यधावत्सुसङ्क्रुद्धः कुन्तीपुत्रं युधिष्ठिरम् ॥ 063c
धृष्टद्युम्नश्च राजानं द्रौपदेयाश्च मारिष । 064a
परिवव्रुरमित्रघ्नं शतशश्चापरे जनाः ॥ 064c
शिखण्डी सहदेवश्च नकुलो नाकुलिस्तथा । 065a
जनमेजयः शिनेर्नप्ता बहवश्च प्रभद्रकाः ॥ 065c
एते पुरोगमा भूत्वा धृष्टद्युम्नश्च संयुगे । 066a
कर्णमस्यन्तमिष्वस्त्रैस्ततक्षुरमितौजसम् ॥ 066c
तांस्तत्राधिरथिः सङ्ख्ये चेदिपाञ्चालपाण्डवान् । 067a
एको बहूनभ्यपतद्गरुत्मानिव पन्नगान् ॥ 067c
तैः कर्णस्याभवद्युद्धं घोररूपं विशाम्पते । 068a
तादृग्यादृक्पुरावृत्तं देवानां दानवैः सह ॥ 068c
तान्समेतान्महेष्वासाञ्शरवर्षौधवर्षिणः । 069a
एको व्यधमदव्यग्रस्तमांसीव दिवाकरः ॥ 069c
भीमसेनस्तु संसक्ते राधेये पाण्डवैः सह । 070a
सर्वतोऽभ्यहनत्क्रुद्धो यमदण्डनिभैः शरैः ॥ 070c
बाह्लीकान्केकयान्मात्स्यान्वासात्यान्मद्रसैन्धवान् । 071a
एकः सङ्ख्ये महेष्वासो योधयन्बह्वशोभत ॥ 071c
तत्र मर्मसु भीमेन नाराचैस्ताडिता गजाः । 072a
प्रपतन्तो हतारोहाः कम्पयन्ति स्म मेदिनीम् ॥ 072c
वाजिनश्च हतारोहाः पत्तयश्च गतासवः । 073a
अशेरत महाराज वमन्तो रुधिरं बहु ॥ 073c
ताडिताः सहसा नागा भीमसेनेन मारिष । 074a
निपतन्ति महावेगा वज्ररुग्णा इवाचलाः ॥ 074c
पतितैस्तैर्महाराज वेगवद्भिर्महारथैः । 075a
शुशुभे वसुधा राजन्विकीर्णैरिव पर्वतैः ॥ 075c
सहस्रशश्च रथिनः पत्तयः पतितायुधाः । 076a
अक्षताः समदृश्यन्त भीमाद्भीता गतासवः ॥ 076c
रथिभिः सादिभिः सूतैः पादातैर्वाजिभिर्गजैः । 077a
भीमसेनशरैश्छिन्नैराच्छन्ना वसुधाभवत् ॥ 077c
तत्स्तम्भितमिवातिष्ठद्भीमसेनभयार्दितम् । 078a
दुर्योधनबलं सर्वं निरुत्साहं कृतं रणे । 078c
निश्चेष्टं तुमुलं दीनं बभौ तस्मिन्महारणे ॥ 078e
प्रसन्नसलिले काले यथा स्यात्सागरो नृप । 079a
तद्वत्तव बलं तद्वै निश्चलं समवस्थितम् ॥ 079c
मन्युवीर्यबलोपेतं दर्पात्प्रत्यवरोपितम् । 080a
अभवत्तव पुत्रस्य तत्सैन्यं निष्प्रभं तदा ॥ 080c
ते बले भरतश्रेष्ठ वध्यमाने परस्परम् । 081a
रुधिरौघपरिक्लिन्ने रुधिरार्द्रे बभूवतुः ॥ 081c
सूतपुत्रोऽवधीत्क्रुद्धः पाण्डवानामनीकिनीम् । 082a
भीमसेनः कुरूणां च त्रिगर्तानां धनञ्जयः ॥ 082c
वर्तमाने तथा रोद्रे सङ्ग्रामेऽद्भुतदर्शने । 083a
निहत्य पृतनामध्ये संशप्तकगणान्बहून् । 083c
अर्जुनो जयतां श्रेष्ठो वासुदेवमथाब्रवीत् ॥ 083e
प्रभग्नं बलमेतद्धि योत्स्यमानं मया सह । 084a
एते धावन्ति सगणाः संशप्तकमहारथाः ॥ 084c
'दुर्जया ह्येव समरे देवैरपि सवासवैः' । 085a
अपारयन्तो मद्बाणान्सिंहशब्दं मृगा इव ॥ 085c
दीर्यते च महत्सैन्यं सृञ्जयानां महारणे । 086a
'कुरवश्चाभिधावन्ति भीमसेनभयार्दिताः' ॥ 086c
हस्तिकक्ष्यो ह्यसौ कृष्ण केतुः कर्णस्य धीमतः । 087a
दृश्यते राजसैन्यस्य मध्ये विचरतो मुहुः ॥ 087c
न च कर्णं रणे शक्ता जेतुमेते महारथाः । 088a
जानीते हि भवान्कर्णं वीर्यवन्तं पराक्रमे ॥ 088c
तत्र याहि यतः कर्णो द्रावयत्येष नो बलम् । 089a
त्रिगर्तान्वर्जयन्याहि सूतपुत्रं महारथम् । 089c
एतन्मे रोचते कृष्ण यथा वा तव रोचते ॥ 089e
एतच्छ्रुत्वा वचस्तस्य गोविन्दः प्रहसन्निव । 090a
अब्रवीदर्जुनं तूर्णं कौरवान्याहि पाण्डव ॥ 090c
ततस्तव महासैन्यं गोविन्दप्रेरिता हयाः । 091a
हंसवर्णा विशंस्तूर्णं वहन्तोऽर्जुनमाहवे ॥ 091c
केशवप्रेरितैरश्वैः श्वेतैः काञ्चनभूषणैः । 092a
प्रविशद्भिस्तव बलं चतुर्दिशमदीर्यत ॥ 092c
मेघस्तनितनिर्ह्रादः स रथो वानरध्वजः । 093a
चलत्पताकस्तां सेनां विमानं द्यामिवाविशत् ॥ 093c
तौ विदार्य महासेनां प्रविष्टौ केशवार्जुनौ । 094a
क्रुद्धौ संरम्भरक्ताक्षौ विभ्राजेतां महाद्युती ॥ 094c
युद्धशौण्डौ समाहूतावागतौ तौ रणाध्वरम् । 095a
यज्वभिर्विधिना हूतौ मखं देवाविवाश्विनौ ॥ 095c
'क्रोधताम्रेक्षणौ शूरौ शुशुभाते महाबलौ । 096a
मदोत्कटौ यथा नागौ दृष्टिसञ्चारचारिणौ' ॥ 096c
क्रुद्धौ तौ तु नरव्याघ्रो योगवन्तौ बभूवतुः । 097a
तलशब्देन रुषितौ महानागाविवोत्कटौ ॥ 097c
विगाह्य तु रथानीकमश्वसङ्घांश्च फल्गुनः । 098a
व्यचरत्पृतनामध्ये पाशहस्त इवान्तकः ॥ 098c
तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत । 099a
संशप्तकगणान्भूयः पुत्रस्ते समचूचुदत् ॥ 099c
ततो रथसहस्रेण द्विरदानां त्रिभिः शतैः । 100a
चतुर्दशसहस्रैस्तु तुरगाणां महाहवे । 100c
द्वाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम् ॥ 100e
शूराणां लब्धलक्षाणां विदितानां समन्ततः । 101a
अभ्यवर्तन्त कौन्तेयं छादयन्तो महारथाः ॥ 101c
शरवर्षैर्महाराज सर्वतः पाण्डुनन्दनम् । 102a
स च्छाद्यमानः समरे शरैः परबलार्दनः ॥ 102c
दर्शयन्रौद्रमात्मानं पाशहस्त इवान्तकः । 103a
निघ्नन्संशप्तकान्पार्थः प्रेक्षणीयतरोऽभवत् ॥ 103c
ततो विद्युत्प्रभैर्बाणैः कार्तस्वरविभूषितैः । 104a
निरन्तरमिवाकाशमासीच्छन्नं किरीटिना ॥ 104c
किरीटिचापनिर्मुक्तैः सम्पतद्भिर्महाशरैः । 105a
समाच्छन्नं बभौ सर्वं काद्रवेयैरिव प्रभो ॥ 105c
रुक्मपुङ्खाञ्शरान्घोरान्प्रसन्नान्नतपर्वणः । 106a
अवासृजदमेयात्मा दिक्षु सर्वासु पाण्डवः ॥ 106c
मही वियद्दिशः सर्वाः समुद्रा गिरयोऽपि वा । 107a
स्फुटन्तीति जना जज्ञुः पार्थस्य तलनिःस्वनात् ॥ 107c
हत्वा दशसहस्राणि पार्थिवानां महारथः । 108a
संशप्तकानां कौन्तेयः प्रपक्षं त्वरितोभ्ययात् ॥ 108c
प्रपक्षं च समासाद्य पार्थः काम्भोजरक्षितम् । 109a
प्रममाथ बलं भल्लैर्दानवानिव वासवः ॥ 109c
प्रचिच्छेदाशु भल्लेन द्विषतामाततायिनाम् । 110a
शस्त्रपाणींस्तथा बाहूंस्तथापि च शिरांस्युत ॥ 110c
अङ्गाङ्ङ्गावयवैश्छिन्नैर्व्यायुधास्तेऽपतन्भुवि । 111a
विष्वग्वाताभिसम्भग्ना बहुशाखा इव द्रुमाः ॥ 111c
हस्त्यश्वरथपत्तीनां व्रातान्निघ्नन्तमर्जुनम् । 112a
सुदक्षिणादवरजः शरवृष्ट्याभ्यवीवृषत् ॥ 112c
तस्यास्यतोऽर्धचन्द्राभ्यां स बाहू परिघोपमौ । 113a
पूर्णचन्द्राभवक्त्रं च क्षुरेणापाहरच्छिरः ॥ 113c
तत्पपात ततो वेगात्स्वलोहितपरिष्कृतम् । 114a
मनः शिलागिरेः शृङ्गं वज्रेणेवावदारितम् ॥ 114c
सुदक्षिणादवरजं काम्भोजा ददृशुर्हतम् । 115a
प्रांशुं कमलपत्राक्षमत्यर्थं प्रियदर्शनम् । 115c
काञ्चनस्तम्भसदृशं भिन्नं हेमगिरिं यथा ॥ 115e
ततोऽभवत्पुनर्युद्धं घोरमत्यर्थमद्भुतम् । 116a
नानावस्थाश्च योधानां बभूवुस्तत्र युध्यताम् ॥ 116c
पार्थेषुनिहतैरश्वैः काम्भोजैर्यवनैः शकैः । 117a
शोणिताक्तैस्तदा रक्तं सर्वामासीद्विशां पते ॥ 117c
रथैर्हताश्वसूतैश्च हतारोहैश्च वाजिभिः । 118a
द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः ॥ 118c
अन्योन्येन महाराज विनाशः पृथिवीक्षिताम् । 119a
आसीत्क्रुद्धेऽर्जुने कर्णे भीमसेने च दारुणम् ॥ 119c
तस्पिन्प्रपक्षे पक्षे च वध्यमाने मदोत्कटः । 120a
अर्जुनं जयतां श्रेष्ठं त्वरितो द्रौणिरभ्ययात् ॥ 120c
विधुन्वानो महच्चापं कार्तस्वरविभूषितम् । 121a
आददानः शरान्घोरान्स्वरश्मीनिव भास्करः ॥ 121c
तयोरासीन्महद्युद्धं धर्मभ्रात्रोरनैष्ठिकम् । 122a
विस्मापयिषतोर्लोकं यशश्चोत्तममिच्छतोः ॥ 122c
संशप्तकांस्तु कौन्तेयः कुरूंश्चापि वृकोदरः । 123a
सूतपुत्रस्तु पाञ्चालांस्त्रयोऽघ्नंस्त्वरिताः शरैः ॥ 123c
एवमेष महाराज विनाशः पृथिवीक्षिताम् । 124a
युद्वं घोरं तथा त्वासीत्त्रिधाभूते चमूमुखे ॥ ॥ 124c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकपञ्चाशोऽध्यायः ॥ 51 ॥

*.एतदनन्तरं झ.पुस्तके विद्यमाना कथा अस्मिन्पाठे - 57 - 58 तमाध्याययोर्वर्तते ।