अध्यायः 050

सङ्कुलयुद्धम् ॥ 1 ॥ अश्वत्थाम्ना युधिष्ठिरपराजयः ॥ 2 ॥

सञ्जय उवाच । 001
द्रौणिर्युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम् । 001a
द्रौपदेयैस्तथा शूरैरभ्यवर्तत हृष्टवत् ॥ 001c
किरन्निषुगणान्घोरान्हेमपुङ्खाञ्शिलाशितान् । 002a
दर्शयन्विविधान्मार्गाञ्शिक्षया लघुहस्तवान् ॥ 002c
खं पूरयञ्शरैस्तीक्ष्णैर्वेगवद्भिः समन्ततः । 003a
युधिष्ठिरस्य समरे दिशः सर्वाः समावृणोत् ॥ 003c
भारद्वाजशरैश्छन्नं न प्राज्ञायत किञ्चन । 004a
बाणभूतमभूत्सर्वमायोधनशिरो महत् ॥ 004c
बाणजालं दिविष्ठं तत्स्वर्णपुङ्खविभूषितम् । 005a
शुशुभे भरतश्रेष्ठ विमानमिव विष्ठितम् ॥ 005c
तेन च्छन्ने रणे राजन्बाणजालेन भास्वता । 006a
अभ्रच्छायेव सजज्ञे हृतरश्मिस्तमोनुदः ॥ 006c
तदद्भुतमपश्याम बाणभूते नभस्थले । 007a
न स्म सम्पतते भूतं द्रौणेर्दृष्ट्वा पराक्रमम् ॥ 007c
सात्यकिर्यतमानस्तु धर्मराजस्तु पाण्डवः । 008a
तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम् ॥ 008c
लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः । 009a
व्यस्मयन्त महाराज न चैनं प्रत्युदीक्षितुम् ॥ 009c
शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम् । 010a
वध्यमाने ततः सैन्ये द्रौपदेया महारथाः ॥ 010c
सात्यकिर्धर्मराजश्च पाञ्चालाश्चापि सङ्गताः । 011a
त्यक्त्वा मृत्युभयं घोरं द्रौणायनिमुपाद्रवन् ॥ 011c
सात्यकिः सप्तविंशत्या द्रौणिं विद्ध्वा शिलीमुखैः । 012a
पुनर्विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः ॥ 012c
युधिष्ठिरस्त्रिसप्तत्या प्रतिविन्ध्यश्च सप्तभिः । 013a
श्रुतकर्मा त्रिभिर्बाणैः श्रुतकीर्तिश्च सप्तभिः । 013c
सुतसोमस्तु नवभिः शतानीकश्च सप्तभिः । 014a
अन्ये च वहवः शूरा विव्यधुस्तं समन्ततः ॥ 014c
स तु क्रुद्धस्ततो राजन्नाशीविष इव श्वसन् । 015a
सात्यकिं पञ्चविंशत्या प्राविध्यत शिलीमुखैः ॥ 015c
श्रुतकीर्तिं च नवभिः सुतसोमं च पञ्चभिः । 016a
अष्टभिः श्रुतकर्माणं प्रतिबिन्ध्यं त्रिभिः शरैः ॥ 016c
शतानीकं च नवभिर्धर्मपुत्रं च पञ्चभिः । 017a
तथेतरांस्ततः शूरान्द्वाभ्यां द्वाभ्यामताडयत् । 017c
श्रुतकीर्तेस्तथा चापं चिच्छेद निशितैः शरैः ॥ 017e
अथान्यद्धनुरादाय श्रुतकीर्तिर्महारथः । 018a
द्रौणायनिं त्रिभिर्विद्ध्वा विव्याधान्यैः शितैः शरैः ॥ 018c
ततो द्रौणिर्महाराज शरवर्षेण मारिष । 019a
छादयामास तत्सैन्यं समन्ताद्भरतर्षभ ॥ 019c
ततः पुनरमेयात्मा धर्मराजस्य कार्मुकम् । 020a
द्रौणिश्चिच्छेद विहसन्विव्याध च शरैस्त्रिभिः ॥ 020c
ततो धर्मसुतो राजन्प्रगृह्यान्यन्महद्धनुः । 021a
द्रोणपुत्रं त्रिषष्ट्या तु बाह्वोरुरसि चार्पयत् ॥ 021c
सात्यकिस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे । 022a
अर्धचन्द्रेणतीक्ष्णेन धनुश्छित्त्वाऽनदद्भृशम् ॥ 022c
छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः । 023a
सारथिं पातयामास शैनेयस्य रथाद्रुतम् ॥ 023c
अथान्यद्धनुरादाय द्रोणपुत्रः प्रतापवान् । 024a
शैनेयं शरवर्षेण च्छादयामास भारत ॥ 024c
तस्याश्वाः प्रद्रुताः सङ्ख्ये पतिते रथसारथौ । 025a
तत्रतत्रैव धावन्तः समदृश्यन्त भारत ॥ 025c
युधिष्ठिरपुरोगास्तु द्रौणिं शस्त्रभृतां वरम् । 026a
अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ्छरान् ॥ 026c
सहसा पततस्तान्वै क्रुद्धरूपान्परन्तपः । 027a
प्रहसन्प्रतिजग्राह द्रोणपुत्रो महारणे ॥ 027c
ततः शरशतज्वालः सेनाकक्षं महारणे । 028a
द्रौणिर्ददाह समरे कक्षमग्निरिवोत्थितः ॥ 028c
तद्बलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम् । 029a
चुक्षुभे भरतश्रेष्ठ तस्मिन्नेव चमूमुखे ॥ 029c
तद्बलं पाण्डवेयस्य द्रोणपुत्रः शरार्चिषा । 030a
तापयन्भरतश्रेष्ठ गभस्तिभिरिवांशुमान् ॥ 030c
तत्पच्यमानं मर्षेण ब्राह्मणस्य च सायकैः । 031a
क्षुभ्यते पाण्डवं सैन्यं तिमिनेव नदीमुखम् ॥ 031c
दृष्ट्वा चैव महाराज द्रोणपुत्रपराक्रमम् । 032a
सर्वान्दुर्योधनः पार्थान्हतान्युद्धेऽभ्यमन्यत ॥ 032c
युधिष्ठिरस्तु त्वरितो द्रौणिं पीड्य महारथम् । 033a
अब्रवीद्द्रोणपुत्रं स रोषामर्षसमन्वितः ॥ 033c
'जानामि त्वां युधि श्रेष्ठ वीर्यवन्तं बलान्वितम् । 034a
कृतास्त्रं कृतिनं चैव तथा लघुपराक्रमम् ॥ 034c
बलमेतद्भवान्सर्वं पार्षते यदि दर्शयेत् । 035a
ततस्त्वां बलवन्तं च कृतविद्यं च विद्महे ॥ 035c
न हि वै पार्षतं दृष्ट्वा समरे शत्रुसूदनम् । 036a
भवेत्तव बलं किञ्चिद्ब्रवीमि त्वां न तु द्विजम्' ॥ 036c
नैव नाम तव प्रीतिर्नैव नाम कृतज्ञता । 037a
यतस्त्वं पुरुषव्याघ्र मामेवाद्य जिघांससि ॥ 037c
ब्राह्मणेन तपः कार्यं शमश्च दमएव च । 038a
क्षत्रियेण धनुर्नाम्यं स भवान्ब्राह्मणब्रुवः ॥ 038c
मिषतस्ते महावाहो युधि जेष्यामि कौरवान् । 039a
कुरुष्व समरे कर्म ब्रह्मबन्धो यथेष्टतः ॥ 039c
एवमुक्तो महाराज द्रोणपुत्रः स्मयन्निव । 040a
युक्तं तत्त्वं च सञ्चिन्त्य नोत्तरं किञ्चिदब्रवीत् ॥ 040c
अनुक्त्वा च ततः किञ्चिच्छरवर्षेण पाण्डवम् । 041a
छादयामास समरे क्रुद्धोऽन्तक इव प्रजाः ॥ 041c
स च्छाद्यमानस्तु तदा द्रोणपुत्रेण मारिष । 042a
पार्थोऽपयातः शीघ्रं वै प्रगृह्य महतीं चमूम् ॥ 042c
अपयाते ततस्तस्मिन्धर्मपुत्रे युधिष्ठिरे । 043a
द्रोणपुत्रः स्थितो राजन्प्रत्यादेशान्महात्मनः ॥ 043c
ततो युधिष्ठिरो राजंस्त्यक्त्वा द्रौणिं महाहवे । 044a
प्रययौ तावकं सैन्यं युक्तः क्रुराय कर्मणे ॥ ॥ 044c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चाशोऽध्यायः ॥ 50 ॥