अध्यायः 049

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच । 001
कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष । 001
उलूकः सौबलश्चैव राजा च सह सोदरैः ॥ 001
सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम् । 002
समुज्जह्रुः स्म वेगेन भिन्नां नावमिवार्णवे ॥ 002
ततो युद्धमतीवासीन्मुहूर्तमिव भारत । 003
भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥ 003
कृपेण शरवर्षाणि प्रतिमुक्तानि संयुगे । 004
सृञ्जयांश्छादयामासुः शलभानां व्रजा इव ॥ 004
शिखण्डी च ततः क्रुद्धो गौतमं त्वरितो ययौ । 005
ववर्ष शरवर्षाणि समन्ताद्द्विजपुङ्गवम् ॥ 005
कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित् । 006
शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः ॥ 006
ततः शिखण्डी कुपितः शरैः सप्तभिराहवे । 007
कृपं विव्याध कुपितं कङ्कपत्रैरजिह्मगैः ॥ 007
ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः । 008
'ततः सुनिशितैस्तीक्ष्णैः क्षुरप्रैर्हेमभूषितैः' । 008
व्यश्वसूतरथं चक्रे शिखण्डिनमथो द्विजः ॥ 008
हताश्वात्तु ततो यानादवप्लुत्य महारथः । 009
खड्गं चर्म तथा गृह्य सत्वरं ब्राह्मणं ययौ ॥ 009
तमापतन्तं सहसा शरैः सन्नतपर्वभिः । 010
वारयामास समरे तदद्भुतमिवाभवत् ॥ 010
तत्राद्भुतमपश्याम शिलानां प्लवनं यथा । 011
निश्चेष्टो यद्रणे राजञ्छिखण्डी समतिष्ठत ॥ 011
कृपेण वारितं दृष्ट्वा शिखण्डिनमथो नृप । 012
प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः ॥ 012
धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति । 013
प्रतिजग्राह वेगेन कृतवर्मा महारथः ॥ 013
युधिष्ठिरमथायान्तं शारद्वतरथं प्रति । 014
सपुत्रं सहसैन्यं च द्रोणपुत्रो न्यवारयत् ॥ 014
नकुलं सहदेवं च त्वरमाणौ महारथौ । 015
प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन् ॥ 015
भीमसेनं करूषांश्च केकयान्सह सृञ्जयैः । 016
कर्णो वैकर्तनो युद्धे वारयामास भारत ॥ 016
शिखण्डिने ततो बाणान्कृपः शारद्वतो युधि । 017
प्राहिणोत्वरया युक्तो बीभत्सोरथ सन्निधौ ॥ 017
ताञ्छरान्प्रेषितांस्तेन समन्तात्स्वर्णभूषितान् । 018
चिच्छेद खड्गमाविध्य भ्रामयंश्च पुनः पुनः ॥ 018
शतचन्द्रं च तच्चर्म गौतमस्तस्य भारत । 019
व्यधमत्सायकैस्तूर्णं तत उच्चुक्रुशुर्जनाः ॥ 019
स विचर्मा महाराज खङ्गपाणिरुपाद्रवत् । 020
कृपस्तं शरसङ्घातैराद्रवन्तमपीडयत् ॥ 020
शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महाबलः । 021
चित्रकेतुसुतो राजन्सुकेतुस्त्वरितो ययौ ॥ 021
विकिरन्ब्राह्मणं युद्धे बहुभिर्निशितैः शरैः । 022
अभ्यापतदमेयात्मा गौतमस्य रथं प्रति ॥ 022
दृष्ट्वा विषक्तं तं चैव ब्राह्मणं च निवारितम् । 023
अपयातस्ततस्तूर्णं शिखण्डी राजसत्तम ॥ 023
सुकेतुस्तु ततो राजन्गौतमं नवभिः शरैः । 024
विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः ॥ 024
अथास्य सशरं चापं पुनश्चिच्छेद मारिष । 025
सारथिं च शरेणास्य मृशं मर्मस्वताडयत् ॥ 025
गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम् । 026
सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत् ॥ 026
स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे । 027
भूमिकम्पे यथा वृक्षश्चचालाकम्पितो भृशम् ॥ 027
चलतस्तस्य कायात्तुं शिरो ज्वलितकुण्डलम् । 028
सोष्णीषं सशिरस्त्राणं क्षुरप्रेण त्वपातयत् ॥ 028
तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम् । 029
ततोऽस्य कायो वसुधां पश्चात्प्रापतदच्युत ॥ 029
तस्मिन्हते महाराज पुत्रास्तस्य पदानुगाः । 030
गौतमं समरे त्यक्त्वा दुद्रुवुस्ते दिशो दश ॥ 030
धृष्टद्युम्नं तु समरे सन्निवार्य महारथः । 031
कृतवर्माऽब्रवीद्धृष्टस्तिष्ठतिष्ठेति भारत ॥ 031
तदभूत्तुमुलं युद्धं वृष्णिपार्षतयो रणे । 032
आमिषार्थे यथा युद्धं श्येनयोः क्रुद्धयोर्नृप ॥ 032
धृष्टद्युम्नस्तु समरे हार्दिक्यं नवभिः शरैः । 033
आजघानोरसि क्रुद्धः पीडयन्हृदिकात्मजम् ॥ 033
कृतवर्मा तु समरे पार्षतेन दृढाहतः । 034
पार्षतं सरथं साश्वं छादयामास सायकैः ॥ 034
सरथश्छादितो राजन्धृष्टद्युम्नो न दृश्यते । 035
मेघैरिव परिच्छन्नो भास्करो जलधारिभिः ॥ 035
विधूय तं बाणगणं शरैः कनकभूषणैः । 036
व्यरोचत रणे राजन्धृष्टद्युम्नः कृतव्रणः ॥ 036
ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम् । 037
कृतवर्माणमासाद्य व्यसृजत्पृतनापतिः ॥ 037
तामापतन्तीं सहसा शस्त्रवृष्टिं सुदारुणाम् । 038
शरैरनेकसाहस्रैर्हार्दिक्योऽवारयद्युधि ॥ 038
दृष्ट्वा तु वारितां युद्धे शस्त्रवृष्टिं दुरासदाम् । 039
कृतवर्माणमासाद्य वारयामास पार्षतः ॥ 039
'यथा युग्मरथेनाजौ वाहान्वाहेरमिश्रयत् । 040
गृहीत्वा चर्म खड्गं च रथं तस्यावपुप्लुवे ॥ 040
मिलितेष्वथ वाहेषु प्रत्यासन्ने च पार्षते । 041
दृष्ट्वाऽपदानं तस्याशु गदां जग्राह सात्वतः ॥ 041
गदापाणिस्ततो राजन्रथात्तूर्णमवप्लुतः । 042
तमदृष्ट्वा रथोपस्थे सारथिं समताडयत् ॥ 042
खड्गेन शितधारेण स हतः प्रापतद्रथात् । 043
कृतवर्मा ततो हृष्टस्तलशब्दं चकार ह ॥ 043
पार्षतं चाब्रवीद्राजन्नेह्येहीति पुनःपुनः । 044
स तं न ममृषे युद्धे तलशब्दं समीरितम् ॥ 044
अवप्लुत्य रथात्तस्मात्स्वरथं पुनरास्थितः । 045
अभ्ययात्स तु तत्तूर्णं तिष्ठतिष्ठेति चाब्रवीत् ॥ 045
ततो राजन्महेष्वासं कृतवर्माणमाशु वै । 046
गदां गृह्य पुनर्वेगात्कृतवर्माणमाहनत् ॥ 046
सोऽतिविद्धो बलवता न्यपतन्मूर्च्छया हतः । 047
श्रुतर्वा रथमारोप्य अपोवाह रणाजिरात्' ॥ 047
धृष्टद्युम्नस्तु समरे दृष्ट्वा शत्रुं महारथः । 048
कौरवान्समरे तूर्णं वारयामास सायकैः ॥ 048
ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन् । 049
सिंहनादरवांश्चक्रुस्ततो युद्धमवर्तत ॥ ॥ 049

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोनपञ्चाशोऽध्यायः ॥ 49 ॥