अध्यायः 048
अर्जुनस्य संशप्तकैर्युद्धम् ॥ 1 ॥
सञ्जय उवाच । 001
वर्तमाने तथा युद्धे क्षत्रियाणां निमज्जने । 001a
गाण्डीवस्य महाघोषः श्रूयते युधि मारिष ॥ 001c
संशप्तकानामकरोत्कदनं यत्र पाण्डवः । 002a
कोसलानां तथा राजन्नारायणबलस्य च ॥ 002c
संशप्तकास्तु समरे शरवृष्टिः समन्ततः । 003a
अपातयन्पार्थमूर्ध्नि जयगृद्धाः प्रमन्यवः ॥ 003c
तां शस्त्रवृष्टिमायान्तीमुरसा धारयन्प्रभुः । 004a
व्यगाहत परान्पार्थो विनिघ्नन्रथिनां वरान् ॥ 004c
विक्षोभ्य तु रथानीकं कङ्कपत्रैः शिलाशितैः । 005a
आससाद ततः पार्थः सुशर्माणं महारथम् ॥ 005c
स तस्य शरवर्षाणि ववर्ष रथिनां वरः । 006a
तथा संशप्तकाश्चैव पार्थस्य समरे स्थिताः ॥ 006c
सुशर्मा तु ततः पार्थं विद्ध्वा दशभिराशुगैः । 007a
जनार्दनं त्रिभिर्बाणैरहनद्दक्षिणे भुजे ॥ 007c
ततोऽपरेण भल्लेन केतुं पार्थस्य मारिष । 008a
विव्याध समरे राजन्सुशर्मा क्रोधमूर्च्छितः ॥ 008c
स वानरवरो राजन्विश्वकर्मकृतो महान् । 009a
ननाद सुमहानादं नृत्यन्निव विभीषयन् ॥ 009c
कपेस्तु निनदं श्रुत्वा सन्त्रस्ता तव वाहिनी । 010a
भयं विपुलमासाद्य निश्चेष्टा समपद्यत ॥ 010c
ततः सा शुशुभे सेना निश्चेष्टाऽवस्थिता नृप । 011a
नानापुष्पसमाकीर्णं यथा चित्रीकृतं वनम् ॥ 011c
प्रतिलभ्य ततः सञ्ज्ञां योधास्ते कुरुसत्तम । 012a
अर्जुनं सिषिचुर्बाणैः पर्वतं जलदा इव ॥ 012c
सञ्छाद्य समरे पार्थं परिवव्रुः समन्ततः । 013a
ते हयान्रथचक्रे तु रथेषां चापि मारिष । 013c
ग्रहीतुं प्रचक्रमुश्चैव क्रोधाविष्टाः समन्ततः ॥ 013e
निगृह्य तु रथं तस्य योधास्ते तु सहस्रशः । 014a
रथबन्धं प्रचक्रुर्हि पाण्डवस्यामितौजसः ॥ 014c
रथमारुरुहुः केचित्कृष्णपार्थौ जिघृक्षवः । 015a
संशप्तकानां योधास्ते सिंहनादांश्च नेदिरे ॥ 015c
अपरे जगृहुश्चैव केशवस्य महाभुजौ । 016a
पार्थं चैके महाराज रथस्थं जगृहुर्मुदा ॥ 016c
अच्युतः स महाबाहुर्विधुन्वन्रणमूर्धनि । 017a
पातयामास तान्सर्वान्दुष्टहस्तीव हस्तिपान् ॥ 017c
स रथस्तैर्गृहीतस्तु पाण्डवस्य महात्मनः । 018a
स्पन्दितुं नाशकद्राजंस्तदद्भुतमिवाभवत् ॥ 018c
ततः पार्थो महाबाहुः संवृतः स्तैर्महारथैः । 019a
निगृहीतं रथं दृष्ट्वा तांश्चाप्याद्रवतो बहून् ॥ 019c
रथारूढांश्च सुबहून्पदाऽऽक्षिप्य न्यपातयत् । 020a
अपातयदसम्भ्रान्तः शरैरासन्नयोधिभिः ॥ 020c
तांस्तापयित्वा समरे पार्थः परपुरञ्जयः । 021a
स्मयन्निव महाबाहुः केशवं वाक्यमब्रवीत् ॥ 021c
पश्य कृष्ण महाबाहो संशप्तकगणान्बहून् । 022a
कुर्वतोऽसुकरं कर्म मुमूर्षून्कालचोदितान् ॥ 022c
रथबन्धमिमं प्राप्य पृथिव्यां नास्ति कश्चन । 023a
यः सहेत पुमाल्ँलोके मदन्यः क्षत्रियर्षभः ॥ 023c
पश्यैतानद्य समरे मत्प्रयुक्तैः सुतेजनैः । 024a
पात्यमानान्रणे कृष्ण शरैराशीविषोपमैः ॥ 024c
इत्येवमुक्त्वा बीभत्सुः शङ्खप्रवरमुत्तमम् । 025a
व्यनादयदमेयात्मा देवदत्तं महामृधे ॥ 025c
देवदत्तस्वनं श्रुत्वा केशवोऽपि महायशाः । 026a
पाञ्चजन्यस्वनं चक्रे पूरयन्निव रोदसी ॥ 026c
तयोः शङ्खस्वनं श्रुत्वा संशप्तकवरूथिनी । 027a
सञ्चचाल महाराज वित्रस्ता चाद्रवद्भृशम् ॥ 027c
नागमस्त्रं ततः पार्थः प्रादुश्चक्रे हसन्निव । 028a
पादबन्धं स तेषां वै चक्रे तेन महास्त्रवित् ॥ 028c
यानुद्दिश्य रणे पार्थः पादबन्धं चकार ह । 029a
ते बद्धाः पादबन्धेन योधाः संशप्तकास्तदा ॥ 029c
निर्विचेष्टास्तदाऽभूवन्पाण्डवस्यास्त्रतेजसा । 030a
निर्विचेष्टांस्ततो योधानवधीत्पाण्डुनन्दनः । 030c
यथेन्द्रः समरे दैत्यांस्तारकस्य वधे पुरा ॥ 030e
ते वध्यमानाः समरे मुमुचुस्तं रथोत्तमम् । 031a
आयुधानि च सर्वाणि विस्रष्टुमुपचक्रमुः ॥ 031c
ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम् । 032a
सौपर्णमस्त्रं त्वरितः प्रादुश्चक्रे महारथः ॥ 032c
ततः सुपर्णाः सम्पेतुर्भक्षयन्तो भुजङ्गमान् । 033a
ततो विदुद्रुवुर्नागास्तान्दृष्ट्वा खेचरान्नृप ॥ 033c
तद्विमुक्तं बलं रेजे पादबन्धाद्विशाम्पते । 034a
मेघबन्धाद्यथा मुक्तो भास्करस्तापयन्प्रजाः ॥ 034c
विप्रमुक्ताः स्वका योधाः फल्गुनस्य रथं प्रति । 035a
ससृजुः शरसङ्घांश्च शस्त्रसङ्घांश्च मारिष ॥ 035c
तां महास्त्रमयीं वृष्टिं शरैः सञ्छिद्य भारत । 036a
अवधीत्सततो योधान्वासविः परवीरहा ॥ 036c
सुशर्मा तु ततो राजन्बाणेन नतपर्वणा । 037a
अर्जुनं हृदये विद्ध्वा विव्याधान्यैस्त्रिसप्तभिः ॥ 037c
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् । 038a
तत उच्चुक्रुशुः सर्वे हतः पार्थ इति ब्रुवन् ॥ 038c
ततः शङ्खनिनादाश्च भेरीशब्दाश्च पुष्कलाः । 039a
नानावादित्रनिनदाः सिंहनादाश्च जज्ञिरे ॥ 039c
प्रतिलभ्य ततः सञ्ज्ञां श्वेताश्वः कृष्णसारथिः । 040a
सोऽतिविद्धो महेष्वासः शरैराशीविपोपमैः । 040c
सुशर्माणं महाराज क्रोधाविष्टो महारथः ॥ 040e
ततः शरशतैः पार्थः सञ्छाद्यैनं क्षणाद्रणे । 041a
दिशस्तु वारयामास बाणैस्तत्र महास्त्रवित् ॥ 041c
विमुखीकृत्य समरे सुशर्माणं धनञ्जयः । 042a
ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे हसन्निव ॥ 042c
ततो बाणसहस्राणि तदुत्सृष्टानि मारिष । 043a
सर्वदिक्षु व्यदृश्यन्त सूदयन्ति रथद्विपान् ॥ 043c
हयान्पत्तींश्च समरे शस्त्रैः शतसहस्रशः । 044a
रराज समरे राजञ्शक्रो निघ्नन्निवासुरान् ॥ 044c
वध्यमाने ततः सैन्ये भयं सुमहदाविशत् । 045a
संशप्तकगणानां च गोपालानां च भारत ॥ 045c
न हि तत्र पुमान्कश्चिद्योऽर्जुनं प्रतिबुध्यते । 046a
पश्यतां तत्र वीराणामहन्यत बलं तव ॥ 046c
हन्यमानं च तदभून्निश्चेष्टं च पराक्रमे ॥ 047ac
अयुतं तत्र योधानां हत्वा पाण्डुसुतो रणे । 048a
व्यभ्राजत महाराज विधूमोऽग्निरिव ज्वलन् ॥ 048c
चतुर्दशसहस्राणि यानि दृष्टनि भारत । 049a
रथानामयुतं चैव त्रिसहस्राश्च दन्तिनः ॥ 049c
ततः संशप्तका भूयः परिवव्रुर्धनञ्जयम् । 050a
मर्तव्यमिति निश्चित्य जयं वाप्यनिवर्तनम् ॥ 050c
तत्र युद्धं महच्चासीत्तावकानां विशाम्पते । 051a
शूरेण बलिना सार्धं पाण्डवेन किरीटिना । 051c
जित्वा तान्न्यहनत्पार्थः शत्रूञ्शक्र इवासुरान् ॥ ॥ 051e
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥