अध्यायः 047
सङ्कुलयुद्धम् ॥ 1 ॥
सञ्जय उवाच । 001
क्षत्रियास्ते महाराज परस्परवधैषिणः । 001a
अन्योन्यं समरे जघ्नुः कृतवैरा महौजसः ॥ 001c
रथौघाश्च हयौघाश्च नरौघाश्च समन्ततः । 002a
गजौघाश्च महाराज संसक्ताश्च परस्परम् ॥ 002c
गदानां परिघाणां च शक्तीनां च परस्परम् । 003a
प्रासानां भिण्डिपालानां मुसुण्ठीनां च सर्वशः ॥ 003c
सम्पातं चानुपश्याम सङ्ग्रामे भृशदारुणे । 004a
शलभा इव सम्पेतुः शरवृष्ट्यः समन्ततः ॥ 004c
नागान्नागाः समासाद्य व्यधमन्त परस्परम् । 005a
हया हयांश्च समरे रथिनो रथिनस्तथा ॥ 005c
पत्तयः पत्तिसङ्घांश्च हयसङ्घांश्च पत्तयः । 006a
पत्तयो रथमातङ्गान्रथा हस्त्यश्वमेव च । 006c
नागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप ॥ 006e
वध्यतां तत्र शूराणां क्रोशतां च परस्परम् । 007a
घोरमायोधनं जज्ञे पशूनां घातने यथा ॥ 007c
रुधिरेण समास्तीर्णा बभौ भारत मेदिनी । 008a
शक्रगोपगणाकीर्णा प्रावृषीव वसुन्धरा ॥ 008c
यथा वा वाससी शुक्ले महारजनरञ्जिते । 009a
बिभ्रती युवती श्यामा तद्वदासीद्वसुन्धरा ॥ 009c
'बद्धचूडामणिधरैः शिरोभिश्चारुकुण्डलैः । 010a
उज्झितैर्वृषभाक्षाणां भ्राजते स्म वसुन्धरा' ॥ 010c
शशशोणितदिग्धेव शातकुम्भमयीव च । 011a
'भूर्बभौ भरतश्रेष्ठ शान्तार्चिर्भिरिवानलैः ॥' 011c
छिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सह । 012a
कुण्डलानां पिनद्धानां भूषणानां च भारत ॥ 012c
निष्काणां हेमसूत्राणां शरीराणां च धन्विनाम् । 013a
चर्मणां सपताकानां सङ्घास्तत्रापतन्भुवि । 013c
'अगम्यकल्पा पृथिवी सर्वतो भृशकर्दमा' ॥ 013e
गजा गजान्समासाद्य विषाणैरार्दयन्नृप । 014a
विषाणाग्रहतास्तत्र भ्राजन्ते द्विरदोत्तमाः । 014c
रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव । 014e
'प्रावृट्काले महाराज मेघा इव सविद्युतः' ॥ 014g
स्यन्दमाना यथा भान्ति पर्वता धातुमण्डिताः । 015a
'तथा रेजू रणे नागा रुधिरेण समाप्लुताः' ॥ 015c
तोमरान्सादिभिर्मुक्तान्प्रतिमानस्थितान्बहून् । 016a
हस्तैरुद्धृत्य तान्नागा बभञ्जुश्चापरे रणे ॥ 016c
नाराचैश्छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाः । 017a
हिमागमे यथा राजन्व्यभ्रा इव महीधराः ॥ 017c
शरैः कनकपुङ्खैश्च चिता रेर्जुर्गजोत्तमाः । 018a
उल्काभिः सम्प्रदीप्ताग्राः पर्वता इव भारत ॥ 018c
केचिदभ्याहता नागैर्नागा नगवरोपमाः । 019a
न चेलुः समरात्तस्माच्छिन्नपक्षा इवाद्रयः ॥ 019c
अपरे प्राद्रवन्नागाः शरार्ता व्रणपीडिताः । 020a
प्रतिमानैश्च कुम्भैश्च पेतुरुर्व्यां महाहवे ॥ 020c
निषेदुः सिंहवच्चान्ये नदन्तो भैरवान्रवान् । 021a
वेमुश्च बहवो राजंश्चुक्रुशुश्चापरे गजाः ॥ 021c
हयाश्च निहता बाणैर्हेमभाण्डविभूषिताः । 022a
निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश ॥ 022c
अपरे क्लिश्यमानाश्च व्यवेष्टन्त महीतले । 023a
भावान्बहुविधांश्चक्रुस्ताडिताः शरतोमरैः ॥ 023c
नरास्तु निहता भूमौ कूजन्तस्तत्र मारिष । 024a
दृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान् ॥ 024c
धावमानान्परांश्चान्ये दृष्ट्वान्ये तत्र भारत । 025a
ख्यातानि गोत्रनामानि शशंसुरितरेतरम् ॥ 025c
तेषां छिन्ना महाराज भुजाः कनकभूषणाः । 026a
उद्वेष्टन्ते विवेष्टन्ते भ्रमन्ति ह्युत्पतन्ति च ॥ 026c
निपतन्ति तथैवान्ये स्फुरन्ति च सहस्रशः । 027a
वेगांश्चान्ये रमे चक्रुः पञ्चास्या इव पन्नगाः ॥ 027c
ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशाम्पते । 028a
लोहितार्द्रा भृशं रेजुस्तपनीयध्वजा इव ॥ 028c
वर्तमाने तथा घोरे सङ्कुले सर्वतो दिशम् । 029a
अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम् ॥ 029c
भौमेन रजसाकीर्णे शस्त्रसम्पातसङ्कुले । 030a
नैव स्वे न परे राजन्व्यज्ञायन्त तमोवृताः ॥ 030c
तथा तदभवद्युद्धं घोररूपं भयानकम् । 031a
लोहितोदा महानद्यः प्रसस्रुस्तत्र चासकृत् ॥ 031c
शीर्षपाषाणसञ्छन्नाः केशशैवलशाद्वलाः । 032a
अस्थिमीनसमाकीर्णा धनुःशरगदोडुपाः ॥ 032c
मांसशोणितपङ्किन्यो घोररूपाः सुदारुणाः । 033a
नदीः प्रवर्तयामासुः शोणितौघविवर्धिनीः ॥ 033c
भीरुवित्रासकारिण्यः शूराणां हर्षवर्धनाः । 034a
ता नद्यो घोररूपास्तु नयन्त्यो यमसादनम् ॥ 034c
अवगाढान्मज्जयन्त्यः क्षत्रस्याजनयन्भयम् । 035a
क्रव्यादानां नरव्याघ्र नर्दतां तत्रतत्र ह ॥ 035c
घोरमायोधनं जज्ञे प्रेतराजपुरोपमम् । 036a
उत्थितान्यगणेयानि कबन्धानि समन्ततः ॥ 036c
नृत्यन्ति वै भूतगणाः सुतृप्ता मांसशोणितैः । 037a
पीत्वा च शोणितं तत्र वसां भुक्त्वा च भारत ॥ 037c
मेदोमज्जावसामत्तास्तृप्ता मांसस्य चैव ह । 038a
धावमानाः स्म दृश्यन्ते काकगृध्रबकास्तथा ॥ 038c
शूरास्तु समरे राजन्भयं त्यक्त्वा सुदुस्त्यजम् । 039a
योधव्रतसमाख्याताश्चक्रुः कर्माण्यभीतवत् ॥ 039c
शरशक्तिसमाकीर्णे क्रव्यादगणसङ्कुले । 040a
व्यचरन्त रणे शूराः ख्यापयन्तः स्वपौरुषम् ॥ 040c
अन्योन्यं श्रावयन्ति स्म नामगोत्राणि भारत । 041a
पितृनामानि च रणे गोत्रनामानि वा विभो ॥ 041c
श्रावयाणाश्च बहवस्तत्र योधा विशाम्पते । 042a
अन्योन्यमवमृद्नन्तः शक्तितोमरपट्टसैः ॥ 042c
वर्तमाने तथा युद्धे घोररूपे सुदारुणे । 043a
व्यषीदत्कौरवी सेना भिन्ना नौरिव सागरे ॥ ॥ 043c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥
8-47-4 वृष्ट्यः वृष्टयः ॥