अध्यायः 046

भीमकर्णयोर्युद्धम् ॥ 1 ॥ भीमेन दुर्योधनानुजानां कतिपयानां हननम् ॥ 2 ॥ सङ्कुलयुद्धं च ॥ 3 ॥

धृतराष्ट्र उवाच । 001
सुदुष्करमिदं कर्म कृतं भीमेन सञ्जय । 001a
येन कर्णो महाबाहू रथोपस्थे निपातितः ॥ 001c
कर्णो ह्येको रणे हन्ता पाण्डवान्सृञ्जयैः सह । 002a
इति दुर्योधनः सूत प्राब्रवीन्मां मुहुर्मुहुः ॥ 002c
पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे । 003a
ततः परं किमकरोत्पुत्रो दुर्योधनो मम ॥ 003c
सञ्जय उवाच । 004
विमुखं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे । 004a
पुत्रस्तव महाराज सोदर्यानिदमब्रवीत् ॥ 004c
शीघ्रं गच्छत भद्रं वो राधेयं परिरक्षत । 005a
भीमसेनभयेऽगाधे मज्जन्तं व्यसनार्णवे ॥ 005c
ते तु राज्ञा समादिष्टा भीमसेनं जिघांसवः । 006a
अभ्यवर्तन्त सङ्क्रुद्धाः पतङ्गाः पावकं यथा ॥ 006c
श्रुतायुर्दुर्धरः क्राथो विवित्सुर्विकटः समः । 007a
निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ ॥ 007c
दुष्प्रधर्षः सुबाहुश्च वातवेगसुवर्चसौ । 008a
धनुर्ग्राहो दुर्मदश्च जलसन्धः शलः सहः ॥ 008c
एते रथैः परिवृता वीर्यवन्तो महाबलाः । 009a
भीमसेनं समासाद्य समन्तात्पर्यवारयन् ॥ 009c
ते व्यमुञ्चञ्छरव्रातान्नानालिङ्गान्समन्ततः । 010a
स तैरभ्यर्द्यमानस्तु भीमसेनो महाबलः ॥ 010c
तेषामापततां क्षिप्रं सुतानां ते जनाधिप । 011a
रथैः पञ्चशतैः सार्धं पञ्चाशदहनद्रथान् ॥ 011c
विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः । 012a
भीमसेनो महाराज तत्पपात हतं भुवि ॥ 012c
सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तथा । 013a
'अशोभत महाराज पूर्णचन्द्र इवाम्बरे' ॥ 013c
तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतस्तदा । 014a
अभ्यद्रवन्त समरे भीमं भीमपराक्रमम् ॥ 014c
ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे । 015a
जहार समरे प्राणान्भीमो भीमपराक्रमः ॥ 015c
तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ । 016a
विकटश्च सहश्चोभौ देवपुत्रोपमौ नृप ॥ 016c
ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षयम् । 017a
नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि ॥ 017c
हाहाकारस्ततस्तीव्रः सम्बभूव जनेश्वर । 018a
वध्यमानेषु वीरेषु तव पुत्रेषु धन्विषु ॥ 018c
तेषां सुलुलिते सैन्ये पुनर्भीमो महाबलः । 019a
नन्दोपनन्दौ समरे प्रैषयद्यमसादनम् ॥ 019c
ततस्ते प्राद्रवन्भीताः पुत्रास्ते विह्वलीकृताः । 020a
भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम् ॥ 020c
पुत्रांस्ते निहतान्दृष्ट्वा सूतपुत्रः सुदुर्मनाः । 021a
हंसवर्णान्हयान्भूयः प्रैषयद्यत्र पाण्डवः ॥ 021c
ते प्रेषिता महाराज मद्रराजेन वाजिनः । 022a
भीमसेनरथं प्राप्य समसज्जन्त वेगिताः ॥ 022c
स सन्निपातस्तुमुलो घोररूपो विशाम्पते । 023a
आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ॥ 023c
दृष्ट्वा मम महाराज तौ समेतौ महारथौ । 024a
आसीद्बुद्धिः कथं युद्धमेतदद्य भविष्यति ॥ 024c
ततो भीमो रणश्लाघी छादयामास पत्रिभिः । 025a
कर्णं रणे महाराज पुत्राणां तव पश्यताम् ॥ 025c
ततः कर्णो भृशं क्रुद्धो भीमं नवभिरायसैः । 026a
विव्याध परमास्त्रज्ञो भल्लैः सन्नतपर्वभिः ॥ 026c
तान्निहत्य महाबाहुर्भीमो भीमपराक्रमः । 027a
आकर्णपूर्णैर्विशिखैः कर्णं विव्याध सप्तभिः ॥ 027c
ततः कर्णो महाराज आशीविष इव श्वसन् । 028a
शरवर्षेण महता छादयामास पाण्डवम् ॥ 028c
भीमोऽपि ततं शरव्रातैश्छादयित्वा महारथम् । 029a
पश्यतां कौरवेयाणां विननर्द महाबलः ॥ 029c
ततः कर्णो भृशं क्रुद्धो दृढमादाय कार्मुकम् । 030a
भीमं विव्याध दशभिः कङ्कपत्रैः शिलाशितैः । 030c
कार्मुकं चास्य चिच्छेद भल्लेन निशितेन च ॥ 030e
ततो भीमो महाबाहुर्हेमपट्टविभूषितम् । 031a
परिघं घोरमादाय मृत्युदण्डमिवापरम् । 031c
कर्णस्य निधनाकाङ्क्षी चिक्षेपातिबलो नदन् ॥ 031e
तमापतन्तं परिघं वज्राशनिसमस्वनम् । 032a
चिच्छेद बहुधा कर्णः शरैराशीविषोपमैः ॥ 032c
ततः कार्मुकमादाय भीमो दृढतरं तदा । 033a
छादयामास विशिखैः कर्णं परबलार्दनम् ॥ 033c
ततो युद्धमभूद्धोरं कर्णपाण्डवयोर्मृधे । 034a
बलीन्द्रयोरिव मुहुः परस्परवधैषिणोः ॥ 034c
ततः कर्णो महाराज भीमसेनं त्रिभिः शरैः । 035a
आकर्णपूर्णैर्विव्याध दृढमानम्य कार्मुकम् ॥ 035c
सोऽतिविद्धो महेष्वासः कर्णेन बलिनां वरः । 036a
घोरमादत्त विशिखं कर्णकायावदारणम् ॥ 036c
तस्य भित्त्वा तनुत्राणं भित्त्वा कायं च सायकः । 037a
प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः ॥ 037c
स तेनातिप्रहारेण व्यथितो विह्वलन्निव । 038a
सञ्चचाल रथे कर्णः क्षितिकम्पे यथाऽचलः ॥ 038c
ततः कर्णो महाराज रोषामर्षसमन्वितः । 039a
भीमं तं पञ्चविंशत्या नाराचानां समार्पयत् ॥ 039c
चिच्छेद कार्मुकं तूर्णं पाण्डवस्याशु पत्रिणा ॥ 040ac
ततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्धसन्निव । 041a
विरथं भीमकर्माणं भीमं कर्णश्चकार ह ॥ 041c
विरथो भरतश्रेष्ठ प्रहसन्ननिलोपमः । 042a
गदां गृह्य महाबाहुरपतत्स्यन्दनोत्तमात् ॥ 042c
गदया च महाराज कर्णस्य रथकूबरम् । 043a
पोथयामास सङ्क्रुद्धः समरे शत्रुतापनः ॥ 043c
स क्रोधवशमापन्नः पाण्डुपुत्रः प्रतापवान् । 044a
विद्राव्य गदया वीरस्तव पुत्रान्महाहवे ॥ 044c
नागान्सप्तशतान्राजन्नीषादन्तान्प्रहारिणः । 045a
व्यधमत्सहसा भीमः क्रुद्धरूपः परन्तपः ॥ 045c
दन्तवेष्टेषु नेत्रेषु कुम्भेषु च कटेषु च । 046a
मर्मस्वपि च मर्मज्ञस्तान्नागानवधीद्बली ॥ 046c
'अर्दिता भीमसेनेन विनदन्तो भृशातुराः' । 047a
ततस्ते प्राद्रवन्भीताः प्रहताश्च पुनःपुनः । 047c
महामात्रास्तमावव्रुर्मेघा इव दिवाकरम् ॥ 047e
तान्स सप्तशतान्नागान्सारोहायुधकेतनान् । 048a
भूमिष्ठो गदया जघ्ने वज्रेणेन्द्र इवाचलान् ॥ 048c
ततः सुबलपुत्रस्य नागानतिबलान्पुनः । 049a
पोथयामास कौन्तेयो द्विपञ्चाशदरिन्दमः ॥ 049c
तथा रथशतं साग्रं पत्तींश्च शतशोऽपरान् । 050a
न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम् ॥ 050c
प्रताप्यमानं सूर्येण भीमेन च महात्मना । 051a
तव सैन्यं सञ्चुकोच चर्माग्नावाहितं यथा ॥ 051c
ते भीमभयसन्त्रस्तास्तावका भरतर्षभ । 052a
विहाय समरे कर्णं दुद्रुवुर्वै दिशो दश ॥ 052c
रथाः पञ्चशताश्चान्ये ह्रादिनः शरवर्षिणः । 053a
भीममभ्यद्रवन्घ्नन्तः शरपूगैः समन्ततः ॥ 053c
तान्स पञ्चशतान्वीरान्सपताकध्वजायुधान् । 054a
पोथयामास गदया भीमो विष्णुरिवासुरान् ॥ 054c
ततः शकुनिनिर्दिष्टाः सादिनः शूरसम्मताः । 055a
त्रिसाहस्राण्यभिययुः शरशक्त्यृष्टिपाणयः ॥ 055c
तान्प्रत्युद्गम्य यवनान्साश्वारोहांस्तदाऽरिहा । 056a
विविधान्विचरन्मार्गान्गदया समपोथयत् ॥ 056c
तेषामासीन्महाञ्छब्दस्ताडितानां च सर्वशः । 057a
अग्निभिर्दह्यमानानां नलानामिव भारत ॥ 057c
एवं सुबलपुत्रस्य त्रिसाहस्रान्हयोत्तमान् । 058a
हत्वाऽन्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात् ॥ 058c
कर्णोऽपि समरे राजन्धर्मपुत्रमरिन्दमम् । 059a
स शरैश्छादयामास सारथिं चाप्यपातयत् ॥ 059c
ततः स प्रद्रुतं सैन्यं दृष्ट्वा कर्णो महारथः । 060a
अन्वधावत्किरन्बाणैः कङ्कपत्रैरजिह्मगैः ॥ 060c
राजानमभिधावन्तं शरैरावृत्य रोदसी । 061a
क्रुद्धः प्रच्छादयामास शरजालेन मारुतिः ॥ 061c
सन्निवृत्तस्ततस्तूर्णं राधेयः शत्रुकर्शनः । 062a
भीमं प्रच्छादयामास समन्तान्निशितैः शरैः ॥ 062c
भीमसेनरथप्रेप्सुं कर्णं भारत सात्यकिः । 063a
अभ्यर्दयदमेयात्मा पार्ष्णिग्रहणकारणात् ॥ 063c
भीमसेनरथप्रेप्सुं कर्णो भारत सात्यकिम् । 064a
अभ्यवर्तत शैनेयमर्दयञ्छरवृष्टिभिः ॥ 064c
तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम् । 065a
विसृजन्तौ शरान्दीप्तान्विभ्राजेतां मनस्विनौ ॥ 065c
ताभ्यां वियति राजेन्द्र विततं भीमदर्शनम् । 066a
कौञ्चपृष्ठारुणं रौद्रं बाणजालं व्यदृश्यत ॥ 066c
नैव सूर्यप्रभा राजन्न दिशः प्रदिशस्तथा । 067a
प्राज्ञासिष्म वयं ते वा शरैर्मुक्तैः सहस्रशः ॥ 067c
मध्याह्ने तपतो राजन्भास्करस्य महाप्रभाः । 068a
हृताः सर्वाः शरौघैस्तैः कर्णमाधवयोस्तदा ॥ 068c
सौबलं कृतवर्माणं द्रौणिमाधिरथिं कृपम् । 069a
संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः ॥ 069c
तेषामापततां शब्दस्तीव्र आसीद्विशाम्पते । 070a
उद्वृत्तानां यथा वृष्ट्या सागराणां भयावहः ॥ 070c
ते सेने भृशसंसक्ते दृष्ट्वाऽन्योन्यं महाहवे । 071a
हर्षेण महता युक्ते परिगृह्य परस्परम् ॥ 071c
ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे । 072a
यादृशं नैवमस्माभिर्दृष्टपूर्वं न च श्रुतम् ॥ 072c
बलौघस्तु समासाद्य बलौघं सहसा रणे । 073a
उपसर्पत वेगेन वार्योघ इव सागरम् ॥ 073c
आसीन्निनादः सुमहान्बाणौघानां परस्परम् । 074a
गर्जतां सागरौघाणां यथा स्यान्निःस्वनो महान् ॥ 074c
ते तु सेने समासाद्य वेगवत्यौ परस्परम् । 075a
एकीभावमनुप्राप्ते नद्याविव समागमे ॥ 075c
ततः प्रववृते युद्धं घोररूपं विशाम्पते । 076a
कुरूणां पाण्डवानां च लिप्सतां सुमहद्यशः ॥ 076c
शूराणां गर्जतां तत्र ह्यविच्छेदकृता गिरः । 077a
श्रूयन्ते विविधा राजन्नामान्युद्दिश्य भारत ॥ 077c
यस्य यद्धि रणे व्यङ्गं पितृतो मातृतोऽपि वा । 078a
कर्मतः शीलतो वाऽपि स तच्छ्रावयते युधि ॥ 078c
तान्दृष्ट्वा समरे शूरांस्तर्जमानान्परस्परम् । 079a
अभवन्मे मती राजन्नैषामस्तीति जीवितम् ॥ 079c
तेषां दृष्ट्वा तु क्रुद्धानां वपूंष्यमिततेजसाम् । 080a
अभवन्मे भयं तीव्रं कथमेतद्भविष्यति ॥ 080c
ततस्ते पाण्डवा राजन्कौरवाश्च महारथाः । 081a
ततक्षुः सायकैस्तूर्णमन्योन्यं विजयैषिणः ॥ ॥ 081c

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षट्चत्वारिंशोऽध्यायः ॥ 46 ॥