अध्यायः 044
कर्णेन युधिष्ठिरस्य पराजयपूर्वकमपहासः ॥ 1 ॥ सङ्कुलयुद्धम् ॥ 2 ॥
सञ्जय उवाच । 001
विदार्य कर्णस्तां सेनां युधिष्ठिरमथाद्रवत् । 001a
रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः ॥ 001c
नानायुधसहस्राणि प्रेरितान्यरिभिर्वृषः । 002a
छित्त्वा बाणशतैरुग्रैस्तानविध्यदसम्भ्रमात् ॥ 002c
निचकर्त शिरांस्येषां बाहूनूरूंश्च सूतजः ॥ 003a
ते हता भूतले पेतुर्भग्नाश्चान्ये विदुद्रुवुः ॥ 003c
द्रविडान्ध्रनिषादास्तु पुनः सात्यकिचोदिताः । 004a
अभ्यद्रवञ्जिघांसन्तः पत्तयः कर्णमाहवे ॥ 004c
ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः । 005a
पेतुः पृथिव्यां युगपच्छिन्नं सालवनं यथा ॥ 005c
एवं योधशतान्याजौ सहस्राण्ययुतानि च । 006a
हतानीयुर्महीं देहैर्यशसाऽपूरयन्दिशः ॥ 006c
अथ वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम् । 007a
रुरुधुः पाण्डुपाञ्चाला व्याधिं मन्त्रौषधा इव ॥ 007c
स तान्प्रमृद्याभ्यपतत्पुनरेव युधिष्ठिरम् । 008a
मन्त्रौषधिक्रियातीतो व्याधिरत्युल्बणो यथा ॥ 008c
स राजगृद्धिभी रुद्धः पाण्डुपाञ्चालकेकयैः । 009a
नाशकत्तानतिक्रान्तुं मृत्युर्ब्रह्मविदो यथा ॥ 009c
ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम् । 010a
'तैर्योधप्रमुखैर्वीरं दृष्ट्वा विव्याध सायकैः ॥ 010c
कर्णः पार्थशराविद्धस्तोत्रार्दित इव द्विपः । 011a
प्रमथ्य सहितान्वीरान्युधिष्ठिरमपीडयत् ॥ 011c
ततो युधिष्ठिरः कर्णमासाद्य जयतां वरम्' । 012a
अब्रवीत्परवीरघ्नं क्रोधसंरक्तलोचनः ॥ 012c
कर्णकर्ण वृथादृष्टे सूतपुत्र वचः शृणु । 013a
सदा स्पर्धसि सङ्ग्रामे फल्गुनेन तरस्विना ॥ 013c
यथाऽस्मान्बाधसे नित्यं धार्तराष्ट्रमते स्थितः । 014a
यद्बलं यच्च ते वीर्यं प्रद्वेषो यस्तु पाण्डुषु ॥ 014c
तत्सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः । 015a
युद्धश्रद्धं च तेऽद्याहं विनेष्यामि महाहवे ॥ 015c
एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा । 016a
सुवर्णपुङ्खैर्दशभिर्विव्याधायस्मयैः शरैः ॥ 016c
तं सूतपुत्रो दशभिः प्रत्यविद्ध्यदरिन्दमः । 017a
वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत ॥ 017c
सोऽवज्ञाय तु निर्विद्धः सूतपुत्रेण पाण्डवः । 018a
प्रजज्वाल ततः क्रोधाद्धविषेव हुताशनः ॥ 018c
ज्वालामालापरिक्षिप्तो राज्ञो देहो व्यदृश्यत । 019a
युगान्ते दग्धुकामस्य संवर्ताग्नेरिवापरः ॥ 019c
ततो विस्फार्य सुमहच्चापं हेमपरिष्कृतम् । 020a
समाधत्त शितं बाणं गिरीणामपि दारणम् ॥ 020c
ततः पूर्णायतोत्कृष्टं यमदण्डनिभं शरम् । 021a
मुमोच त्वरितो राजा सूतपुत्रजिघांसया ॥ 021c
स तु वेगवता मुक्तो बाणो वज्राशनिस्वनः । 022a
विवेश सहसा कर्णं सव्ये पार्श्वे महारथम् ॥ 022c
स तु तेन प्रहारेण पीडितः प्रमुमोह वै । 023a
स्रस्तगात्रो महाबाहुर्धनुरुत्सृज्य कम्पितः ॥ 023c
गतासुरिव निश्चेताः शल्यस्याभिमुखोऽपतत् । 024a
राजाऽपि भूयो नाजघ्ने कर्णं पार्थहितेप्सया ॥ 024c
ततो हाहाकृतं सर्वं धार्तराष्ट्रबलं महत् । 025a
विवर्णमुखमार्तं च कर्णं दृष्ट्वा तथागतम् ॥ 025c
सिंहनादाश्च सञ्जज्ञुः क्ष्वेलाः किलकिलास्तथा । 026a
पाण्डवानां महाराज दृष्ट्वा राज्ञः पराक्रमम् ॥ 026c
प्रतिलभ्य तु राधेयः सञ्ज्ञां नातिचिरादिव । 027a
दध्रे राजविनाशाय मनः क्रूरपराक्रमः ॥ 027c
स हेमविकृतं चापं विस्फार्य विजयं महत् । 028a
अवाकिरदमेयात्मा पाण्डवं निशितैः शरैः ॥ 028c
ततः क्षुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः । 029a
जघान चन्द्रदेवं च दण्डधारं च संयुगे ॥ 029c
तावुभौ धर्मराजस्य प्रवीरौ युधि भारत । 030a
रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू ॥ 030c
युधिष्ठिरः पुनः कर्णमविदध्यत्त्रिंशता शरैः । 031a
सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत् ॥ 031c
शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम् । 032a
तांस्तस्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः ॥ 032c
ततः प्रहस्याधिरथिः षष्ठ्या राजञ्शितैः शरैः । 033a
विद्ध्वा युधिष्ठिरं सङ्ख्ये ननादातिरथस्तदा ॥ 033c
ततः प्रवीराः पाण्डूनामभ्यधावन्नमर्षिताः । 034a
युधिष्ठिरं परीप्सन्तः कर्णमभ्यर्दयञ्छरैः ॥ 034c
सात्यकिश्चेकितानश्च युयुत्सुः पाण्ड्य एव च । 035a
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ॥ 035c
यमौ च भीमसेनश्च शिशुपालस्य चात्मजः । 036a
कारूशा मात्स्यशेषाश्च केकयाः काशिकोसलाः ॥ 036c
एते च त्वरिता वीरा वसुषेणमताडयन् । 037a
जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः ॥ 037c
वाराहकर्णनाराचैर्नालीकैर्निशितैः शरैः । 038a
वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः ॥ 038c
नानाप्रहरणैश्चोग्रै रथहस्त्यश्वसादिभिः । 039a
सर्वतोऽभ्यद्रवत्कर्णं परिवार्य जिघांसया ॥ 039c
स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः । 040a
छाद्यमानः शिततैर्घोरैः स्वस्वनामाङ्कितैः शरैः ॥ 040c
न चचाल रणे कर्णो महेन्द्रो दानवैरिव । 041a
'निजघान महेष्वासान्पाञ्चालानेकविंशतिम् ॥ 041c
ततः पुनरमेयात्मा चेदीनां प्रवरान्दश । 042a
न्यहनद्भरतश्रेष्ठ कर्णो वैकर्तनस्तदा ॥ 042c
तस्य बाणसहस्राणि सम्प्रपन्नानि मारिष । 043a
दृश्यन्ते दिक्षु सर्वासु शलभानामिव व्रजाः ॥ 043c
कर्णनामाङ्किता बाणाः स्वर्णपुङ्खाः सुतेजनाः । 044a
नराश्वकायान्निर्भिद्य पेतुरुर्व्यां समन्ततः ॥ 044c
कर्णेनैकेन समरे चेदीनां प्रवरास्तदा । 045a
सृञ्जयानां च सर्वेषां शतशो निहता रणे ॥ 045c
कर्णस्य शरसञ्छन्नं बभूव तुमुलं तमः । 046a
नाज्ञायत ततः किञ्चित्परेषामात्मनोऽपि वा ॥ 046c
तस्मिंस्तमसि भूते च क्षत्रियाणां भयङ्करे । 047a
विचचार महाबाहुर्निर्दहन्क्षत्रियान्बहून्' ॥ 047c
ततः शरमहाज्वालो वीर्योष्मा कर्णपावकः । 048a
निर्दहन्पाण्डववनं चारु पर्यचरद्रणे ॥ 048c
'ततस्तेषां महाराज पाण्डवानां महारथाः । 049a
सृञ्जयानां च सर्वेषां शतशोऽथ सहस्रशः । 049c
अस्त्रैः कर्णं महेष्वासं समन्तात्पर्यवारयन् ॥ 049e
स संवार्य महास्त्राणि महेष्वासो महात्मनाम् । 050a
प्रहस्य पुरुषेन्द्रस्य कर्णश्चिच्छेद कार्मुकम्' ॥ 050c
ततः सन्धाय नवतिं निमेषान्नतपर्वणाम् । 051a
बिभेद कवचं राज्ञो रणे कर्णः शितैः शरैः ॥ 051c
तद्वर्म हेमविकृतं रत्नचित्रं बभौ पतत् । 052a
सविद्युदभ्रं सवितुः श्लिष्टं वातहतं यथा ॥ 052c
तदङ्गात्पुरुषेन्द्रस्य भ्रष्टं वर्म व्यरोचत । 053a
रत्नैरलङ्कृतं चित्रैर्व्यभ्रं निशि यथा नभः ॥ 053c
भिन्नवर्मा शरैः पार्थो रुधिरेण समुक्षितः । 054a
बभासे पुरुषश्रेष्ठ उद्यन्निव दिवाकरः ॥ 054c
स शराचितसर्वाङ्गश्छिन्नवर्माऽथ संयुगे । 055a
क्षात्रं धर्मं समास्थाय सिंहनादमकुर्वत ॥ 055c
नर्दित्वा च चिरं कालं पाण्डवो रभसो रणे । 056a
शक्तिं चिक्षेप वेगेन प्रदीप्तामशनीमिव ॥ 056c
तां ज्वलन्तीमिवाकाशे शक्तिं शप्तभिराशुगैः । 057a
भल्लैश्चिच्छेद राधेयः सा त्वशीर्यत वै रणे ॥ 057c
हृदि बाह्वोर्ललाटे च क्षिप्रकारी युधिष्ठिरः । 058a
चतुर्भिस्तोमरैः कर्णं ताडयित्वाऽनदन्मुदा ॥ 058c
उद्भिन्नरुधिरः कर्णः क्रुद्धः सर्प इव श्वसन् । 059a
जघान सूतं पार्थस्य पार्ष्ठिं च नवभिः शरैः ॥ 059c
ध्वजं चिच्छेद नृपतेस्त्रिभिर्विव्याध चैव तम् । 060a
इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत् ॥ 060c
एतस्मिन्नन्तरे शूराः पाण्डवानां महारथाः । 061a
ववृषुः शरवर्षाणि राधेयं प्रति भारत ॥ 061c
सात्यकिः पञ्चविंशत्या शिखण्डी नवभिः शरैः । 062a
अवर्षतां महाराज राधेयं शत्रुकर्शनम् ॥ 062c
शैनेयं तु ततः क्रुद्धः कर्णः पञ्चभिरायसैः । 063a
विव्याध समरे राजंस्त्रिभिश्चान्यैः शिलीमुखैः ॥ 063c
दक्षिणं तु भुजं तस्य त्रिभिः कर्णोऽभ्यविध्यत । 064a
सव्यं षोडशभिर्बाणैर्यन्तारं चास्य सप्तभिः ॥ 064c
अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः । 065a
सूतपुत्रोऽनयत्क्षिप्रं यमस्य सदनं प्रति ॥ 065c
अथापरेण भल्लेन धनुश्छित्त्वा महारथः । 066a
सारथेः सशिरस्त्राणं शिरः कायादपाहरत् ॥ 066c
हताश्वसूते तु रथे स्थितः स शिनिपुङ्गवः । 067a
शक्तिं चिक्षेप कर्णाय वैदूर्यमणिभूषिताम् ॥ 067c
तामापतन्तीं सहसा द्विधा चिच्छेद भारत । 068a
कर्णो वै धन्विनां श्रेष्ठस्तांश्च सर्वानवारयत् ॥ 068c
ततस्तान्निशितैर्बाणैः पाण्डवानां महारथान् । 069a
न्यवारयदमेयात्मा शिक्षया च बलेन च ॥ 069c
अर्दयित्वा शरैस्तांस्तु सिंहः क्षुद्रमृगानिव । 070a
पीडयन्धर्मराजानं शरैः सन्नतपर्वभिः । 070c
अभ्यद्रवत राधेयो धर्मपुत्रं शितैः शरैः ॥ 070e
ततः पार्थो ह्यपासासीद्धताश्वो हतसारथिः । 071a
अशक्नुवन्मुखे स्थातुं ततः कर्णस्य दुर्मनाः ॥ 071c
तमभिद्रुत्य राधेयः पाण्डुपुत्रं युधिष्ठिरम् । 072a
अब्रवीत्प्रहसन्राजन्कुत्सयन्निव पाण्डवम् ॥ 072c
कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः । 073a
प्रजह्यात्समरे शत्रून्प्राणान्रक्ष महाहवे ॥ 073c
न भवान्क्षत्रधर्मेषु कुशलोऽसीति मे मतिः । 074a
ब्राह्मे बले भवान्युक्तः स्वाध्याये यज्ञकर्मणि ॥ 074c
मा स्म युध्यस्व कौन्तेय मा स्म वीरान्समासदः । 075a
मा चैवं विप्रियं ब्रूहि मा च त्वं भज संयुगम् ॥ 075c
वक्तव्या मारिषाऽन्ये तु न वक्तव्यास्तु मादृशाः । 076a
मादृशान्हि ब्रुवन्युद्धे एतदन्यच्च लप्स्यसे ॥ 076c
स्वगृहं गच्छ कौन्तेय यत्र वा केशवार्जुनौ । 077a
न हि त्वां समरे राजन्हन्यात्कर्णः कथञ्चन ॥ 077c
सञ्जय उवाच । 078
वरप्रदानं कुन्त्यास्तु कर्णः स्मृत्वा महारथः । 078a
वधप्राप्तं तु कौन्तेयं नावधीत्पुरुषोत्तमः ॥ 078c
एवमुक्त्वा ततः पार्थं विसृज्य च महाबलः । 079a
न्यहनत्पाण्डवीं सेनां वज्रहस्त इवासुरीम् ॥ 079c
ततोऽपायाद्द्रुतं राजन्व्रीडन्निव नरेश्वरः ॥ 080ac
अथापयातं राजानं मत्वाऽन्वीयुस्तमच्युतम् । 081a
चेदिपाण्डवपाञ्चालाः सात्यकिश्च महारथः । 081c
द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ ॥ 081e
ततो युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम् । 082a
कुरुभिः सहितो वीरः प्रहृष्टः पृष्ठतोऽन्वगात् ॥ 082c
भेरीशङ्खमृदङ्गानां कार्मुकाणां च निःस्वनः । 083a
बभूव धार्तराष्ट्राणां सिंहनादरवस्तथा ॥ 083c
युधिष्ठिरस्तु कौरव्य रथमारुह्य सत्वरम् । 084a
श्रुतकीर्तेर्महाराज दृष्ट्वा तत्कर्णविक्रमम् ॥ 084c
काल्यमानं बलं दृष्ट्वा सूतपुत्रेण मारिष । 085a
स्वान्योधानब्रवीत्क्रुद्धो निघ्नतैतान्किमासत ॥ 085c
ततो राज्ञाऽभ्यनुज्ञाताः पाण्डवानां महारथाः । 086a
भीमसेनमुखाः सर्वे पुत्रांस्ते प्रत्युपाद्रवन् ॥ 086c
अभवत्तुमुलः शब्दो योधानां तत्र भारत । 087a
रथहस्त्यश्वपत्तीनां द्रवतां निनदो महान् । 087c
उद्यतप्रतिविष्टानां शस्त्राणां च ततस्ततः ॥ 087e
आगच्छत प्रहरत क्षिप्रं विपरिधावत । 088a
इति ब्रुवाणा ह्यन्योन्यं जघ्नुर्योधा महारणे ॥ 088c
अभ्रच्छायेव तत्रासीच्छरवृष्टिभिरम्बरे । 089a
समावृतैर्नरवरैर्निघ्नद्भिरितरेतरम् ॥ 089c
विपताकध्वजच्छत्रा व्यश्वसूतरथायुधाः । 090a
व्यङ्गाङ्गावयवाः पेतुः क्षितौ क्षीणाः क्षितीश्वराः । 090c
शिखराणीव शैलानां वज्रभिन्नानि मारिष ॥ 090e
सारोहा निहताः पेतुर्द्विपा भिन्ना महीतले । 091a
छिन्नभिन्नविपर्यस्तवर्मालङ्कारविग्रहाः ॥ 091c
सारोहास्तुरगाः पेतुर्हतवीराः सहस्रशः । 092a
विप्रविद्धायुधाङ्गाश्च द्विरदा रथिभिर्हताः । 092c
प्रतिवीरैश्च सम्मर्दे पत्तिसङ्घाः सहस्रशः ॥ 092e
विशालायतताम्राक्षैः पद्मेन्दुसदृशाननैः । 093a
शिरोभिर्युद्धशौण्डानां सर्वतः संवृता मही ॥ 093c
यथा भुवि तथा व्योम्नि निःस्वनं शुश्रुवुर्जनाः । 094a
विमानेऽप्सरसां सङ्घैर्गीतवादित्रनिःस्वनैः ॥ 094c
हतानभिमुखान्वीरान्वीरैः शतसहस्रशः । 095a
आरोप्यारोप्य गच्छन्ति विमानेष्वप्सरोगणाः ॥ 095c
तद्दृष्ट्वा महदाश्चर्यं प्रत्यक्षं स्वर्गलिप्सया । 096a
प्रहृष्टमनसः शूराः क्षिप्रं जघ्नुः परस्परम् ॥ 096c
रथिनो रथिभिः सार्धं चित्रं युयुधुराहवे । 097a
पत्तयः पत्तिभिर्नागाः सह नागैर्हयैर्हयाः ॥ 097c
एवं प्रवृत्ते सङ्ग्रामे गजवाजिनरक्षये । 098a
सैन्येन रजसा वृत्ते स्वे स्वाञ्जघ्नुः परे परान् ॥ 098c
कचाकचं युद्धमासीद्दन्तादन्ति नखानखि । 099a
मुष्टियुद्धं नियुद्धं च देहपाप्मविनाशनम् ॥ 099c
तथा वर्ततति सङ्ग्रामे गजवाजिनरक्षये । 100a
नराश्वनागदेहेभ्यः प्रसृता लोहितापगा ॥ 100c
गजाश्वनरदेहान्सा व्युवाह पतितान्बहून् । 101a
नराश्वगजसम्बाधे नराश्वगजसादिनाम् ॥ 101c
लोहितोदा महाघोरा मांसशोणितकर्दमा । 102a
नराश्वगजदेहान्वै वहन्ती भीरुभीषणा ॥ 102c
तस्या नद्याः परं पारं व्रजन्ति विजयैषिणः । 103a
नागेन च प्लवन्तो वै निमज्ज्योन्मज्ज्य चापरे ॥ 103c
ते तु लोहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः । 104a
सस्नुस्तस्यां पपुश्चास्रं मम्लुश्च भरतर्षभ ॥ 104c
रथानश्वान्नरान्नागानायुधाभरणानि च । 105a
वर्माणि चाप्यपश्याम पतितानि सहस्रशः । 105c
खं द्यां भूमिं दिशश्चैव प्रायः पश्याम लोहिताः ॥ 105e
लोहितस्य तु गन्धेन स्पर्देन च रसेन च । 106a
रूपेण चातिरक्तेन शब्देन च विसर्पता । 106c
विषादः सुमहानासीत्प्रायः सैन्यस्य भारत ॥ 106e
तत्तु विप्रहतं सैन्यं भीमसेनमुखैस्तव । 107a
भूयः समाद्रवन्वीराः सात्यकिप्रमुखास्तदा ॥ 107c
तेषामापततां वेगमविषह्यं निरीक्ष्य च । 108a
पुत्राणां ते महासैन्यमासीद्राजन्पराङ्मुखम् ॥ 108c
तत्प्रकीर्णरथाश्वेभं नरवाजिसमाकुलम् । 109a
विध्वस्तवर्मकवचं प्रविद्धायुधकार्मुकम् ॥ 109c
व्यद्रवत्तावकं सैन्यं लोड्यमानं समन्ततः । 110a
सिंहार्दितमिवारण्ये यथा गजकुलं तथा ॥ ॥ 110c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चतुश्चत्वारिंशोऽध्यायः ॥ 44 ॥
8-44-8 मन्त्रौषधक्रिया व्याधिर्विधिहीनक्रिया इव इति ख.ट.पाठः ॥ 8-44-19 कचाकचि युद्धं इति झ.पाठः ॥