अध्यायः 043
सङ्कुलयुद्धम् ॥ 1 ॥
धृतराष्ट्र उवाच । 001
युक्तं प्रविश्य पार्थानां सैन्यं कुर्वञ्जनक्षयम् । 001a
कर्णो राजानमभ्येत्य तन्ममाचक्ष्व सञ्जय ॥ 001c
के च प्रवीराः पार्थानां युधि कर्णमवारयन् । 002a
कांश्च प्रमथ्याधिरथिर्युधिष्ठिरमपीडयत् ॥ 002c
सञ्जय उवाच । 003
धृष्टद्युम्नमुखान्पार्थान्दृष्ट्वा कर्णो व्यवस्थितान् । 003a
समभ्यधावत्त्वरितः पाञ्चालाञ्छत्रुकर्शनः ॥ 003c
तं तूर्णमभिधावन्तं पाञ्चाला जितकाशिनः । 004a
प्रत्युद्ययुर्महात्मानं हंसाः सर इवोष्णगे ॥ 004c
ततः शङ्खसहस्राणां निःस्वनो हृदयङ्गमः । 005a
प्रादुरासीदुभयतो भेरीशब्दश्च दारुणः ॥ 005c
नानाबाणनिनादश्च द्विपाश्वरथनिःस्वनः । 006a
सिंहनादश्च वीराणामभवद्दारुणस्तदा ॥ 006c
साद्रिद्रुमार्णवा भूमिः सवाताम्बुदमम्बरम् । 007a
सार्केन्दुग्रहनक्षत्रा द्यौश्च व्यक्तं विघूर्णिता ॥ 007c
इति भूतानि तं शब्दं मेनिरे ते च विव्यथुः । 008a
यानि चाप्यल्पसत्वानि प्रायस्तानि मृतानि वै ॥ 008c
अथ कर्णो भृशं क्रुद्धः शीघ्रमस्त्रमुदीरयन् । 009a
जघान पाण्डवीं सेनामासुरीं मघवानिव ॥ 009c
स पाण्डवबलं कर्णः प्रविश्य विसृजञ्छरान् । 010a
प्रभद्रकाणां प्रवरानहनत्सप्तसप्ततिम् ॥ 010c
ततः सुपुङ्खैर्निशितैरथ श्रष्ठो रथेषुभिः । 011a
अवधीत्पञ्चविंशत्या पाञ्चालान्पञ्चविंशतिम् ॥ 011c
सुवर्णपुङ्खैर्नाराचैः परकायविदारणैः । 012a
चेदिकानवधीद्वीरः शतशोऽथ सहस्रशः ॥ 012c
तं तथा समरे कर्म कुर्वाणमतिमानुषम् । 013a
परिवव्रुर्महाराज पाञ्चालानां रथव्रजाः ॥ 013c
ततः सन्धाय विशिखान्पञ्च भारत दुःसहान् । 014a
पाञ्चालानवधीत्पञ्च कर्णो वैकर्तनो वृषः ॥ 014c
भानुदेवं चित्रसेनं सेनाबिन्दुं च भारत । 015a
तपनं शूरसेनं च पाञ्चालानहनद्रणे ॥ 015c
पाञ्चालेषु च शूरेषु वध्यमानेषु सायकैः । 016a
हाहाकारो महानासीत्पाञ्चालानां महाहवे ॥ 016c
तेषां सङ्क्रीडमानानां हाहाकारं प्रकुर्वताम् । 017a
पुनरेव च तान्कर्णो जघानाशु पतत्त्रिभिः ॥ 017c
चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ । 018a
सुषेणः सत्यसेनश्च त्यक्त्वा प्राणानयुध्यताम् ॥ 018c
पृष्ठगोप्ता तु कर्णस्य ज्येष्ठः पुत्रो महारथः । 019a
वृषसेनोऽन्वयात्कर्णं पृष्ठतः परिपालयन् ॥ 019c
धृष्टद्युम्नः सात्यकिश्च द्रौपदेया वृकोदरः । 020a
जनमेजयः शिखण्डी च प्रवीराश्च प्रभद्रकाः ॥ 020c
चेदिकेकयपाञ्चाला यमौ मात्स्याश्च दंशिताः । 021a
समभ्यधावन्राधेयं जिघांसन्तः प्रहारिणम् ॥ 021c
त एनं विविधैः शस्त्रैः शरधाराभिरेव च । 022a
अभ्यवर्षन्विमर्दन्तं प्रावृषीवाम्बुदा गिरिम् ॥ 022c
पितरं तु परीप्सन्तः कर्णपुत्राः प्रहारिणः । 023a
त्वदीयाश्चापरे राजन्वीरा वीरानवारयन् ॥ 023c
सुषेणो भीमसेनस्य च्छित्त्वा भल्लेन कार्मुकम् । 024a
नाराचैः सप्तबिर्विद्ध्वा हृदि भीमं ननाद ह ॥ 024c
अथान्यद्वनुरादाय सुदृढं भीमविक्रमः । 025a
सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद्धनुः ॥ 025c
विव्याध चैनं दशभिः क्रुद्धो नृत्यन्निवेषुभिः । 026a
कर्णं च तूर्णं विव्याध त्रिसप्तत्या शितैः शरैः ॥ 026c
सत्यसेनं च दशभिः साश्वसूतायुधध्वजम् । 027a
पश्यतां सुहृदां मध्ये कर्णपुत्रमपातयत् ॥ 027c
क्षुरप्रणुन्नं तत्तस्य शिरश्चन्द्रनिभाननम् । 028a
शुभदर्शनमेवासीन्नालभ्रष्टमिवाम्बुजम् ॥ 028c
हत्वा कर्णसुतं भीमस्तावकान्पुनरार्दयत् । 029a
कृपहार्दिक्ययोश्छित्त्वा चापौ तावप्यथार्दयत् ॥ 029c
दुःशासनं त्रिभिर्विद्ध्वा शकुनिं षड्भिरायसैः । 030a
उलूकं च पतत्रिं च चकार विरथावुभौ ॥ 030c
हे सुषेण हतोऽसीति ब्रुवन्नादत्त सायकम् । 031a
तमस्य कर्णश्चिच्छेद त्रिभिश्चैनमताडयत् ॥ 031c
अथान्यं परिजग्राह सुपर्वाणं सुतेजनम् । 032a
सुषेणायासृजद्भीमस्तमप्यस्याच्छिनद्वृषः ॥ 032c
पुनः कर्णस्त्रिसप्तत्या भीमसेनमथेषुभिः । 033a
पुत्रं परीप्सन्विव्याध क्रुद्धः शत्रुजिघांसया ॥ 033c
सुषेणस्तु धनुर्गृह्य भारसाधनमुत्तमम् । 034a
नकुलम्पञ्चभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ 034c
नकुलस्तं तु विंशत्या विद्व्वा भारसहैर्दृढैः । 035a
ननाद बलवन्नादं कर्णस्य भयमादधत् ॥ 035c
तं सुषेणो महाराज विद्ध्वा दशभिराशुगैः । 036a
चिच्छेद च धनुः शीघ्रं क्षुरप्रेण महारथः ॥ 036c
अथान्यद्धनुरादाय नकुलः क्रोधमूर्च्छितः । 037a
सुषेणं नवभिर्बाणैर्वारयामास संयुगे ॥ 037c
स तु बाणैर्दिशो राजन्नाच्छाद्य परवीरहा ॥ 038a
आजघ्ने सारथिं चास्य सुषेणं च ततस्त्रिभिः । 038c
चिच्छेद चास्य सुदृढं धनुर्भल्लैस्त्रिभिस्त्रिधा ॥ 038e
अथान्यद्धनुरादाय सुषेणः क्रोधमूर्च्छितः । 039a
आविध्यन्नकुलं षष्ट्या सहदेवं च सप्तभिः ॥ 039c
तद्युद्धं सुमहद्धोरमासीद्देवासुरोपमम् । 040a
निघ्नतां सायकैस्तूर्णमन्योन्यस्य वधं प्रति ॥ 040c
सात्यकिर्वृषसेनं तु विद्ध्वा सप्तभिरायसैः । 041a
'पुनर्विव्याध सप्तत्या सारथिं च त्रिभिः शितैः ॥ 041c
वृषसेनस्तु शैनेयं शरेणानतपर्वणा । 042a
आजघान महाराज शङ्खदेशे महारथम् ॥ 042c
शैनेयो वृषसेनेन पत्रिणा परिपीडितः । 043a
कोपं चक्रे महाराज क्रुद्धो वेगं च दारुणम् ॥ 043c
जग्राहेषुवरान्वीरः शीघ्रं वै दश पञ्च च । 044a
सात्यकिर्वृषसेनस्य सूतं हत्वा त्रिभिः शरैः' ॥ 044c
धनुश्चिच्छेद भल्लेन जघानाश्वांश्च सप्तभिः । 045a
ध्वजमेकेषुणोन्मथ्य त्रिभिश्तं हृद्यताडयत् ॥ 045c
अथावसन्नः स्वरथे मुहूर्तात्पुनरुत्थितः । 046a
स रणे युयुधानेन विसूताश्वरथध्वजः । 046c
कृतो जिघांसुः शैनेयं खड्गचर्मधृगभ्ययात् ॥ 046e
तस्य चापततः शीघ्रं वृषसेनस्य सात्यकिः । 047a
वाराहकर्णैर्दशभिरविध्यदसिचर्मणी ॥ 047c
दुःशासनस्तु तं दृष्ट्वा विरथं व्यायुधं कृतम् । 048a
आरोप्य स्वरथं तूर्णमपोवाह रथान्तरम् ॥ 048c
अथान्यं रथमास्थाय वृषसेनो महारथः । 049a
द्रौपदेयांस्त्रिसप्तत्या युयुधानं च पञ्चभिः ॥ 049c
भीमसेनं चतुःषष्ट्या सहदेवं च पञ्चभिः । 050a
नकुलं त्रिंशता बाणैः शतानीकं च सप्तभिः ॥ 050c
शिखण्डिनं च दशभिर्धर्मराजं शतेन च । 051a
एतांश्चान्यांश्च राजेन्द्र प्रवीराञ्चयगृद्धिनः ॥ 051c
अभ्यर्दयन्महेष्वासः कर्णपुत्रो विशाम्पते । 052a
कर्णस्य युधि दुर्धर्षस्ततः पृष्ठमपालयत् ॥ 052c
युयुधानं च राधेयो नवैर्नवभिरायसैः । 053a
विसूताश्वरथं कृत्वा ललाटे त्रिभिरार्पयत् ॥ 053c
स त्वन्यं रथमास्थाय विधिवत्कल्पितं पुनः । 054a
युयुधे पाण्डुभिः सार्धं कर्णस्य व्यधमद्बलम् ॥ 054c
धृष्टद्युम्नस्ततः कर्णमविध्यद्दशभिः शरैः । 055a
द्रौपदेयास्त्रिसप्तत्या युयुधानस्तु सप्तभिः ॥ 055c
भीमसेनश्चतुःषष्ट्या सहदेवश्च सप्तिभिः । 056a
नकुलस्त्रिंशता बाणैः शतानीकस्तु सप्तभिः ॥ 056c
शिखण्डी दशभिर्वीरो धर्मराजः शतेन तु । 057a
एते चान्ये च राजेन्द्र प्रवीरा जयगृद्धिनः । 057c
अभ्यर्दयन्महेष्वासं सूतपुत्रं महामृधे ॥ 057e
तान्सूतपुत्रो विशिखैर्दशभिर्दशभिः शरैः । 058a
रथेनानुचरन्वीरः प्रत्यविध्यदरिन्दमः । 058c
'सात्यकिं भीमसेनं च धृष्टद्युम्नं शिखण्डिनम् । 059a
द्रौपदेयांश्च संरब्धान्यतमानान्महारथान् ॥ 059c
पश्यतां सर्वसैन्यानामथैनान्सूतनन्दनः । 060a
विरथान्रथिनः श्रेष्ठान्निमेषार्धाच्चकार ह ॥ 060c
अमोघत्वाच्च बाणानां भूतसङ्घा विसिष्मयुः' ॥ 061ac
तत्रास्त्रवीर्यं कर्णस्य लाघवं च महात्मनः । 062a
अपश्याम महाभाग तदद्भुतमिवाभवत् ॥ 062c
न ह्याददानं ददृशुः सन्दधानं च सायकान् । 063a
विमुञ्चन्तं च संरम्भादपश्यन्नैव तं जनाः ॥ 063c
प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात् । 064a
न च पश्याम राजेन्द्र क्व नु कर्णो व्यतिष्ठत ॥ 064c
इषूनेवास्य पश्यामो विनिकीर्णाऽन्समन्ततः । 065a
छादयानान्दिशो राजञ्शलभानामिव व्रजान् ॥ 065c
तस्य तैरिषुभिस्त्रीक्ष्णैः सम्पतद्भिः सहस्रशः । 066a
मरीचिभिरिवोष्णांशोः शरैः सन्नतपर्वभिः ॥ 066c
व्याप्ताः सर्वा दिशो राजन्योधाश्च ददृशुस्तदा । 067a
शरैः संवृतमाकाशं तत्राभ्रैरिव चाभवत् ॥ 067c
द्यौर्वियद्भूर्दिशश्चैव प्रच्छन्ना निशितैः शरैः । 068a
अरुणाभ्रावृताकारं तस्मिन्देशे बभौ वियत् ॥ 068c
ततः पुनरमेयात्मा कर्णो राजा महारथः । 069a
न्यहनत्समरे योधान्योधवृत्तमनुष्ठितः ॥ 069c
नृत्यन्निव हि राधेयश्चापहस्तो रणाजिरे । 070a
यैर्विद्धः प्रत्यविद्ध्यत्तानेकैकं त्रिगुणैः शरैः ॥ 070c
शतैश्च दशभिश्चैतान्पुनर्विद्ध्वा ननाद च । 071a
साश्वसूतध्वजच्छत्रास्ततस्ते विवरं ददुः ॥ 071c
'ते हन्यमानाः कर्णेन पलायन्त दिशो दश । 072a
नादयन्तो दिशः सर्वाः कर्मत्रस्ता विचेतसः' ॥ 072c
तान्प्रमथ्य महेष्वासान्राधेयः शरवृष्टिभिः । 073a
राजानीकमसम्बाधं प्राविशच्छत्रुकर्शनः ॥ 073c
स रथांस्त्रिशतं हत्वा चेदीनामनिवर्तिनाम् । 074a
राधेयो निशितैर्बाणैस्ततोऽभ्यागाद्युधिष्ठिरम् ॥ 074c
'ततस्ते विरथाः शूरा रथानन्यान्समास्थिताः । 075a
परिवव्रुर्महाराज धर्मपुत्रं युधिष्ठिरम्' ॥ 075c
ततस्ते तु परे राजञ्छिखण्डी च ससात्यकिः । 076a
राधेयात्परिरक्षन्तो राजानं पर्यवारयन् । 076c
मुञ्चन्तो विविधान्बाणान्स्वर्णपुङ्खाञ्शिलाशितान् ॥ 076e
तथैव तावकाः सर्वे कर्णं दुर्वारणं रणे । 077a
यत्ताः शूरा महेष्वासाः पर्यरक्षन्त सर्वशः ॥ 077c
नानावादित्रघोषाश्च प्रादुरासन्विशाम्पते । 078a
सिंहनादश्च सञ्जज्ञे शूराणामभिगर्जताम् ॥ 078c
ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः । 079a
युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम् ॥ ॥ 079c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥
8-43-1 अभ्येत्य यदकरोत्तन्ममाचक्ष्वेत्यन्वयः ॥ 8-43-22 विमर्दन्तं विमृद्रन्तम् ॥ 8-43-71 विवरं अन्तरं ददुः प्रसृता इत्यर्थः ॥