अध्यायः 042
सङ्कुलयुद्धम् ॥ 1 ॥
धृतराष्ट्र उवाच । 001
तथा व्यूढेष्वनीकेषु संसक्तेषु च सञ्जय । 001a
संशप्तकाः कथं पार्थं कथं कर्णं च पाण्डवाः ॥ 001c
एतद्विस्तरशो युद्धं प्रब्रूहि कुशलो ह्यसि । 002a
न हि तृप्यामि वीराणां शृण्वानो युधि विक्रमम् ॥ 002c
सञ्जय उवाच । 003
तत्संस्थिमथो दृष्ट्वा प्रत्यमित्रं महद्बलम् । 003a
प्रत्यव्यूहत्ततः कर्णो हितार्थं तनयस्य ते ॥ 003c
तत्सादिनागकलिलं पदातिरथसङ्कुलम् । 004a
धृष्टद्युम्नमुखं घोरमशोभत महद्बलम् ॥ 004c
पारावतसवर्णाश्वश्चन्द्रसूर्यसमद्युतिः । 005a
स पार्षतो बभौ धन्वी कालो विग्रहवानिव ॥ 005c
पार्षतं त्वभितस्तस्थुर्द्रौपदेया युयुत्सवः । 006a
सानुगा दीप्तवपुषश्चन्द्रं तारागणा इव ॥ 006c
अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे । 007a
क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः ॥ 007c
अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः । 008a
विजये धृतसङ्कल्पा मृत्युं कृत्वानिवर्तनम् ॥ 008c
तदश्वसङ्घबहुलं पत्तिनागरथाकुलम् । 009a
उदीर्यमाणं संरब्धं धनञ्जयमभिद्रवत् ॥ 009c
तदुद्यतं महत्सैन्यं सागरौघसमं जवे । 010a
पार्थवेलां समासाद्य विष्ठितं समदृश्यत ॥ 010c
मृद्गन्तं शरवर्षौघैर्द्रुतमर्जुनमार्दयत् ॥ 011ac
स सम्प्रहारस्तुमुलस्तेषामासीत्किरीटिना । 012a
तस्यैव तु यथा राजन्निवातकवचैः सह ॥ 012c
रथानश्वान्ध्वजान्नागान्पत्तीन्गजगतानपि । 013a
इषून्धनूंषि खड्गांश्च चक्राणि च परश्वथान् ॥ 013c
सायुधानुद्यतान्बाहून्विविधान्यायुधानि च । 014a
चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः ॥ 014c
तस्मिन्सैन्यमहावर्ते पातालतलसन्निभे । 015a
निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा ॥ 015c
स पुरस्तादरीन्हत्वा पुनरुत्तरतोऽवधीत् । 016a
दक्षिणेन च पश्चाच्च क्रुद्धो रुद्रः पशूनिव ॥ 016c
अथ पाञ्चालचेदीनां सृञ्जयानां च मारिष । 017a
त्वदीयैः सह सङ्ग्राम आसीत्परमदारुणः ॥ 017c
कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः । 018a
हृष्टसेनाः सुसंरब्धा रथानीकप्रहारिणः ॥ 018c
कोसलैः काश्यमत्स्यैश्च कारूशैः केकयैरपि । 019a
शूरसेनैः शूरवरैर्युयुधुर्युद्धदुर्मदाः ॥ 019c
तेषामन्तकरं युद्धं देहपाप्मविनाशनम् । 020a
क्षत्रविट्शूद्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम् ॥ 020c
दुर्योधनोऽथ सहितो भ्रातृभिर्भरतर्षभ । 021a
गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः ॥ 021c
पाण्डवैः सह पाञ्चालैश्चेदिभिः सात्यकेन च । 022a
युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत् ॥ 022c
कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम् । 023a
प्रमृद्य च रथश्रेष्ठान्युधिष्ठिरमपीडयत् ॥ 023c
विपत्रायुधदेहासून्कृत्वा शत्रून्सहस्रशः । 024a
युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत् ॥ 024c
तद्विगाह्य महानीकं सूतपुत्रो महारथः । 025a
नदीं प्रवर्तयामास शोणितौघतरङ्गिणीम् ॥ 025c
शोणितोदां क्षुण्णमत्स्थां नागनक्रदुरत्ययाम् । 026a
मांसमज्जाकर्दमिनीं चक्रकूर्ममहोडुपाम् ॥ 026c
पातितैर्मेघसङ्काशैस्तत्रतत्र महाद्विपैः । 027a
अशनीभिरिव ध्वस्ता नदी राजन्विराजते ॥ 027c
तां शरोर्मिमहावर्तां छत्रहंससमाकुलाम् । 028a
तनुत्रोष्णीषसङ्घाटामस्थिपाषाणसङ्कुलाम् ॥ 028c
अपारामनपारां च शङ्खदुन्दुभिघोषिणीम् । 029a
रौद्रां नदीं महाराज रजसा सर्वतोवृताम् ॥ 029c
अतितीक्ष्णां नराकीर्णां नदीमन्तकगामिनीम् । 030a
समं च विषमं चैव समायान्तीं महाभयाम् ॥ 030c
आकुलाश्चात्र सीदन्ति नराः शोणितकर्दमे । 031a
नरैरभिपरिक्षिप्ता यथा राजन्महाद्रुमाः ॥ 031c
ततस्ते तत्रतत्रैव प्रचरन्तो महानदीम् । 032a
विचेरुः सर्वतो योधा नौवारणमहारथैः ॥ 032c
शोणितेन समं राजन्कृतमासीत्समन्ततः । 033a
नदीवेगैर्यथा भूमिस्तद्वदासीद्विशाम्पते ॥ 033c
एवं भारत सङ्ग्रामो नरवाजिगजक्षयः । 034a
कुरूणां सृञ्जयानां च देवासुरसमोऽभवत् ॥ ॥ 034c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्विचत्वारिंशोऽध्यायः ॥ 42 ॥
8-42-20 क्षत्रविट्शूद्रवीराणामित्यनेन ब्राह्मणादृते युद्धं सर्वेषां श्रेयस्करमित्यर्थः ॥ 8-42-24 युक्त्वा योजयित्वा ॥