अध्यायः 040
दुर्योधनेन सेनाप्रोत्साहनम् ॥ 1 ॥ भीमेन दुर्योधनपराजयपूर्वकं गजानीकवधः ॥ 2 ॥
सञ्जय उवाच । 001
दुर्योधनस्ततः कर्णमुपेत्य भरतर्षभ । 001a
अब्रवीन्मद्रराजं च तथैवान्यान्महारथान् ॥ 001c
यदृच्छयाऽयमव्यग्रो धर्मः परमकः सखा । 002a
सुखिनः क्षत्रियाः कर्ण लभन्ते युद्धमीदृशम् ॥ 002c
यादृशं क्षत्रियैः शूरैः शूराणां दीव्यतां युधि । 003a
इष्टं भवति राधेय तदिदं समुपस्थितम् ॥ 003c
हत्वा तु पाण्डवान्युद्धे स्थिरामुर्वीं प्रशासथ । 004a
निहता वा परैर्युद्धे वीरलोकानवाप्स्यथ ॥ 004c
दुर्योधनस्य वचनं श्रुत्वा तत्क्षत्रियर्षभाः । 005a
सिंहनादानुदक्रोशन्वादित्राणि च जघ्निरे ॥ 005c
तस्मिन्प्रमुदिते सैन्ये त्वदीये भरतर्षभ । 006a
हर्षयंस्तावकान्योधान्द्रौणिर्वचनमब्रवीत् ॥ 006c
प्रत्यक्षं सर्वसैन्यानां भवतां चापि पश्यताम् । 007a
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥ 007c
स तेनाहममर्षेण पित्रर्थे चापि भारत । 008a
धृष्टद्युम्नमहत्वाऽहं न विमोक्ष्यामि दंशनम् ॥ 008c
कृत्वाऽनृतां प्रतिज्ञां वो नास्मि प्राप्ता महत्फलम् । 009a
अर्जुनं भीमसेनं च यश्च मां प्रतियोत्स्यति । 009c
सर्वांस्तान्प्रमथिष्यामि इति मे निश्चिता मतिः ॥ 009e
सञ्जय उवाच । 010
एवमुक्ते ततः सर्वा हर्षिता भारती चमूः । 010a
अभ्यवर्तत कौन्तेयांस्तथा तां चापि पाण्डवाः ॥ 010c
स सन्निपातो रथयूथपानां महाहवे भारत लोभनीये । 011a
जनक्षयः कालयुगान्तकल्पः प्रावर्तताग्रे कुरुसृञ्जयानाम् ॥ 011c
ततः प्रवृत्ते युधि सम्प्रहारे भूतानि सर्वाणि सदैवतानि । 012a
आसन्समेतानि सहाप्सरोभिर्निरीक्षतीभिर्युधि वीरसङ्घान् ॥ 012c
दिव्यैश्च गन्धैः परमैश्च पुष्पैरन्यैश्च रत्नैर्विविधैर्नराग्र्याः । 013a
रणेषु कर्मोद्वहताः प्रहृष्टाननन्दयन्नप्सरसः प्रहृष्टाः ॥ 013c
समीरणस्तांस्तु निषेव्य गन्धान्निषेवते तानपि योधमुख्यान् । 014a
निषेव्यमाणास्त्वनिलेन योधाः परस्परं चुक्रुशुराजिमध्ये ॥ 014c
तथा तु तस्मिंस्तुमुले प्रवृत्ते दुर्योधनः क्रोधममृष्यमाणः । 015a
'अवेक्ष्य भीमं बलमध्यसंस्थः समार्पयत्क्षुद्रकाणां शतेन ॥ 015c
दुःशासनश्चित्रसेनश्च वीरस्तथोलूकः कितवः सौबलश्च । 016a
गजानीकैः सर्वतो भीमसेनं तथाविषक्तं सहसैवाभ्यगच्छन् ॥ 016c
तमापतन्तं सम्प्रेक्ष्य गजानीकं वृकोदरः । 017a
दुर्योधनं महाबाहुः शरवर्षैरवाकिरत् ॥ 017c
दुर्योधनं ततो भीमः सायकैर्वज्रसन्निभैः । 018a
पाण्डवो विमुखीकृत्य गजानभ्यद्रवद्बली ॥ 018c
ततः पावकसङ्काशैर्भीमबाणैरवक्रगैः । 019a
शलभैरिव नागांस्तानर्दयामास पाण्डवः ॥ 019c
ततः कुञ्जरयूथानि भीमसेनो महाबलः । 020a
व्यधमन्निशितैर्बाणैर्महावातो घनानिव ॥ 020c
नित्यमत्ताश्च मातङ्गाः शूरैर्मत्तैरधिष्ठिताः । 021a
आरोहकैर्महामात्रैस्तोमराङ्कुशपाणिभिः ॥ 021c
सुवर्णजालैः प्रच्छन्ना मणिजालैश्च कुञ्जराः । 022a
रूप्यजाम्बूनदाभासः क्षुरमालाभ्यलङ्कृताः ॥ 022c
वध्यमानाः शरै राजन्भीमसेनेन ते गजाः । 023a
विभिन्नहृदयाः केचित्तत्रैवाभ्यपतन्भुवि ॥ 023c
निपतद्भिर्महावेगैर्हेमभाण्डविभूषितैः । 024a
अशोभत महाराज धातुचित्रैरिवाचलैः ॥ 024c
दीप्ताभरणवद्भिश्च गजपृष्ठनिपातितैः । 025a
सङ्गरः शुशुभे राजन्क्षीणपुण्यैरिवामरैः ॥ 025c
महापरिघसङ्काशौ चन्दनागरुरूषितौ । 026a
अपश्यं भीमसेनस्य धनुर्विक्षिपतो भुजौ ॥ 026c
तस्य ज्यातलनिर्घोषमस्यतः सव्यदक्षिणम् । 027a
तं श्रुत्वाऽभ्यद्रवन्नागा भीमसेनभयार्दिताः ॥ 027c
तस्य भीमस्य तत्कर्म राजन्नेकस्य धीमतः । 028a
अपश्याम महाराज तद्भूतमिवाभवत्' ॥ ॥ 028c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चत्वारिंशोऽध्यायः ॥ 40 ॥