अध्यायः 039

शल्यकर्णयोः संवादः ॥ 1 ॥ सेनाद्वयस्य परस्परमेलनम् ॥ 2 ॥

सञ्जय उवाच । 001
ततः परानीकभिदं व्यूहमप्रतिमं कृतम् । 001a
समीक्ष्य कर्णः पार्थानां धृष्टधुम्नाभिरक्षितम् ॥ 001c
प्रययौ रथघोषेण सिंहनादरवेण च । 002a
वादित्राणां च निनदैः कम्पयन्निव मेदिनीम् ॥ 002c
सञ्जय उवाच । 003
ततः प्रयान्तं राधेयं मद्रराजः स्मयन्निव । 003a
अवधूय इदं वाक्यमब्रवीत्कुरुसन्निधौ ॥ 003c
चमूं तवेमां विपुलां समृद्धामसङ्ख्येयामश्वनराकुलां च । 004a
तथा प्रवेष्टा समरे धनञ्जयः कक्षं दहन्दीप्त इवाश्रयाशी ॥ 004c
रथे स्तितौ वीरवरौ वरेण्यौ सिंहस्कन्धौ लोहितपद्मनेत्रौ । 005a
द्रष्टा भवानद्य विना प्रयत्ना त्तथाहि मे शकुना वेदयन्ति ॥ 005c
अद्य द्रष्टाऽसि तं वीरं श्वेताश्वं कृष्णसारथिम् । 006a
निघ्नन्तं शात्रवान्सङ्ख्ये यं कर्ण परिपृच्छसि ॥ 006c
अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परन्तपौ । 007a
वासुदेवार्जुनौ कर्ण द्रष्टाऽस्यमितविक्रमौ ॥ 007c
सारथिर्यस्य गोविन्दो गाण्डीवं यस्य कार्मुकम् । 008a
तं चेद्धन्ताऽसि राधेय त्वं नो राजा भविष्यसि ॥ 008c
प्रवात्येष महावायुरभितस्तव वाहिनीम् । 009a
क्रव्यादा व्याहरन्त्येते मृगाः कुर्वन्ति भैरवम् ॥ 009c
पश्य कर्ण महाघोरं भयं वै रोमहर्षणम् । 010a
अर्कं जीमूतसङ्काशः कबन्धो वार्य तिष्ठति ॥ 010c
पश्य यूथं मृगशतं मृगाणां सर्वतोदिशम् । 011a
ररास दीप्तलाङ्गूलमादित्यामभि संस्थितम् ॥ 011c
पश्य काकांश्च गृध्रांश्च समवेतान्सहस्रशः । 012a
आदित्यमभिवीक्षन्ते ह्यशिवाः कर्ण सस्वराः ॥ 012c
श्वेतवाजिसमायुक्ते तव कर्ण महारथे । 013a
पताकाः प्रज्वलन्त्येता ध्वजश्चातीव कम्पते ॥ 013c
उदीर्यतो हयान्पश्य महाकायान्महाजवान् । 014a
प्लवमानान्महावीर्यानाकाशे गरुडानिव ॥ 014c
ध्रुवमेषु निमित्तेषु भूमिमावृत्य पार्थिवाः । 015a
स्वप्स्यन्ति निहताः कर्ण शतशोऽथ सहस्रशः ॥ 015c
शङ्खानां तुमुलः शब्दः श्रूयते रोमहर्षणः । 016a
आनकानां च राधेय मृदङ्गानां च हन्यताम् ॥ 016c
शृणु शब्दान्बहुविधान्नराश्वरथवाजिनाम् । 017a
ज्यातलत्रेषुशब्दांश्च शृणु कर्ण महात्मनाम् ॥ 017c
हेमरूप्यप्रमृष्टानां वाससां शिल्पिनिर्मिताः । 018a
सहेमचन्द्रताराभाः पताकाः किङ्किणीयुताः ॥ 018c
नानावर्णा रणे भान्ति श्वसनेन प्रकम्पिताः । 019a
पश्य कर्णार्जुनस्यैताः सौदामिन्य इवाम्बुदे ॥ 019c
ध्वजाः कणकणायन्ते वातेनातिसमीरिताः । 020a
सपताकरथाश्चापि पाञ्चालानां महात्मनाम् ॥ 020c
एष रेणुः समुद्भूतो दिवमावृत्य तिष्ठति । 021a
गजवाजिप्रणुन्ना च कम्पते कर्ण मेदिनी ॥ 021c
श्रूयते मेघसङ्काशो रथनेमिस्वनस्तथा । 022a
पश्य कुन्तीसुतं वीरं बीभत्सुमपराजितम् । 022c
प्रहरिष्यन्तमायान्तं कपिप्रवरकेतनम् ॥ 022e
गजाश्वरथपत्त्योघांस्तावकान्युधि निघ्नतः । 023a
ध्वजाग्रं दृश्यते तस्य ज्याशब्दश्चैव श्रूयते ॥ 023c
एष संशप्तकान्भूयस्तानेवाभिमुखो गतः । 024a
करोति कदनं चैष सङ्ग्रामे द्विषतां बली ॥ 024c
सञ्जय उवाच । 025
इति ब्रुवाणं मद्रेशं कर्णः प्रोवाच मन्युमान् ॥ 025a
पश्य संशप्तकैः क्रुद्धैः समन्तात्समभिद्रुतः । 025c
एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते । 026a
एष दान्तोऽर्जुनः शल्य निमग्नः शोकसागरे ॥ 026c
शल्य उवाच । 027
वरुणं कोऽम्भसा हन्यादिन्धनेन च कोऽनलम् । 027a
कोवाऽनिलं निगृह्णीयात्पिबेद्वा को महार्णवम् ॥ 027c
ईदृग्रूपमहं मन्ये पार्थस्य युधि निर्जयम् । 028a
न हि शक्योऽर्जुनो जेतुं युधि देवासुरैरपि ॥ 028c
अथैवं परितोषस्ते वाग्भिस्त्वं सुमाना भव । 029a
न हि शक्यो युधा जेतुमन्यं कुरु मनोरथम् ॥ 029c
बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः । 030a
पातयेत्त्रिदिवाद्देवान्नार्जुनं समरे जयेत् ॥ 030c
पश्य कुन्तीसुतं भीमं वीरमक्लिष्टकारिणम् । 031a
प्रहरन्तं महाबाहुं स्थितं मेरुमिवाचलम् ॥ 031c
अमर्षी पुरुषव्याघ्रः सदा वैरमनुस्मरन् । 032a
एष भीमो जयप्रेप्सुर्युधि तिष्ठति वीर्यवान् ॥ 032c
एष धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः । 033a
तिष्ठत्यसुकरः सङ्ख्ये परैः परपुरञ्जयः ॥ 033c
एतौ च पुरुषव्याघ्रावाश्विनेयौ महारथौ । 034a
नकुलः सहदेवश्च तिष्ठतो युधि दुर्जयौ ॥ 034c
एते तिष्ठन्ति कार्ष्णेयाः पञ्च पञ्चाचला इव । 035a
योत्स्यमाना महावीर्या भीमार्जुनसमा युधि ॥ 035c
एते द्रुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः । 036a
हीनाः सत्यजिता वीरास्तिष्ठन्ति परमौजसः ॥ 036c
यत्र कृष्णार्जुनौ वीरौ यत्र राजा युधिष्ठिरः । 037a
तत्र धर्मश्च सत्यं च यतो धर्मस्ततो जयः ॥ 037c
इति संवदतोरेव तयोः पुरुषसिंहयोः । 038a
ते सेने समसज्जेतां गङ्गायमुनवद्भृशम् ॥ ॥ 038c

इति श्रीमन्महाभारते कर्णपर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥