अध्यायः 038

शल्यकर्णयोर्वाक्कलहः ॥ 1 ॥ दुर्योधनेन तयोः सान्त्वनम् ॥ 2 ॥

कर्ण उवाच । 001
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते । 001a
उन्यमानं मया सम्यक्त्वमेकाग्रमनाः शृणु ॥ 001c
ब्राह्मणः किल नो गेहमध्यगच्छत्पुराऽतिथिः । 002a
आचारं तत्र सम्प्रेक्ष्य प्रीतो वचनमब्रवीत् ॥ 002c
मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम् । 003a
दृष्टाश्च बहवो देशा नानाधर्मसमावृताः ॥ 003c
न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः । 004a
सर्वाश्चाप्याचरन्धर्मं यदुक्तं वेदपारगैः ॥ 004c
अटता तु मया देशान्नानाधर्मसमाकुलान् । 005a
आगच्छता महाराज बाह्लीकेषु निशामितम् ॥ 005c
तत्र वै ब्राह्मणो भूत्वा पुनर्भवति क्षत्रियः । 006a
वैश्यः शूद्रश्च बाह्लीकस्ततो भवति नापितः ॥ 006c
नापितश्च ततो भूत्वा पुनर्भवति ब्राह्मणः । 007a
द्विजो भूत्वा च तत्रैव पुनर्दासोऽभिजायते ॥ 007c
भवन्त्येककुले विप्राः शिष्टा ये कामचारिणः । 008a
गान्धारा मद्रकाश्चैव बाह्लीकाश्चाप्यतेजसः ॥ 008c
एतन्मया श्रुतं तत्र धर्मसङ्करकारकम् । 009a
कृत्स्नामटित्वा पृथिवीं बाह्लीकेषु विपर्ययः ॥ 009c
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते । 010a
यदप्यन्योऽब्रवीद्वाक्यं बाह्लीकानां विकुत्सितं ॥ 010c
आनीयेहाक्षता काचिदारट्टात्किल दस्युभिः । 011a
अधर्मतश्चोपयाता सा तानभ्यशपत्ततः ॥ 011c
बालां बन्धुमतीं यन्मामधर्मेणोपगच्छथ । 012a
तस्मात्कुमार्यः स्वैरिण्यो भविष्यन्ति कुलेषु वः ॥ 012c
न चैवास्मात्प्रमोक्षध्वं घोराच्छापान्नराधमाः । 013a
तस्मात्तेषां भागहरः कथं धर्मान्वदिष्यसि ॥ 013c
कुरवः सहपाञ्चालाः साल्वा मात्स्याः सनैमिशाः । 014a
कोसलाः काशपौण्ड्राश्च कालिङ्गा मागधास्तथा ॥ 014c
चेदयश्च महाभागा धर्मं जानन्ति शाश्वतम् । 015a
नानादेशेष्वसन्तश्च प्रायो बाह्यालयानृते ॥ 015c
आमत्स्येभ्यः कुरुपाञ्चालसाल्वा आनैमिशाच्चेदयो ये विशिष्टाः । 016a
धर्मं पुराणमुपजीवन्ति सन्तो मद्रानृते पाञ्चनदांश्च जिह्मान् ॥ 016c
एवं विद्वान्धर्मकथासु राजंस्तूष्णीम्भूतः शल्य भवेः सदा त्वम् । 017a
त्वं तस्य गोप्ता च जनस्य राजा षड्भागहर्ता शुभदुष्कृतस्य ॥ 017c
अथवा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता । 018a
रक्षिता पुण्यभाग्राजा प्रजानां त्वं ह्यपुण्यभाक् ॥ 018c
पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते । 019a
धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः ॥ 019c
व्रात्यानां दाशकीयानां कृतेऽप्यशुभकर्मणाम् । 020a
ब्रह्मणा निन्दितान्धर्मान्कश्चित्सिद्धात्मकोऽब्रवीत् ॥ 020c
इति पाञ्चनदं धर्ममवमेने पितामहः । 021a
स्वधर्मस्थेषु वर्णेषु सोऽप्येतान्नाभ्यपूजयत् ॥ 021c
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते । 022a
कल्माषपादः सरसि निमज्जन्राक्षसोऽब्रवीत् ॥ 022c
क्षत्रियस्य मलं भैक्ष्यं ब्राह्मणस्याश्रुतं मलम् । 023a
मलं पृथिव्या बाह्लीकाः स्त्रीणां कौतूहलं मलम् ॥ 023c
निमज्जमानमुद्धृत्य कश्चिद्राजा निशाचरम् । 024a
अपृच्छत्तेन चाख्यातं तच्छृणुष्व नराधिप ॥ 024c
मानुषाणां मलं म्लेच्छा म्लेच्छानां मुष्टिका मलम् । 025a
मुष्टिकानां मलं षण्ढाः षण्ढानां राजयाजकाः ॥ 025c
राजयाजकयाज्यानां मद्रकाणां च यन्मलम् । 026a
तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि ॥ 026c
इति रक्षोपसृष्टेषु विषवीर्यहतेषु च । 027a
विद्वद्भिर्भेषजं दृष्टं संसिद्धवचनोत्तरम् ॥ 027c
ब्राह्म्याः पञ्चालाः कौरवेयास्तु धर्म्याः सत्या मत्स्याः शूरसेनाश्च याज्याः । 028a
प्राच्या दासा वृषला दाक्षिणात्याः स्तेना बाह्लीकाः सङ्कार वै सुराष्ट्राः ॥ 028c
कृतघ्नता परवित्तापहारो मद्यपानं गुरुदारावमर्दः । 029a
वाक्पारुष्यं गोवधो रात्रिचर्या बहिर्गेहं परवस्त्रोपभोगः ॥ 029c
येषां धर्मस्तान्प्रति नास्त्यधर्मो ह्यारट्टजान्पाञ्चनदान्धिगस्तु । 030a
आपाञ्चालाः कुरवो नैमिशाश्चमत्स्याश्चैवाप्यनुजानन्ति धर्मम् । 030c
अथोदीच्याश्चेदयो मागधाश्च शिष्टान्धर्मानुपजीवन्ति वृद्धाः ॥ 030e
प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः । 031a
दक्षिणा पितृभिर्गुप्ता यमेन शुभकर्मणा ॥ 031c
प्रतीचीं वरुणः पाति पालयन्नसुरान्बहून् । 032a
उदीचीं भगवान्सोमो ब्रह्मा च ब्राह्मणैः सह ॥ 032c
रक्षःपिशाचान्हिमवान्गुह्यकान्गन्धमादनः । 033a
ध्रुवं सर्वाणि भूतानि विष्णुः पाति सुरोत्तमः ॥ 033c
इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः । 034a
अर्धोक्ताः कुरुपाञ्चालाः सर्वोक्ता दाक्षिणापथाः ॥ 034c
पार्वतीयाश्च विषमा यथैव गिरयस्तथा । 035a
सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः । 035c
म्लेच्छाः स्वसञ्ज्ञानियता नानुक्तमितरे जनाः ॥ 035e
प्रतिरब्धास्तु बाह्लीका न च केचन मद्रकाः । 036a
स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि ॥ 036c
एवं ज्ञात्वा जोषमास्स्व प्रतीपं मा स्म क्रुद्धः पापभृतां वरिष्ठ । 037a
पूर्वं हत्वा त्वां सपुत्रं बलैश्च पश्चाद्धंस्ये वासुदेवार्जुनौ च ॥ 037c
शल्य उवाच । 038
आतुराणां परित्यागः स्वदारसुतविक्रयः । 038a
अङ्गे प्रवर्तते कर्ण येषामधिपतिर्भवान् ॥ 038c
रथातिरथसङ्ख्यायां यत्त्वां भीष्मस्तदाब्रवीत् । 039a
तान्विदित्वाऽत्मनो दोषान्निर्मन्युर्भव मा क्रुधः ॥ 039c
सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः । 040a
वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः ॥ 040c
रमन्ते चोपहासेन पुरुषाः पुरुषैः सह । 041a
अन्योन्येन रताः क्षीबा देशेदेशे च मैथुनम् ॥ 041c
परवाच्येषु निपुणः सर्वो भवति सर्वदा । 042a
आत्मवाच्यं न जानीते जानन्नपि च मुह्यति ॥ 042c
सर्वत्र सन्ति राजनः स्वंस्वं धर्ममनुव्रताः । 043a
दुर्मनुष्यान्निगृह्णन्ति सन्ति सर्वत्र धार्मिकाः ॥ 043c
न कर्ण देशसामान्यात्सर्वः पापं निषेवते । 044a
यादृशाः स्वस्वभावेन देशांस्तांस्तादृशान्विदुः ॥ 044c
सञ्जय उवाच । 045
ततो दुर्योधनो राजा कर्णशल्याववारयत् । 045a
सखिभावेन राधेयं शल्यं सौजन्यकेन च ॥ 045c
ततो निवारितः कर्णो धार्तराष्ट्रेण मारिष । 046a
प्रहस्य तत्र राजेन्द्रं यादि शल्येत्यचोदयत् ॥ ॥ 046c

इति श्रीमन्महाभारते कर्णपर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥

8-38-5 निशामितं श्रुतम् ॥ 8-38-6 ब्राह्मणो भूत्वेत्यादि तज्जातीयकर्माचरणनिबन्धनम् ॥ 8-38-8 विप्राः प्रसृष्टा इति पाठे कुले एकएव विप्रो भवत्यन्ये भ्रातरः प्रसृष्टाः सङ्कीर्णिक्रिया इत्यर्थः ॥ 8-38-9 तत्र बाह्लीकेषु । धर्मसङ्करकारको विपर्ययः श्रुत इति लिङ्गं विपरिणेयम् । विपर्ययो विहितवैपरीत्यम् ॥ 8-38-20 कृते कृतयुगे ॥ 8-38-21 नाभ्यपूजयत् न प्रशंसितवान् ॥ 8-38-25 म्लेच्छाः पापरता धर्माधर्मविचारहीनाः । म्लेच्छः पापरते जातिभेदे स्यादपभाषणे इति विश्वः । षण्ढा वर्षवराः ॥ 8-38-27 रक्षोपसृष्टेषु रक्षसा उपद्रुतेषु ॥ 8-38-28 प्राच्या दासाः शूद्रधर्माणः । दाशा इति पाठे मत्स्यजीविनः । वृषं धर्मं लान्ति आददते ते वृषलाः धर्मसङ्ग्रहपराः धर्मद्रोहिण इति वा ॥ 8-38-29 बहिर्गेहं रात्रिचर्या प्रच्छन्नं चौर्यपारदार्यादि ॥ 8-38-31 प्राचीमित्यत्र जातवेद इत्यनेनाग्नेयीसहिता प्राची देवानामाश्रया दक्षिणा पितॄणां तत्रैव श्राद्धादिधर्मो दृश्यते ॥ 8-38-32 एवं प्रतीचीं वरुणः उदीचीं सोम इति कुबेरेशानयोर्ग्रहणम् । परिशेषान्नैर्ऋत्यां वायव्यां च बाह्लीकाश्रयायां नैर्ऋतास्त्वादृशा वातूलाश्च सन्तीत्यर्थः ॥ 8-38-33 तथा रक्षःपिशाचाश्च हिमवन्तं नगोत्तमम् । गुह्यकाश्च महाराज पर्वतं गन्धमादनम् इति झ पाठः । एवमपि सबाह्लीकान्सनैर्ऋतान् देशान् विष्णुः पाति पर्जन्यवत् न देशान्तरेष्विव बाह्लीकेषु विशेषतो देवतानुग्रहो दृश्यत इत्यभिप्रायः ॥ 8-38-34 अतएव तेषां मौढ्यं वर्णयति इङ्गितज्ञाश्चति । अर्धोक्ताः कुरुपाञ्चालाः साल्वाः कृत्स्नानुशासनाः इति झ. पाठः ॥ 8-38-35 विषमाः दुःखसाध्याः । सर्वं जानन्तोऽपि यवना म्लेच्छाश्च स्वसञ्ज्ञायां स्वीयैः कृतो यो धर्मसङ्केतस्तत्रैव नियताः । वैदिकं धर्मं न मानयन्तीत्यर्थः । इतरे त्वनुक्तं हितं नावबुध्यन्ते ॥ 8-38-36 प्रतिरथा इतिपाठे हितवादिनि प्रतिकूलाः । गुरुद्रोहिण इत्यर्थः । तादृशश्च त्वं हितोपदेष्टारं मां निन्दसीत्यर्थः ॥