अध्यायः 036

कर्णेन शल्यम्प्रति स्वस्य परशुरामात् तथा कुतश्चिद्ब्राह्मणाच्च शापप्राप्तिकथनम् ॥ 1 ॥

सञ्जय उवाच । 001
मद्राधिपस्याधिरथिर्महात्मा वचो निशम्याप्रियमप्रतीतः । 001a
उवाच शल्यं विदितं ममैतद्यथाविधावर्जुनवासुदेवौ ॥ 001c
शौरे रथं वाहयतोऽर्जुनस्य बलं महास्त्राणि च पाण्डवस्य । 002a
अहं विजानामि यथावदद्य परोक्षभूतं तव तत्तु शल्य ॥ 002c
तौ चाप्यहं शस्त्रभृतां वरिष्ठौ व्यपेतभीर्योधयिष्यामि कृष्णौ । 003a
सन्तापयत्यभ्यधिकं हि रामाच्छापोऽद्य मां ब्राह्मणसत्तमाच्च ॥ 003c
'पुरा महेन्द्राद्रिवरे समुद्रे तपस्विनं राममुपेत्य शल्य । 004a
अस्त्रार्थिनं माऽद्य शिष्यं गृहाणेत्यथाऽब्रुवं ब्राह्मणच्छद्मना च ॥ 004c
तत्रावसं ब्राह्मण इत्यविप्रो ब्रह्मास्त्रलोभादनृतेन चाहम् । 005a
तज्जामदग्न्येन परं महास्त्रं समन्त्रयुक्तं विहितं ममासीत् ॥ 005c
अस्त्रं यदा तद्विदितं ममासीत्तदाऽब्रवीद्ब्राह्मणो मां महर्षिः । 006a
आपद्गतेनास्त्रमिदं प्रयोज्यं त्वया रणे गच्छता साधयेति' ॥ 006c
तत्रापि मे देवराजेन विघ्नो हितार्थिना फल्गुनस्यैव शल्य । 007a
कृतो विभेदेन ममोरुमेत्य प्रविश्य कीटस्य तनुं विरूपाम् ॥ 007c
ममोरुमेत्य प्रबिभेद कीटः सुप्ते गुरौ तत्र शिरो निधाय । 008a
ऊरुप्रभेदाच्च महान्बभूव शरीरतो मे घनशोणितौघः ॥ 008c
गुरोर्भयाच्चापि न चेलिवानहं ततो विबुद्धो ददृशे स विप्रः । 009a
स धैर्ययुक्तं प्रसमीक्ष्य मां वै न त्वं विप्रः कोऽसि सत्यं वदेति ॥ 009c
तस्मै तदाऽऽत्मानमहं यथावदाख्यातवान्सूत इत्येव शल्य । 010a
स मां निशाम्याथ महातपस्वीसंशप्तवान्रोषपरीतचेताः ॥ 010c
सूत त्वया ह्याप्तमिदं तवास्त्रं न कर्मकाले प्रतिभास्यतीति । 011a
अन्यत्र तु स्यात्तव मृत्युकालादब्राह्मणे ब्रह्म न हि ध्रुवं स्यात् ॥ 011c
तदद्य पर्याप्तमतीव मेऽस्त्रमुपस्थितेऽस्मिंस्तुमुले विमर्दे ॥ 012ac
शल्योग्रधन्वानमहं वरिष्ठन्तरस्विनं भीममसह्यवीर्यम् । 013a
सत्यप्रतिज्ञं युधि पाण्डवेयं धनञ्जयं मृत्युमुखं नयिष्ये ॥ 013c
अस्त्रं ततोऽन्यत्प्रतिपन्नमद्य येन क्षेप्स्ये समरे शत्रुपूगान् । 014a
प्रतापिनं बलवन्तं कृतास्त्रं तमुग्रधन्वानममितौजसं च । 014c
क्रूरं शूरं रौद्रममित्रसाहं धनञ्जयं संयुगेऽहं हनिष्ये ॥ 014e
अपाम्पतिर्वेगवानप्रमेयो निमज्जयिष्यन्बहुलाः प्रजा इव । 015a
महारवं यः कुरुते समुद्रो वेलेव तं वारयाम्यप्रमेयम् ॥ 015c
प्रमुञ्चन्तं बाणसङ्घानमेयान्मर्मच्छिदो वीरहणः सुपत्रान् । 016a
कुन्तीपुत्रं प्रतियोत्स्यामि युद्धे ज्यां कर्षतामुत्तमं मर्त्यलोके ॥ 016c
एवं बलेनातिबलं महास्त्रं समुद्रकल्पं सुदुरापमुग्रम् । 017a
शरौघिणं पार्थिवान्मज्जयन्तं वेलेव पार्थमिषुभिर्वारयिष्ये ॥ 017c
कृती कृतास्त्रो दृढहस्तयोधी दिव्यास्त्रविच्छ्वेतहयः प्रमाथी । 018a
सुरासुरान्युधि वै यो जयेत तेनाद्य मे पश्य युद्धं सुघोरम् ॥ 018c
अभीर्मानी पाण्डवो युद्धकामो ह्यमानुषैरस्यति मां महास्त्रैः । 019a
तस्यास्त्रमस्त्रैरभिभूय सङ्ख्ये बाणोत्तमैः पातयिष्यामि पार्थम् ॥ 019c
सहस्ररश्मिप्रतिमं ज्वलन्तं दिशश्च सर्वाः प्रतपन्तमुग्रम् । 020a
तमोनुदं मेघ इवातिमात्रं धनञ्जयं छादयिष्यामि बाणैः ॥ 020c
वैश्वानरं धूमकेतुं ज्वलन्तं तेजस्विनं नरवीरान्दहन्तम् । 021a
पर्जन्यभूतः शरवर्षैर्यथाऽग्निं तथा पार्थं शमयिष्यामि युद्धे ॥ 021c
आशीविषं दृष्टिहणं सुघोरं सुतीक्ष्णदंष्ट्रं ज्वलनप्रभवाम् । 022a
क्रोधात्प्रदीप्तानलवद्दहन्तङ्कुन्तीपुत्रं शमयिष्यामि भल्लैः ॥ 022c
प्रवाहिणं बलवन्तं महौजसं प्रभञ्जनं मातरिश्वानमुग्रम् । 023a
युद्धे सहिष्ये हिमवानिवाचलो धनञ्जयं क्रुद्धममृष्यमाणम् ॥ 023c
विशारदं रथमार्गेषु शक्तं धुर्यं नित्यं समरेषु प्रवीरम् । 024a
लोके वरं सर्वधनुर्धराणां धनञ्जयं संयुगेऽहं हनिष्ये ॥ 024c
अद्याहवे यस्य न तुल्यमन्यं मन्ये मनुष्यं धनुराददानम् । 025a
सर्वामिमां यः पृथिवीं सहेत तथापि तेनाद्य रणे समेष्ये ॥ 025c
यः सर्वभूतानि सदैवतानि प्रस्थेऽजयत्खाण्डवे सव्यसाची । 026a
को जीवितं रक्षमाणो हि तेन युयुत्सतेऽस्त्रैर्मानुषो मामृतेऽन्यः ॥ 026c
मानी कृतास्त्रः कृतहस्तयोधी दिव्यास्त्रविच्छ्वेतहयः प्रमाथी । 027a
तस्याहमद्यातिरथस्य कायाच्छिरो हरिष्यामि शितैः पृषत्कैः ॥ 027c
योत्स्याम्येनं शल्य धनञ्जयं वैमृत्युं पुरस्कृत्य रणे जयं वा । 028a
अन्यो हि न ह्येकरथेन मर्त्यो युध्येत यः पाण्डवमिन्द्रकल्पम् ॥ 028c
तस्याहवे पौरुषं पाण्डवस्य ब्रूयां पृष्टः समितौ क्षत्रियाणाम् । 029a
किं त्वं मूर्खः प्रहसन्मूढचेता आख्यासि मे पौरुषं फल्गुनस्य ॥ 029c
अत्यप्रियो यः पुरुषो निष्ठुरो हि क्षुद्रः क्षेप्ता क्षमिणश्चाक्षमावान् । 030a
हन्यामहं त्वादृशानां शतानि क्षमाम्यहं क्षमिणां काल एषः ॥ 030c
अवोचस्त्वं पाण्डवार्ये प्रियाणि प्रधर्षयन्मां मूढवत्पापकर्मन् । 031a
मय्यार्जवे जिह्ममतिर्यतस्त्वं मित्रद्रोही साप्तपदं हि मित्रम् ॥ 031c
कालस्त्वयं प्रत्युपयाति दारुणो दुर्योधनो युद्धमुपागमद्यत् । 032a
तस्यार्थसिद्धिं त्वभिकाङ्क्षमाणस्तमन्वेष्ये यत्र चैकान्तमस्ति ॥ 032c
'तथाप्यहं पाण्डववासुदेवौ योत्स्ये रणे मद्विधस्यैव कर्म । 033a
न प्राकृतः सज्जते वै कदाचिद्यः प्रत्युदीयात्कृष्णधनञ्जयौ तौ' ॥ 033c
मित्रं मिन्देर्नन्दतेः प्रीयतेर्वा सन्त्रायतेर्मिनुतेर्मोदतेर्वा । 034a
दुर्योधने सर्वमिदं ममास्ति तच्चापि सर्वं मम वेत्ति राजा ॥ 034c
शत्रुः शदेः शासतेर्वा श्यतेर्वा शृणातेर्वा श्वसतेः सीदतेर्वा । 035a
श्रमेः शुचो बहुशः सूदतेश्च प्रायेण सर्वं त्वयि तच्च मह्यम् ॥ 035c
दुर्योधनार्थं तव च प्रियार्थं यशोर्थमात्मार्थमपीश्वरार्थम् । 036a
तस्मादहं पाण्डववासुदेवौ योत्स्ये यत्नात्कर्म च पश्य मेऽद्य ॥ 036c
'शल्याद्याहं सङ्गतः पाण्डवेन मुच्येयं चेज्जीवमानः कथञ्चित् । 037a
शश्वन्मृत्योः स्यामनाधृष्यरूपो व्यक्तं तस्मात्संयुगाद्विप्रमुक्ताः' ॥ 037c
अस्त्रं ब्राह्मं मनसा सञ्जपन्वै यदाऽस्यते क्रोधितः सव्यसाची । 038a
तदापि मे नैव मुच्येत पार्थो न चेत्पतेद्विषमे मेऽद्य चक्रम् ॥ 038c
अस्त्राणि विद्ध्वा समरे गतानि ब्राह्माणि दिव्यान्यथ मानुषाणि । 039a
आसादयिष्याम्यहमुग्रवीर्यं नागोत्तमं नाग इव प्रभिन्नः ॥ 039c
वैवस्वताद्दण्डहस्ताद्वरुणाद्वापि पाशिनः । 040a
सगदाद्वा धनपतेः सवज्राद्वा सुराधिपात् ॥ 040c
अथान्यस्मादपि सुरादमित्रादाततायिनः । 041a
इति शल्य विजानीहि यथा नाहं बिभेम्युत ॥ 041c
तस्मान्न मे भयं पार्थान्नापि चैव जनार्दनात् । 042a
सह युद्धं हि मे ताभ्यां साम्पराये भविष्यति ॥ 042c
श्वभ्रे ते पततां चक्रमिति मां ब्राह्मणोऽब्रवीत् । 043a
युध्यमानस्य सङ्ग्रामे प्राप्तस्यैकायनं भयम् ॥ 043c
तस्माद्बिभेमि बलवद्ब्राह्मणव्याहृतादहम् । 044a
एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥ 044c
कदाचिद्ब्राह्मणस्याथ योग्यहेतेरहं नृप । 045a
अजानन्नक्षिपं बाणं घोररूपं भयावहम् ॥ 045c
होमधेन्वास्ततो वत्सः प्रमत्त इषुणा हतः । 046a
चरन्वै विजने शल्य ततोऽनु व्याजहार सः ॥ 046c
यस्माद्वत्सस्त्वया चात्र होमधेन्वा हतो नृप । 047a
तस्मात्त्वमपि राधेय वाक्शल्यं महदाप्नुहि ॥ 047c
श्वभ्रे ते पतिता चक्रं युध्यमानस्य शत्रुणा । 048a
प्राप्त एकायने काले मृत्युसाधारणे त्वयि ॥ 048c
स्पर्धसे येन सङ्ग्रामे यदर्थं घटसेऽनिशम् । 049a
तत एव ध्रुवं मृत्युं सूत प्राप्स्यसि संयुगे ॥ 049c
अहं प्रसादयाञ्चक्रे ब्राह्मणं संशितव्रतम् ॥ 050ac
गवां दशशतं वित्तं बलीवर्दांश्च षट्शतम् । 051a
प्रच्छन्नं काञ्चनैः कामं ब्राह्मणार्थमहं तदा ॥ 051c
दासीशतं निष्ककण्ठं शतमश्वतरीरथान् । 052a
कन्यानां निष्ककण्ठीनां सहस्रं समलङ्कृतम् ॥ 052c
ईषादन्तान्नागशतान्दासीदासशतानि च । 053a
दद्मि तैर्द्विजमुख्यो मे प्रसादं न चकार सः ॥ 053c
कृष्णानां श्वेतवत्सानां गोशतानि चतुर्दश । 054a
ददन्हि न लभे तस्मात्प्रसादं द्विजसत्तमात् ॥ 054c
यत्किञ्चिन्मामकं वित्तं त्वदधीनं करोमि तत् । 055a
इति मां याचमानं वै ब्राह्मणः प्रत्यवारयत् । 055c
क्रोधदीप्तेक्षणः शळ्य निर्दहन्निव चक्षुषा ॥ 055e
व्याहृतं यन्मया सूत तत्तथा न तदन्यथा । 056a
अनृतोक्तं प्रजां हन्यात्ततः पापमवाप्नुयाम् ॥ 056c
तस्माद्धर्माभिरक्षार्थं नानृतं वक्तुमुत्सहे । 057a
मा त्वं ब्रह्मगतिं हिंस्याः प्रायश्चित्तं कृतं त्वया ॥ 057c
मद्वाक्यं नानृतं लोके कश्चित्कुर्यात्समाप्नुहि । 058a
'यन्मयोक्तं सरोषेण गच्छ सूतज माचिरम् ॥ 058c
इति मामसकृत्क्रुद्धः स उवाच द्विजोत्तमः । 059a
एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥ 059c
नाहं बिभेमि बीभत्सोर्न शल्य मधुसूदनाम् । 060a
तस्माद्बिभेम्यहं शापात्तेन सत्येन ते शपे ॥ 060c
सह युद्धं समेताभ्यामद्येदं समुपस्थितम् । 061a
युद्धेऽस्मिञ्जीवितं मेऽद्य शल्य संशयमागतम् ॥ 061c
शक्रोऽप्यमरराट् ताभ्यामुपगम्याहवं सह । 062a
संशयं परमं गच्छेत्कथं वा मन्यते भवान् ॥ 062c
इत्येवं ते मयाऽऽख्यातं क्षिप्तेन न सुहृत्तया । 063a
जानामि त्वाऽधिक्षिपन्तं दोषमात्मगतं शृणु' ॥ ॥ 063c

इति श्रीमन्महाभारते कर्णपर्वणि षट्त्रिंशोऽध्यायः ॥ 36 ॥

8-36-9 चेलिवान् चलितवान् ॥ 8-36-11 कर्मकाले स्वप्रतिज्ञारक्षणकाले ॥ 8-36-14 अस्त्रं ततो रामदत्तादस्त्रादन्यत्प्रतिपन्नं प्राप्तं अहिबाणाख्यमित्यर्थः ॥ 8-36-24 रथमार्गेष्वसक्तं इति ट.पाठः । रथमार्गेष्वनित्यं इति ख.पाठः ॥ 8-36-26 खाण्डवे खाण्डवदाहे 8-36-31 आर्जवे कर्तव्ये सति ॥ 8-36-34 अहं सिद्धिं काङ्क्षमाणोऽस्मि । त्वं तु तन्मन्यसे यत्र ऐकान्त्यं सख्यं नास्ति । अस्मत्पक्षीयोप्यन्यतत्र स्नेहवानसीत्यर्थः । तदेवाह मित्रमिति । मिन्दयति मेदयति वा स्नेहार्थान्मिन्देर्मिदेर्वा मित्रमिति रूपम् । नन्दतेरित्यतत्र मदतेरिति पाठः । मदी हर्षे इत्यस्य वा रूपम् । मादयनि तर्पयतीति वा मादयतेर्मित्रम् । मिदतेस्त्राणार्थस्य वा मिदेरिदं रूपम् । नन्दयतेः प्रीयतेः सन्त्रायतेर्वाऽर्थे वर्तमानस्य मिदेर्मित्रमिति वार्थः । मिनुते मानं करोति सर्वं हितमस्य सङ्गृह्णातीति वा मोदतेऽस्य सुखेनेति वा मित्रमित्येतेऽर्थाः मयि सन्तीत्यर्थः ॥ 8-36-35 शत्रुरिति शदेः शातनार्थात् शास्तेः शासनार्थात् श्यतेस्तनूकरणार्थात् शृणातेर्हिसार्थात् श्वसतेरुच्छ्वासार्थादन्तर्भावितण्यर्थात् सीदतेः सूदतेर्वा दन्त्यस्थाने तालव्यस्योपसर्जनात् शत्रुरिति शब्द उत्पन्नस्तदर्थश्च सर्वस्त्वय्यस्तीत्यर्थः ॥ 8-36-44 सोमराजानः ब्राह्मणाः ॥ 8-36-57 मा त्वं ब्राह्मणगर्हः स्याः इति क.पाठः ॥ 8-36-58 तदनुव्याहृतं कुर्यात्सर्वलोकेपि सूतज इति ख.पाठः । नैतत्ते व्याहृतं कुर्यां सममेकोऽपि सूतज इति क.ड.पाठः । नैतदव्याहतं कुर्यात्सर्वलोकोऽपि सूतज इति ट.पाठः ॥