अध्यायः 035
शल्येन कर्णम्प्रति हंसकाकीयाख्यानकथनम् ॥ 1 ॥
सञ्जय उवाच । 001
मारिषाधिरथेः श्रुत्वा वाचो युद्धाभिनन्दिनः । 001a
शल्योऽब्रवीत्पुनः कर्णं निदर्शनमुदाहरन् ॥ 001c
जातोऽहं यज्वनां वंशे सङ्ग्रामेष्वनिवर्तिनाम् । 002a
राज्ञां मूर्धाभिषिक्तानां स्वयं धर्मपरायणः ॥ 002c
यथैव मत्तो मद्येन त्वं तथा लक्ष्यसे वृष । 003a
तथाऽद्य त्वां प्रमाद्यन्तं चिकित्सेयं सुहृत्तया ॥ 003c
इमां काकोपमां कर्ण प्रोच्यमानां निबोध मे । 004a
श्रुत्वा यथेष्टं कुर्यास्त्वं निहीन कुलपांसन ॥ 004c
नाहमात्मनि किञ्चिद्वै किल्बिषं कर्ण संस्मरे । 005a
येन मां त्वं महाबाहो हन्तुमिच्छस्यनागसम् ॥ 005c
अवश्यं तु मया वाच्यं बुद्ध्वा तव हिताहितम् । 006a
विशेषतो रथस्थेन राज्ञश्चैव हितैषिणा ॥ 006c
समं च विषमं चैव रथिनश्च बलाबलम् । 007a
श्रमः खेदश्च सततं हयानां रथिना सह ॥ 007c
आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम् । 008a
सारं चैवाप्यसारं च शल्यानां च प्रतिक्रिया ॥ 008c
अस्त्रयोगं च युद्धं च निमित्तानि तथैव च । 009a
सर्वमेतन्मया ज्ञेयं रथस्यास्य कुटुम्बिना । 009c
अतस्त्वां कथये कर्ण निदर्शनमिदं पुनः ॥ 009e
वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान् । 010a
यज्वा दानपतिः क्षान्तः स्वकर्मस्थोऽभवच्छुचिः ॥ 010c
बहुपुत्रः प्रियापत्यः सर्वभूतानुकम्पकः । 011a
राज्ञो धर्मप्रधानस्य राष्ट्रे वसति निर्भयः ॥ 011c
पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम् । 012a
काको बहूनामभवदुच्छिष्टकृतभोजनः ॥ 012c
तस्मैसदा प्रयच्छन्ति वैश्यपुत्राः कुमारकाः । 013a
मांसोदनं दधि क्षीरं पायसं मधुसर्पिषी ॥ 013c
स चोच्छिष्टभृतः काको वैश्यपुत्रैः कुमारकैः । 014a
सदृशान्पक्षिणो दृप्तः श्रेयसश्चावमन्यते ॥ 014c
अथ हंसाः समुद्रान्ते प्रजग्मुरतिपातिनः । 015a
गरुडस्य गतौ तुल्याश्चक्राङ्गा हृष्टचेतसः ॥ 015c
कुमारकास्तदा हंसान्दृष्ट्वा काकमथाब्रुवन् । 016a
भवानेव विशिष्टोऽसि पतत्रिभ्यो विहङ्गम ॥ 016c
एतेऽतिपातिनः पश्य विहङ्गान्वियदाश्रितान् । 017a
एहि त्वमपि शक्तो हि कस्मान्न पतितं त्वया ॥ 017c
प्रतार्यमाणस्तैः सर्वैरल्पबुद्धिभिरण्डजः । 018a
तद्वचः सत्यमित्येव मौर्ख्याद्दर्पाच्च जज्ञिवान् ॥ 018c
तान्सोनुपत्य जिज्ञासुः क एषां श्रेष्ठभागिति । 019a
उच्छिष्टदर्पितः काको बहूनामेकपातिनाम् ॥ 019c
तेषां यं प्रवरं मेने हंसानां दूरपातिनाम् । 020a
स तमाह्वत दुर्बुद्धिः पताव इति पक्षिणम् । 020c
तच्छ्रुत्वा प्राहसन्हंसा ये तत्रासन्समागताः ॥ 020e
भाषतो बहु काकस्य बालिश्यात्पततां वराः । 021a
इदमूचुः स्म चक्राङ्गावचः काकं विहङ्गमाः ॥ 021c
हंसा ऊचुः । 022
वयं हंसाश्चरामेमां पृथिवीं मानसौकसः । 022a
पक्षिणां च वयं नित्यं दूरपातेन पूजिताः ॥ 022c
कथं हंसं नु बलिनं चक्राङ्गं दूरपातिनम् । 023a
काको भूत्वा निपतने समाह्वयसि दुर्मते । 023c
कथं त्वं पतिता काक सहास्माभिर्ब्रवीहि तत् ॥ 023e
अथ हंसवचो मूढः कुत्सयित्वा पुनः पुनः । 024a
प्रजगादोत्तरं काकः कत्थनो जातिलाघवात् ॥ 024c
काक उवाच । 025
शतमेकं च पातानां पतिताऽस्मि न संशयः । 025a
शतयोजनमेकैकं विचित्रं विविधं तथा ॥ 025c
उड्डीनमवडीनं च प्रडीनं डीनमेव च । 026a
निडीनमथ सण्डीनं तिर्यक्डीनगतानि च ॥ 026c
विडीनं परिडीनं च पराडीनं सुडीनकम् । 027a
अभिडीनं महाडीनं निर्डीनमतिडीनकम् ॥ 027c
अवडीनं प्रडीनं च सण्डीनं डीनडीनकम् । 028a
सण्डीनोड्डीनडीनं च पुनर्डीनविडीनकम् ॥ 028c
सम्पातं समुदीषं च ततोऽन्यद्व्यतिरिक्तकम् । 029a
गतागतं प्रतिगतं बह्वीश्च निकुलीनकाः । 029c
कर्ताऽस्मि मिषतां वोऽद्य ततो द्रक्ष्यथ मे बलम् ॥ 029e
तेषामन्यतमेनाहं पतिष्यामि विहायसम् । 030a
प्रदिशध्वं यथान्यायं केन हंसाः पताम्यहम् ॥ 030c
ते वै ध्रुवं विनिश्चित्य सम्पतध्वं मया सह । 031a
पातैरेभिः खलु खगाः पतितुं खे निराश्रये ॥ 031c
एवमुक्ते तु काकेन प्रहस्यैको विहङ्गमः । 032a
उवाच काकं राधेय वचनं तन्निबोध मे ॥ 032c
हंस उवाच । 033
शतमेकं च पातानां त्वं काक पतिता ध्रुवम् । 033a
एकमेव तु यं पातं विदुः सर्वे विहङ्गमाः । 033c
तमहं पतिता काक नान्यं जानामि कञ्चन ॥ 033e
काक उवाच । 034
पत त्वमपि तत्राशु येन पातेन मन्यसे ॥ 034ac
अथ काकं प्रजहसुर्ये तत्रासन्समागताः । 035a
कथमेकेन पातेन हंसः पातशतं जयेत् । 035c
एकेन वायस त्वैनं पातेनाभिभविष्यति ॥ 035e
हंसश्चोत्पतितः काको बलवानाशुविक्रमः । 036a
प्रपेततुः स्पर्धया च ततस्तौ हंसवायसौ । 036c
उपर्युपरि वेगेन समुद्रं मकरालयम् ॥ 036e
हंसस्त्वेकेन पातेन काकः पातशतेन च । 037a
स्पर्धिनौ सहितौ तूर्णं खमास्थाय तरस्विनौ ॥ 037c
हंसस्तु मृदुनैकेन विक्रान्तुमुपचक्रमे । 038a
पूर्वमेव तु वै काकः स तं तूर्णं प्रचक्रमे ॥ 038c
नात्यहीयत काकश्च मुहूर्तमिव सूतज ॥ 039ac
काकोपि हंसं चापल्याच्छीघ्रतां प्रतिदर्शयन् । 040a
वेगेनातीत्य तरसा पुनरेति मुहुर्मुहुः ॥ 040c
तुण्डेनाभ्यहनच्चैनं कुर्वन्नामापसव्यतः । 041a
रोरूयन्निव चाप्येनं समाह्वयति वै मुहुः । 041c
विसिस्मापयिषुः पातैर्दर्शयन्नात्मनः क्रियाम् ॥ 041e
अथ तानि विचित्राणि पतितानीतराणि च । 042a
दृष्ट्वा प्रमुदिताः काका विनेदुरधिकैः स्वरैः ॥ 042c
हंसाश्चापहसन्ति स्म प्रवदन्ति प्रियाणि च । 043a
कुर्वाणा विविधान्रावानिच्छन्तो जयमात्मनः ॥ 043c
उत्पत्योत्पत्य च प्राहुर्मुहूर्तमिति चेति च । 044a
वृक्षाग्रेभ्यः स्थलेभ्यश्च निपतन्त्युत्पतन्ति च ॥ 044c
अवमत्य च हंसं तमिदं काकोऽब्रवीद्वचः । 045a
योऽसावुत्पतितो हंसः सोऽसावेव प्रहीयते ॥ 045c
अथ हंसस्तु तच्छ्रुत्वा भाषितं पततांवरः । 046a
विगाह्य हंसो विक्षोभ्य प्रापतत्पश्चिमां दिशम् ॥ 046c
उपर्युपरि वेगेन सागरं मकरालयम् । 047a
बहुसत्वसमाकीर्णं वीचीभिर्भीमदर्शनम् ॥ 047c
अथाचिरेण राधेय काको वेगादहीयत । 048a
ततोऽतीव परिश्रान्तः कथञ्चिद्धंसमन्वगात् ॥ 048c
भीश्चैनमाविशत्तीव्रं काकं कर्ण विचेतसम् । 049a
द्वीपान्द्रुमान्वितान्पश्यन्विश्रमार्थं श्रमातुरः । 049c
निपतेयं क्कनु श्रान्त इति तस्मिञ्जलार्णवे ॥ 049e
अवगाह्य समुद्रोऽपि बहुसत्वगणालयः । 050a
महान्भूतशतोद्भासी नभसस्तु विशिष्यते ॥ 050c
गाम्भीर्यार्द्धि समुद्रस्य न विशेषं कुलाधम । 051a
दिशश्च नाम्भसां कर्ण समुद्रस्था विदुर्जनाः । 051c
विपश्चितोप्यपारत्वात्किं पुनः कर्ण वायसः ॥ 051e
अथ हंसोप्यतिक्रामन्मुहूर्तमिव दूरतः । 052a
अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत ॥ 052c
शनकैः परिहीनं तं परिश्रान्तमचेतसम् । 053a
अवेक्षमाणस्तं काकं प्रत्यागम्य हसन्निव ॥ 053c
तं प्रहस्य च चक्राङ्गः काकं मन्दगतिं तदा । 054a
हीयमानमथो दृष्ट्वा हंसः प्राह यथार्थवत् । 054c
उज्जिहीर्षुर्निमज्जन्तं स्मरन्सत्पुरुषव्रतम् ॥ 054e
बहूनि पतितानि त्वमाचक्षाणो मुहुर्मुहुः । 055a
पतस्यव्याहरन्खेदं ततो गर्ह्यं प्रभाषसे ॥ 055c
किं नाम पतितं काक यत्त्वं पतसि साम्प्रतम् । 056a
जलं स्पृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः ॥ 056c
प्रब्रूहि कतमोऽयं ते पातो वर्तति वायस । 057a
एह्येहि काक शीघ्रं त्वमेष त्वां परिपालये ॥ 057c
स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन च जलं तदा । 058a
काको दृढं परिश्रान्तः सहसा निपपात ह ॥ 058c
सागराम्भसि तं दृष्ट्वा पततन्तं दीनचेतसम् । 059a
म्रियमाणमिदं वाक्यं हंसः काकमुवाच ह ॥ 059c
शतमेकं च पातानां पताम्यहमिति स्म ह । 060a
श्लाघन्नात्मानमद्य त्वं काक भाषितवानसि ॥ 060c
स त्वमेकशतं पातं पतन्नभ्यधिको मया । 061a
कथमेवं परिश्रान्तः पतितोऽसि महार्णवे ॥ 061c
प्रत्युवाच ततः काकः सीदमान इदं वचः । 062a
उपरीतं तदा हंसं प्रसमीक्ष्य प्रसादयन् ॥ 062c
उच्छिष्टान्नेन पुष्टोऽहं दर्पोत्सिक्तः कुसत्वतः । 063a
सुपर्ण इव चात्मानं ज्ञातवान्पुत्रलाघवात् ॥ 063c
शरणं त्वां प्रपन्नोऽहमुदकान्तमवाप्नुयाम् । 064a
हंसेदानीं परिश्रान्तमापदो मां समुद्धर ॥ 064c
यदि नाम पुनर्जीवन्गच्छेयं स्वं निवेशनम् । 065a
नैनं पुनर्हीनमपि क्षेप्ताऽहं खे विचारिणम् ॥ 065c
तमेवं करुणं दीनं विलपन्तमचेतसम् । 066a
काककाकेति वाशन्तं निमज्जन्तं महार्णवे । 066c
कृपयाऽभिपरीतो वै कृपां चक्रे दुरात्मनि ॥ 066e
अथ तं पततं दीनं जलक्लिन्नमचेतनम् । 067a
पद्भ्यामुत्क्षिप्य वेपन्तं पृष्ठमारो पयत्तदा ॥ 067c
स हंसः पृष्ठमारोप्य काकं कर्ण विचेतसम् । 068a
अविस्मयंस्तदा कर्ण पुनरेव समानयत् । 068c
तमेव देशं तरसा स्पर्धया पेततुर्यतः ॥ 068e
उत्सृज्य त्वब्रवीन्मैवं पुनः कार्यं त्वयेति ह । 069a
स्थाप्य चैनं पुनर्द्वीपे समाश्वस्य च विक्लवम् । 069c
गतो यथेप्सितं देशं हंसो मन इवाशुगः ॥ 069e
एवमुच्छिष्टपुष्टः स काकोऽहंसपराजितः । 070a
बलं वीर्यं महत्कर्ण त्यक्त्वा क्षान्तिमुपागतः ॥ 070c
उच्छिष्टभोजनः काको यथा वैश्यकुले पुरा । 071a
एवं त्वमुच्छिष्टभृतो धार्तराष्ट्रैर्न संशयः ॥ 071c
सदृशाञ्श्रेयसश्चापि सर्वान्कर्णावमन्यसे । 072a
द्रोणद्रौणिकृपैर्गुप्तो भीष्मेणान्यैश्च कौरवैः ॥ 072c
विराटनगरे पार्थमेकं किं नावधीस्तदा । 073a
यत्र व्यस्ताः समस्ताश्च निर्जिताः स्थ किरीटिना । 073c
सृगाला इव सिंहेन क्व ते वीर्यं तदा गतम् ॥ 073e
भ्रातरं निहतं दृष्ट्वा समरे सव्यसाचिना । 074a
पश्यतां कुरवीराणां प्रथमं त्वं पलायितः ॥ 074c
तथा द्वैतवने कर्ण गन्धर्वैः समभिद्रुतान् । 075a
कुरून्सदारानुत्सृज्य त्वमेवाग्रे पलायितः ॥ 075c
हत्वा जित्वा च गन्धर्वांश्चित्रसेनमुखान्रणे । 076a
कर्ण दुर्योधनं पार्थः सभ्रातृकममोक्षयत् ॥ 076c
पुनः प्रभावः पार्थस्य पुराणः केशवस्य च । 077a
कथितः कर्ण रामेण सभायां कुरुसंसदि ॥ 077c
सततं च त्वमश्रौषीर्वचनं द्रोणभीष्मयोः । 078a
अवध्यौ वदतोः कृष्णौ सन्निधौ च महीक्षिताम् ॥ 078c
कियन्तं तत्र वक्ष्यामि येनयेन धनञ्जयः । 079a
त्वत्तोऽतिरिक्तः सर्वेभ्यो भूतेभ्यो ब्राह्मणो यथा ॥ 079c
इदानीमेव द्रष्टासि प्रधाने स्यन्दने स्थितौ । 080a
पुत्रं च वसुदेवस्य कुन्तीपुत्रं च पाण्डवम् ॥ 080c
यथाऽश्रयत चक्राङ्गं वायसो बुद्धिमास्थितः । 081a
तथाश्रयस्व वार्ष्णेयं पाण्डवं च धनञ्जयम् ॥ 081c
यदा त्वं युधि विक्रान्तौ वासुदेवधनञ्जयौ । 082a
द्रष्टास्येकरथे कर्ण तदा नैवं वदिष्यसि ॥ 082c
यदा शरशतैः पार्थो दर्पं तव वधिष्यति । 083a
तदा त्वमन्तरं द्रष्टा आत्मनश्चार्जुनस्य च ॥ 083c
देवासुरमनुष्येषु प्रख्यातौ यौ नरोत्तमौ । 084a
तौ मावमंस्था मौर्ख्यात्त्वं स्वद्योत इव रोचनौ ॥ 084c
सूर्याचन्द्रमसौ यद्वत्तद्वदर्जुनकेशवौ । 085a
प्रकाश्येनाभिविख्यातौ त्वं तु खद्योतवन्नृषु ॥ 085c
एवं विद्वन्मावमंस्थाः सूतपुत्राच्युतार्जुनौ । 086a
नरसिंहौ नरश्वा त्वं जोषमास्स्व विकत्थसे ॥ ॥ 086c
इति श्रीमन्महाभारते कर्णपर्वणि पञ्चत्रिंशोऽध्यायः ॥ 35 ॥
8-35-8 रुतं जयपराजयसूचकम् ॥ 8-35-9 निमित्तानि दिव्यान्तरिक्षभौमानि ग्रहाद्यानुकूल्यप्रातिकूल्यादीनि । निदर्शनं दृष्टान्तम् ॥ 8-35-15 अतिपातिनः गत्यतिशयगामिनः । चक्राङ्गाः मानसचारिणः ॥ 8-35-16 पतत्रिभ्योऽन्येभ्यः प्रतार्यमाणोऽन्यथाप्रत्याय्यमानः ॥ 8-35-19 श्रेष्ठभाक् श्रेष्ठं अङ्गं भजते ॥ 8-35-20 पतावः गच्छावः ॥ 8-35-29 मिषतां पश्यताम् ॥ 8-35-30 केन पातेन ॥ 8-35-33 एकं मुख्यम् ॥ 8-35-35 कथमेकेन पातेन जयेम शतपातिनम् । एकेनैव स यात्वेनं पातेनाभिविष्यसि इति ट.पाठः ॥