अध्यायः 034

कर्णेन मर्मोद्धाटनपूर्वकं शल्यगर्हणम् ॥ 1 ॥

सञ्जय उवाच । 001
अधिक्षिप्तस्तु राधेयः शल्येनामिततेजसा । 001a
शल्यमाह सुसङ्क्रुद्धो वाक्शल्यमवधारयन् ॥ 001c
कर्ण उवाच । 002
गुणान्गुणवतां शल्य गुणवान्वेत्ति नागुणः । 002a
त्वं तु नित्यं गुणैर्हीनः किं ज्ञास्यसि गुणागुणान् ॥ 002c
अर्जुनस्य महास्त्राणि क्रोधं वीर्यं धनुः शरान् । 003a
अहं शल्याभिजानामि न त्वं जानासि तत्तथा ॥ 003c
तथा कृष्णस्य माहात्म्यमृषभस्य महीक्षिताम् । 004a
यथाहं शल्य जानामि न त्वं जानासि तत्तथा ॥ 004c
एवमेवात्मनो वीर्यमहं वीर्यं च पाण्डवे । 005a
जानंस्तावाह्वये युद्धे शल्य नाग्निं पतङ्गवत् ॥ 005c
अस्ति चाऽयमिषुः शल्य सुपुङ्खो रक्तभोजनः । 006a
एकस्तूणीशयः पत्री सुधौतः समलङ्कृतः ॥ 006c
शेते चन्दनचूर्णेन पूजितो बहुलाः समाः । 007a
आहेयो विषवानुग्रो नराश्वद्विपसङ्घहा ॥ 007c
घोररूपो महारौद्रस्तनुत्रास्थिविदारणः । 008a
निर्भिन्द्यां येन रुष्टोऽहमपि मेरुं महागिरिम् ॥ 008c
तमहं जातु नास्येयमन्यस्मिन्फल्गुनादृते । 009a
कृष्णाद्वा देवकीपुत्रात्सत्यं चापि शृणुष्व मे ॥ 009c
तेनाहमिषुणा शल्य वासुदेवधनञ्जयौ । 010a
योत्स्ये परमसंरब्धौ तत्कर्म सदृशं मम ॥ 010c
सर्वेषां वृष्णिवीराणां कृष्णे लक्ष्मीः प्रतिष्ठिता । 011a
सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः । 011c
उभयं तु समासाद्य को निवर्तितुमर्हति ॥ 011e
तावेतौ पुरुषव्याघ्रौ समेतौ स्यन्दने स्थितौ । 012a
मामेकमभिसंयुद्धौ सुजातं पश्य शल्य मे ॥ 012c
पितृष्वसामातुलजौ भ्रातरावपराजितौ । 013a
मणी सूत्र इव प्रोतौ द्रष्टासि निहतौ मया ॥ 013c
अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्यकपिध्वजौ । 014a
भीरूणां त्रासजननं शल्य हर्षकरं मम ॥ 014c
त्वं तु दुष्प्रकृतिर्मूढो महायुद्धेष्वकोविदः । 015a
भयावदीर्णः सन्त्रासादबद्धं बहुः भाषसे ॥ 015c
संस्तौषि तौ तु केनापि हेतुना त्वं कुदेशज । 016a
तौ हत्वा समरे हन्ता त्वामद्य सह बान्धवम् ॥ 016c
पापदेशज दुर्बुद्धे क्षुद्र क्षत्रियपांसन । 017a
सुहृद्रूपो रिपुः किं मां कृष्णाभ्यां भीषयिष्यसि ॥ 017c
तौ वा मामद्य हन्तारौ हनिष्ये वाऽपि तावहम् । 018a
नाहं बिभेमि कृष्णाभ्यां विजानन्नात्मनो बलम् ॥ 018c
वासुदेवसहस्रं वा फल्गुनानां शतानि वा । 019a
अहमेको हनिष्यामि जोषमास्स्व कुदेशज ॥ 019c
स्त्रियो बालाश्च वृद्वाश्च प्रायः क्रीडागता जनाः ॥ 020ac
या गाथाः सम्प्रगायन्ति कुर्वतोऽध्ययनं यथा । 021a
ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु ॥ 021c
ब्राह्मणैः कथिताः पूर्वं यथावद्राजसन्निधौ । 022a
श्रुत्वा चैकमना मूढ मम वा ब्रूहि चोत्तरम् ॥ 022c
मित्रध्रुङ्भद्रको नित्यं यो नो द्वेष्टि स मद्रकः । 023a
मद्रके सङ्गतं नास्ति क्षुद्रवाक्ये नराधमे ॥ 023c
दुरात्मा मद्रको नित्यं नित्यमानृतिकोऽनृजुः । 024a
यच्चान्यदपि दौरात्म्यं मद्रकेष्विति नः श्रुतम् ॥ 024c
पिता पुत्रश्च माता च श्वश्रूश्वशुरमातुलाः । 025a
भगिनी दुहिता भ्राता नप्ताऽन्ये ते च बान्धवाः ॥ 025c
वयस्याभ्यागताश्चान्ये दासीदासाश्च सङ्गताः । 026a
पुम्भिर्विमिश्रा नार्यश्च ज्ञाताज्ञाताः स्वयेच्छया ॥ 026c
येषां गृहेष्वशिष्टानां सक्तुमद्याशिनां सदा । 027a
पीत्वा शीधु सगोमांसं क्रन्दन्ति च हसन्ति च ॥ 027c
गायन्ति चाप्यबद्धानि प्रवर्तन्ते च कामतः । 028a
कामप्रलापिनोऽन्योन्यं तेषु धर्मःकथं भवेत् ॥ 028c
मद्रकेष्ववलिप्तेषु प्रख्याताशुभकर्मसु । 029a
नापि वैरं न सौहार्दं मद्रकेण समाचरेत् ॥ 029c
मद्रके सङ्गतं नास्ति मद्रको हि सदा मलः । 030a
मद्रकेषु च संसृष्टं शौचं गान्धारकेषु च ॥ 030c
राजयाजकयाज्ये हि यथा दत्तं हविर्नशेत् । 031a
शूद्रसंस्कारको विप्रो यथा याति पराभवम् ॥ 031c
यथा ब्रह्मद्विषो नित्यं गच्छन्तीह पराभवम् । 032a
यथैव सङ्गतं कृत्वा नरः पतति मद्रकैः ॥ 032c
बालेष्वपि सदा न स्म धनं वृश्चिक ते विषम् । 033a
आथर्वणेन मन्त्रेण सर्वशान्तिः कृता मया ॥ 033c
इति वृश्चिकदष्टस्य विषवेगहतस्य च । 034a
कुर्वन्ति भेषजं प्राज्ञाः सत्यं तच्चापि दृश्यते ॥ 034c
एवं विद्वञ्जोषमास्स्व ब्रूहि चात्रोत्तरं वचः । 035a
वासांस्युत्सृज्य नृत्यन्ति स्त्रियो मद्यविमोहिताः ॥ 035c
मैथुनेऽसङ्गताश्चापि यथाकामवराश्च ताः । 036a
तासां पुत्र कथं धर्मं मद्रको वक्तुमर्हति ॥ 036c
यास्तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रदशेरकाः । 037a
तासां विभ्रष्टधर्माणां निर्लज्जानां ततस्ततः । 037c
त्वं पुत्रस्तादृशीनां हि धर्मं वक्तुमिहेच्छसि ॥ 037e
सौवीरकं याच्यमाना मद्रिका कर्षति स्फिचौ । 038a
अदातुकामा वचनमिदं वदति दारुणम् ॥ 038c
मा मां सौवीरकं कश्चिद्याचतां दयितं मम । 039a
पुत्रं दद्यां पतिं दद्यां न तु दद्यां सुवीरकम् ॥ 039c
गौर्यो बृहत्यो निर्ह्रीका मद्रिकाः कम्पलावृताः । 040a
घस्मरा नष्टशौचाश्च प्राय इत्यनुशुश्रुम ॥ 040c
प्रमेहित्वा स्फिचौ भूमौ घर्षन्त्यो हीनशोधनाः । 041a
शुद्धा नाद्भिर्न मृद्भिश्च नित्योच्छिष्टा भवन्ति हि ॥ 041c
एवमादि मयाऽन्यैर्वा शक्यं वक्तुं भवेद्बहु । 042a
आकेशान्तान्नखाग्राच्च वक्तव्येषु कुकर्मसु ॥ 042c
मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं त्विह । 043a
पापदेशोद्भवा म्लेच्छा धर्माणामविचक्षणाः ॥ 043c
एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम् । 044a
यदाजौ निहतः शेते सद्भिः समभिपूजितः ॥ 044c
आयुधानां साम्पराये यन्मुञ्चेयमहं ततः । 045a
ममैष प्रथमः कल्पो निधने स्वर्गमिच्छतः ॥ 045c
सोयं प्रियसखा चास्मि धार्तराष्ट्रस्य धीमतः । 046a
तदर्थे हि मम प्राणा यच्च मे विद्यते वसु ॥ 046c
व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज । 047a
यथा चामित्रवत्सर्वं त्वमस्मासु प्रवर्तसे ॥ 047c
कामं न खलु शक्योऽहं त्वद्विधानां शतैरपि । 048a
सङ्ग्रामाद्विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः ॥ 048c
सारङ्ग इव घर्मार्तः कामं विलप शुष्य च । 049a
नाहं भीषयितुं शक्यः क्षत्रधर्मे व्यवस्थितः ॥ 049c
तनुत्यजां नृसिंहानामाहवेष्वनिवर्तिनाम् । 050a
या गतिर्गुरुणा प्रोक्ता प्रेम्णा रामेण तां स्मरे ॥ 050c
स्वेषां त्राणार्थमुद्यन्तं वधार्थं द्विषतामपि । 051a
विद्धि मामास्थितं वृत्तं पौरूरवसमुत्तमम् ॥ 051c
न तद्भूतं प्रपश्यामि त्रिषु लोकेषु मद्रप । 052a
यो मामस्मादभिप्रायाद्वारयेदिति मे मतिः ॥ 052c
एवं विद्वञ्जोषमास्स्व त्रासात्किं बहु भाषसे । 053a
न त्वां हत्वा प्रदास्यामि क्रव्याद्भ्यो मद्रकाधम ॥ 053c
मित्रप्रतीक्षया शल्य धृतराष्ट्रस्य चोभयोः । 054a
अपवादतितिक्षाभिस्त्रिभिरेतैर्हि जीवसि ॥ 054c
पुनश्चेदीदृशं वाक्यं मद्रराज वदिष्यसि । 055a
शिरस्ते पातयिष्यासि गदया वज्रकल्पया ॥ 055c
श्रोतारस्त्विदमद्येह द्रष्टारो व्रा कुदेशज । 056a
कर्णं वा जघ्नतुः कृष्णौ कर्णो वा निजघान तौ ॥ 056c
एवमुक्त्वा तु राधेयः पुनरेव विशाम्पते । 057a
अब्रवीन्मद्रराजानं याहियाहीत्यसम्भ्रमम् ॥ ॥ 057c

इति श्रीमन्महाभारते कर्णपर्वणि चतुस्त्रिंशोऽध्यायः ॥ 34 ॥

8-34-7 आहेयः सर्पमयः ॥ 8-34-9 नास्येयं न क्षिपेयम् ॥ 8-34-12 सुजातं शोभनं जन्म ॥ 8-34-13 प्रोतौ एकसूत्रे मणीइव प्रेमसम्बद्धौ ॥ 8-34-19 जोषं तूष्णीम् । आस्स्व तिष्ठ ॥ 8-34-20 क्रीडागताः लीलया आगताः ॥ 8-34-21 मद्रकेषु कुत्सितेषु मद्रदेशेषु ॥ 8-34-22 क्षम वा ब्रूहि चोत्तरम् इति झ.पाठः ॥ 8-34-24 अनृतेन चरतीत्यानृतिकः ॥ 8-34-26 पुम्भिः पुरुषैः विमिश्राः सङ्गताः । इच्छया मैथुनिनोऽज्ञातवत् ज्ञाता अप्यविगीता इत्यर्थः ॥ 8-34-27 येषां मद्रकाणां सक्तुमिश्रितमत्स्याशिनाम् । शीधु मद्यम् ॥ 8-34-30 मद्रकेषु संसृष्टं नष्टं एवं गान्धारकेषु शौचं नष्टं भवेत् ॥ 8-34-31 राजा याजको यस्य तस्मिन्याज्ये हविर्नष्टं भवेत् ॥ 8-34-32 यथैवेति । यथा मद्रकैः सङ्गतं कृत्वा पतति हेवृश्चिक तथा ते विषं हतमित्यध्याहारः । यद्येतत्सत्यं तर्हि तव विषं नश्यत्विति मन्त्रेण सर्वथा विषं नश्यतीत्यर्थः । मयेत्यात्मानुभवसिद्धमिदमिति द्योतयति ॥ 8-34-33 यथैवेति । यथा मद्रकैः सङ्गतं कृत्वा पतति हेवृश्चिक तथा ते विषं हतमित्यध्याहारः । यद्येतत्सत्यं तर्हि तव विषं नश्यत्विति मन्त्रेण सर्वथा विषं नश्यतीत्यर्थः । मयेत्यात्मानुभवसिद्धमिदमिति द्योतयति ॥ 8-34-36 यथाकामं वरयन्तिताः । मैथुने सङ्गता याश्च तथा कामकराश्च ह । तासां पुत्रो मम कथं मद्रको योगमर्हति । इति क.पाठः ॥ 8-34-37 प्रमेहन्ति मूत्रयन्ते । दशेरकाः गर्दभाः । यथैवोष्ट्रा यथेळकाः इति ट.पाठः ॥ 8-34-38 सुवीरकं काञ्जिकम् । स्फिचौ कटिप्रोथौ ॥ 8-34-40 निर्ह्रीकाः निर्लज्जाः । घस्मराः बहुभक्षकाः ॥ 8-34-42 वक्तव्येषु गर्हणीयेषु ॥ 8-34-45 साम्पराये समूहे सङ्ग्रामे इत्यर्थः । मुञ्चेयं जीवितमिति शेषः ॥ 8-34-47 उपहितः उपजप्त ॥ 8-34-49 सारङ्ग इव घर्मान्ते इति क.ड.पाठः ॥ 8-34-54 अपवादो निन्दा तितिक्षा च तैस्त्रिभित्रर्हेतुभिः ॥