अध्यायः 033
कर्णगर्वोक्तिमसहमानेन शल्येन तद्ग्रर्हणम् ॥ 1 ॥
शल्य उवाच । 001
मा सूतपुत्र मन्येत(थाः) सौवर्णं हस्तिषङ्गवम् । 001a
प्रयच्छसि मुधैव त्वं द्रक्ष्यस्यद्य धनञ्जयम् ॥ 001c
मा सूतपुत्र दानेन सौवर्णं हस्तिषङ्गवम् । 002a
प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनञ्जयम् ॥ 002c
बलेन मत्तस्त्यजसि वसु वैश्रवणो यथा । 003a
अयत्नेनैव राधेय द्रष्टास्यद्य धनञ्जयम् ॥ 003c
पुरा सृजसि यच्चापि वित्तं बहु च मूढवत् । 004a
अपात्रदानाद्ये दोषास्तान्मोहान्नावबुध्यसे ॥ 004c
यत्प्रवेदयसे वित्तं बहु तेन खलु त्वया । 005a
शक्यं बहुविधैर्यज्ञैर्यष्टुं सूत यजस्व तैः ॥ 005c
यच्च प्रार्थयसे हन्तुं कृष्णौ मोहाद्वृथैव तत् । 006a
न हि शुश्रुम सम्मर्दे क्रोष्ट्रा सिंहौ निपातितौ ॥ 006c
अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते । 007a
ये त्वां निवारयन्त्याशु प्रपतन्तं हुताशने ॥ 007c
कार्याकार्यं न जानीषे कालपक्कोऽस्यसंशयम् । 008a
बह्वबद्धमकर्णीयं को हि ब्रूयाज्जिजीविषुः ॥ 008c
समुद्रतरणं दोर्भ्यां कण्ठे बद्ध्वा यथा शिलाम् । 009a
गिर्यग्राद्वा निपतनं तादृक्तव चिकीर्षितम् ॥ 009c
सहितः सर्वयोधैस्त्वं व्यूढानीकैः सुरक्षितः । 010a
धनञ्जयेन युध्यस्व श्रेयश्चेत्प्राप्तुमिच्छसि ॥ 010c
हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वां न हिंसया । 011a
श्रद्धस्वेदं मया प्रोक्तं यदि तेऽस्ति जिजीविषा ॥ 011c
कर्ण उवाच । 012
स्वबाहुवीर्यमाश्रित्य प्रार्थयाम्यर्जुनं रणे । 012a
त्वं तु मित्रमुखः शत्रुर्मां भीषयितुमिच्छसि ॥ 012c
न मामस्मादभिप्रायात्कश्चिदद्य निवर्तयेत् । 013a
अपीन्द्रो वज्रमुद्यम्य किमु मर्त्यः कथञ्चन ॥ 013c
सञ्जय उवाच । 014
इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः । 014a
चुकोपयिषुरत्यर्थं कर्णं मद्रेश्वरः पुनः ॥ 014c
यदा वै त्वां फल्गुनबाहुवेगा ज्ज्याचोदिता वेगवन्तोऽग्निकल्पाः । 015a
अन्वेतारः कङ्कपत्राः शिताग्रा स्त्यक्ष्यत्येषा त्वां तदा कर्ण बुद्धिः ॥ 015c
यदा दिव्यं धनुरादाय पार्थः प्रतापयन्पृतनां सव्यसाची । 016a
त्वां मर्दयिष्यत्यसुखैः पृषत्कैस्तदापृच्छां त्यक्ष्यसे पाण्डवस्य ॥ 016c
बालश्चन्द्रं मातुरङ्के शयानो यथा कश्चित्प्रार्थयतेऽपहर्तुम् । 017a
तद्वन्मोहाद्द्योतमानं रथस्थं जेतुं पार्थं काङ्क्षसे सूतपुत्र ॥ 017c
हरादस्त्रं तीक्ष्णधारं यथाऽद्य सर्वाणि गात्राणि निकर्षसि त्वम् । 018a
सुतीक्ष्णशस्त्रोपमकर्मणेह युयुत्ससे फल्गुनेनाद्य कर्ण ॥ 018c
हन्यादसिं तीक्ष्णधारं यथाऽतः सुतेजनं निहितं वै पृथिव्याम् । 019a
तथा खनस्यद्य शितान्पृषत्का न्यथार्थयस्यर्जुनेनेह युद्धम् ॥ 019c
त्रिशूलमाश्लिष्य सुतीक्ष्णधारं सर्वाणि गात्राणि विघर्षसि त्वम् । 020a
सुतीक्ष्णधारोपमकर्मणा त्वं युयुत्ससे योऽर्जुनेनाद्य कर्ण ॥ 020c
क्रुद्धं सिंहं केसरिणं बृहन्तं बालो मूढः क्षुद्रमृगस्तरस्वी । 021a
समाह्वयेद्धृष्टमुपेत्य योद्धुं तथा त्वमद्याह्वयसे हि पार्थम् ॥ 021c
मा सूतपुत्राह्वय राजपुत्रं महावीर्यं केसरिणं यथैव । 022a
वने शृगालः पिशितेन तृप्तः पार्थं समासाद्य विनङ्क्ष्यसि त्वम् ॥ 022c
ईषादन्तं महानागं प्रभिन्नकरटामुखम् । 023a
शशको ह्वयसे युद्धे कर्ण पार्थं धनञ्जयम् ॥ 023c
बिलस्थं कृष्णसर्पं त्वं बाल्यात्काष्ठेन विध्यसि । 024a
महाविषं पूर्णकोपं यत्पार्थं योद्धुमिच्छसि ॥ 024c
सिंहं केसरिणं क्रुद्धमभिक्रम्याभिनर्दसे । 025a
शृगाल इव मूढस्त्वं नृसिंहं कर्ण पाण्डवम् ॥ 025c
सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम् । 026a
खगेवाह्वयसे पार्थं तथा कर्णं धनञ्जयम् ॥ 026c
सर्वाम्भसां निधिं भीमं मूर्तिमन्तं झषाकुलम् । 027a
चन्द्रोदये विवर्धन्तमप्लवस्त्वं तितीर्षसि ॥ 027c
ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम् । 028a
वत्स आह्वयसे युद्धे कर्ण पार्थं धनञ्जयम् ॥ 028c
महामेघं महाघोषं दर्दुरः प्रतिनर्दसि । 029a
बाणतोयप्रदं काले नरपर्जन्यमर्जुनम् ॥ 029c
यथा च श्वा गृहस्थस्तु व्याघ्रं वनगतं भषेत् । 030a
तथा त्वं भषसे कर्ण नरव्याघ्रं धनञ्जयम् ॥ 030c
शृगालो हि वने कर्ण शशैः परिवृतो वसन् । 031a
मन्यते सिंहमात्मानं यावत्सिंहं न पश्यति ॥ 031c
तथा त्वमपि राधेय सिंहमात्मानमिच्छसि । 032a
अपश्यञ्शत्रुदमनं नरसिंहं रणेऽर्जुनम् ॥ 032c
व्याघ्रं त्वं मन्यसेऽऽत्मानं यावत्कृष्णौ न पश्यसि । 033a
समास्थितावेकरथे सूर्याचन्द्रमसाविव ॥ 033c
यावद्गाण्डीवघोषं त्वं न शृणोषि महाहवे । 034a
तावदेव त्वया कर्ण शक्यं वक्तुं यथेच्छसि ॥ 034c
रथशङ्खधनुःशब्दैर्नादयन्तं दिशो दश । 035a
नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि ॥ 035c
नित्यमेव शृगालस्त्वं नित्यं सिंहो धनञ्जयः । 036a
वीरप्रद्वेषणान्मूढ तस्मात्क्रोष्टेव लक्ष्यसे ॥ 036c
यथाऽऽखुः स्याद्विडालश्च श्वा व्याघ्रश्च बलाबले । 037a
यथा शृगालः सिंहश्च यथा च शशकुञ्जरौ ॥ 037c
यथाऽनृतं च सत्यं च यथा चापि विषामृते । 038a
तथा त्वमपि पार्थश्च प्रख्यातावात्मकर्मभिः ॥ ॥ 038c
इति श्रीमन्महाभारते कर्णपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥
8-33-3 वसु वित्तम् । द्रष्टासि द्रक्ष्यसि ॥ 8-33-8 अबद्धं अनर्थकम् । अकर्णीयं अनाकर्णनीयम् ॥ 8-33-10 सहितो युध्यस्व नत्वेकाकी ॥ 8-33-27 झषैर्मीनैराकुलं पूर्णम् । अप्लवः बाहुभ्यामित्यर्थः ॥ 8-33-28 दुन्दुभिग्रीवं दुन्दुभिस्वनकण्ठम् ॥