अध्यायः 032
कर्णेन स्वस्यार्जुनप्रदर्शकाय तदभिमतपारितोषिकप्रदानप्रतिज्ञानम् ॥ 1 ॥
सञ्जय उवाच । 001
प्रयत्नेन तदा कर्णो हर्षयन्वाहिनीं तव । 001a
एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत ॥ 001c
यो ममाद्य महात्मानं दर्शयेच्छ्वेतवाहनम् । 002a
तस्मै दद्यामभिप्रेतं धनं यन्मनसेच्छति ॥ 002c
न चेत्तदभिमन्येत तस्मै दद्यामहं पुनः । 003a
शकटं रत्नसम्पूर्णं यो मे ब्रूयाद्धनञ्जयम् ॥ 003c
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् । 004a
शतं दद्यां गवां तस्मै नैत्यकं कांस्यदोहनम् ॥ 004c
शतं ग्रामवरांश्चैव दद्यामर्जुनदर्शिने । 005a
तथा तस्मै पुनर्दद्यां श्वेतमश्वतरीरथम् । 005c
युक्तमञ्जनकेशीभिर्यो मे ब्रूयाद्धनञ्जयम् ॥ 005e
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् । 006a
अन्यं वाऽस्मै पुनर्दद्यां सौवर्णं हस्तिषङ्गवम् ॥ 006c
तथाप्यस्मै पुनर्दद्यां स्त्रीणां शतमलङ्कृतम् । 007a
श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम् ॥ 007c
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् । 008a
तस्मै दद्यां शतं नागाञ्शतं ग्रामाञ्शतं रथान् ॥ 008c
सुवर्णस्य च मुख्यस्य हयाग्र्याणां शतं शतान् । 009a
ऋद्ध्या गुणैः सुदान्तांश्च धुर्यवाहान्सुशिक्षितान् ॥ 009c
तथा सुवर्णशृङ्गीणां गोधेनूनां चतुःशतम् । 010a
दद्यां तस्मै सवत्सानां यो मे ब्रूयाद्धनञ्जयम् ॥ 010c
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् । 011a
अन्यदस्मै वरं दद्यां श्वेतान्पञ्चशतान्हयान् ॥ 011c
हेमभाण्डपरिच्छन्नान्सुमृष्टमणिभूषणान् । 012a
सुदान्तानपि चैवाहं दद्यामष्टादशापरान् ॥ 012c
रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलङ्कृतम् । 013a
युक्तं परमकाम्भोजैर्यो मे ब्रूयाद्वनञ्जयम् ॥ 013c
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् । 014a
अन्यदस्मै वरं दद्यां कुञ्जराणां शतानि षट् ॥ 014c
काञ्चनैर्विविधैर्भाण्डैराच्छन्नान्हेममालिनः । 015a
उत्पन्नानपरान्तेषु विनीतान्हस्तिशिक्षकैः ॥ 015c
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् । 016a
अन्यदस्मै वरं दद्यां वैश्यग्रामांश्चतुर्दश ॥ 016c
सुस्फीतान्धनसंयुक्तान्प्रत्यासन्नवनोदकान् । 017a
अकुतोभयान्सुसम्पन्नान्राजभोज्यांश्चतुर्दश ॥ 017c
दासीनां निष्ककण्ठीनां मागधीनां शतं तथा । 018a
प्रत्यग्रवयसां दद्यां यो मे ब्रूयाद्धनञ्जयम् ॥ 018c
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् । 019a
अन्यं तस्मै वरं दद्यां यमसौ कामयेत्स्वयम् ॥ 019c
पुत्रदारान्विहायैव यदन्यद्वित्तमस्ति मे । 020a
तच्च तस्मै पुनर्दद्यां यद्यच्च मनसेच्छति ॥ 020c
हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः । 021a
तस्मै दद्यामहं यो मे प्रब्रूयात्केशवार्जुनौ ॥ 021c
सञ्जय उवाच । 022
एता वाचः सुबहुशः कर्ण उच्चारयन्युधि । 022a
दध्मौ सागरसम्भूतं सुस्वरं शङ्खमुत्तमम् ॥ 022c
ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु । 023a
दुर्योधनो महाराज संहृष्टः सानुजोऽभवत् ॥ 023c
ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशः । 024a
सिंहनादः सवादित्रः कुञ्चराणां च निःस्वनः ॥ 024 c
प्रादुरासीत्तदा राजंस्त्वत्सैन्ये पुरुषर्षभ । 025a
योधानां सम्प्रहृष्टानां तथा समभवत्स्वनः ॥ 025c
तथा प्रहृष्टे सैन्ये तं प्लुवमानं महारथम् । 026a
विकत्थमानं च तदा राधेयमरिकर्शनम् । 026c
मद्रराजः प्रहस्येदं वचनं प्रत्यभाषत ॥ ॥ 026e
इति श्रीमन्महाभारते कर्णपर्वणि द्वात्रिंशोऽध्यायः ॥ 32 ॥
8-32-3 अभिमन्येत अल्पमित्यवजानीत ॥ 8-32-5 अञ्जनकेशीभिः कृष्णकेशीभिरश्वतरीभिर्युवतीभिर्वा युक्तम् ॥ 8-32-6 हस्तिषड्गवं हस्तिषट्कम् षट्त्वे षड्गवजित्यनेन षड्गवच्प्रत्ययः । हस्तिषड्गवमिच्छन्ति वीराः षट्के च दन्तिनामिति प्राञ्चः । अन्यं वा सौवर्णरथमिति शेषः । हस्तितुल्याः षट् गाव उक्षाणो यस्मिन् तम् । षट्हस्तिन एव गोवत् वोढारो यस्य तादृशम् ॥ 8-32-7 श्यामानामप्रजातानाम् । निष्कमुरोभूषणम् ॥ 8-32-9 शतंशतान्दशसहस्राणि । ऋद्ध्या पुष्ट्या । सुदान्तान् विनीतान् । धुर्यवाहान् रथोद्वहनक्षमान् ॥ 8-32-12 भाण्डमाभरणम् ॥ 8-32-15 अपरान्तेषु पश्चिमकच्छेषु ॥ 8-32-18 प्रत्यग्रवयसामभिनवयौवनानाम् ॥ 8-32-26 प्लवमानं प्रयान्तम् ॥