श्रीः अध्यायः 031

कर्णस्य रणप्रयाणकाले दुर्निमित्तप्रादुर्भावः ॥ 1 ॥ कर्णेनात्मश्लाघनपूर्वकं पार्थवधे प्रतिज्ञाते तदसहमानेन शल्येनार्जुनप्रशंसनपूर्वकं कर्णोपालम्भः ॥ 2 ॥

सञ्जय उवाच । 001
दृष्ट्वा कर्णं महावीर्यं युयुत्सुं समवस्थितम् । 001a
चुक्रुशुः कुरवः सर्वे हृष्टरूपाः समन्ततः ॥ 001c
ततो दुन्दुभिनिर्घोषैर्भेरीणां निनदेन च । 002a
कोणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम् । 002c
निर्ययुस्तावकाः सर्वे मृत्युं कृत्वा निवर्तनम् ॥ 002e
प्रयाते तु ततः कर्णे रथेषु मुदितेषु च । 003a
चचाल च मही सर्वा ररास च सुविस्वरम् ॥ 003c
निःसरन्तो व्यदृश्यन्त सूर्यात्सप्त महाग्रहाः ॥ 004ac
उल्कापाताश्च सञ्जज्ञुर्दिग्दाहाश्चैव दारुणाः । 005a
तथाऽशन्यश्च सम्पेतुर्ववुर्वाताश्च भैरवाः ॥ 005c
मृगपक्षिगणाश्चैव पृतनां बहुशस्तव । 006a
अपसव्यं तदा चक्रुर्वेदयन्तो महाभयम् ॥ 006c
प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि । 007a
अस्थिवर्षं च पतितमन्तरिक्षाद्भयानकम् ॥ 007c
जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे । 008a
अश्रूणि च व्यमुञ्चन्त वाहनानि विशाम्पते ॥ 008c
एते चान्ये च बहव उत्पातास्तत्र मारिष । 009a
समुत्पेतुर्विनाशाय कौरवाणां सुदारुणाः ॥ 009c
न च तान्गणयामासुः सर्वे दैवेन मोहिताः । 010a
प्रस्थितं सूतपुत्रं च जयेत्यूचुर्नराधिपाः ॥ 010c
'शल्येन सहितं दृष्ट्वा कर्णमाहवशोभिनम्' । 011a
निर्जितान्पाण्डवांश्चैव मेनिरे तत्र कौरवाः ॥ 011c
ततो रथस्थः परवीरहन्ता भीष्मद्रोणवतिवीर्यौ समीक्ष्य । 012a
समुज्ज्वलन्भास्करपावकाभो वैकर्तनोऽसौ रथकुञ्जरो वृषा ॥ 012c
स शल्यमाभाष्य जगाद वाक्यं पार्थस्य दृष्ट्वाऽप्रतिमं च कर्म । 013a
मानेन दर्पेण विदह्यमानः क्रोधेन दीप्यन्निव निःश्वसंश्च ॥ 013c
नाहं महेन्द्रादपि वज्रपाणेः क्रुद्धात्बिभेम्यात्तधनू रथस्यः । 014a
दृष्ट्वाऽपि भीष्मप्रमुखाञ्शयानान्नत्वेव मां सा स्थिरता जहाति ॥ 014c
महेन्द्रविष्णुप्रतिमावनिन्दितौ रथाश्वनागाप्रवरप्रमाथिनौ । 015a
अवध्यकल्पौ निहतौ यदा परैस्तथापि मे नास्ति रणेऽद्य साध्वसम् ॥ 015c
समीक्ष्य सङ्ख्येऽतिबलान्नराधिपान्ससूतमातङ्गरथान्परैर्हितान् । 016a
कथं न सर्वानहितान्रणेऽवधीन्महास्त्रविद्ब्राह्मणपुङ्गवो गुरुः ॥ 016c
स संस्मरन्द्रोणमहं महाहवे ब्रवीमि सत्यं कुरवो निबोधत । 017a
न वो मदन्यः प्रसहेद्रणेऽर्जुनं समागतं मृत्युमिवोग्ररूपिणम् ॥ 017c
शिक्षा प्रसादश्च बलं धृतिश्च द्रोणे महास्त्राणि च सन्नितश्च । 018a
स चेदगान्मृत्युवशं महात्मा सर्वानन्यानातुरानद्य मन्ये ॥ 018c
नेह ध्रुवं किञ्चिदपि प्रचिन्तयन्वदामि लोके कर्मणो नित्ययोगात् । 019a
सूर्योदये को हि विमुक्तसंशयो भावं कुर्वीताद्य गुरौ निपातिते ॥ 019c
न नूनमस्त्राणि बलं पराक्रमः क्रियाः सुनीतं परमायुधानि वा । 020a
अलं मनुष्यस्य सुखाय वर्तितुं तथाहि युद्धे निहतः परैर्गुरुः ॥ 020c
हुताशनादित्यसमानतेजसं पराक्रमे विष्णुपुरन्दरोपमम् । 021a
नये बृहस्पत्युशनःसमं सदा न चैनमस्त्रं तदुपास्त दुःसहम् ॥ 021c
सम्प्राक्रुष्टे रुदितस्त्रीकुमारे पराभूते पौरुषे धार्तराष्ट्रे । 022a
कृत्यं मया नाद्य जानामि शल्य प्रयाहि तस्माद्द्विषतामनीकम् ॥ 022c
स यत्र राजा पाण्डवः सत्यसन्धो व्यवस्थितो भीमसेनार्जुनौ च । 023a
स वासुदेवः सात्यकिः सृञ्जयाश्च यमौ च कस्तान्विषहेन्मदन्यः ॥ 023c
तस्मात्क्षिप्रं मद्रपते प्रयाहि रणे पाञ्चालान्पाण्डवान्सृञ्जयांश्च । 024a
तान्वा हनिष्यामि समेत्य सङ्ख्ये यास्यामि वा द्रोणमुखो यमाय ॥ 024c
न त्वेवाहं न गमिष्यामि मध्ये तेषां शूराणामिति शल्याद्य विद्धि । 025a
मित्रद्रोहो मर्षणीयो न मेऽयं त्यक्त्वा प्राणाननुयास्यामि द्रोणम् ॥ 025c
प्राज्ञस्य मूढस्य च जीवितान्ते नास्ति प्रमोक्षोऽन्तकसन्निभस्य । 026a
अतो विद्वन्नभियोत्स्यामि पार्थं दिष्टं न शक्यं व्यतिवर्तितुं वै ॥ 026c
कल्याणवृत्तः सततं हि राजा वैचित्रवीर्यस्य सुतो ममासीत् । 027a
तस्यार्थसिद्ध्यर्थमहं त्यजामि प्रियान्भोगान्दुस्त्यजं जीवितं च ॥ 027c
वैयाघ्रचर्माणमकूजनाक्षं हैमं त्रिकोशं रजतत्रिवेणुम् । 028a
रथप्रबर्हं तुरगप्रबर्हैर्युक्तं प्रादान्मह्यमिमं हि रामः ॥ 028c
धनूंषि चित्राणि निरीक्ष्य शल्यध्वजान्गदाः सायकांश्चोग्ररूपान् । 029a
असिं च दीप्तं परमायुधं च शङ्खं च शुभ्रं स्वनवन्तमुग्रम् ॥ 029c
पताकिनं वज्रनिपातनिः स्वनं सिताश्वयुक्तं शुभतूणशोभितम् । 030a
इमं समास्थाय रथर्षभं रणे दृढं हनिष्याम्यहमर्जुनं बलात् ॥ 030c
तं चेन्मृत्युः सर्वहरोऽभिरक्षेत्सदाऽप्रमत्तः समरे पाण्डुपुत्रम् । 031a
तं वा हनिष्यामि रणे समेत्य यास्यामि वा द्रोणमुखो यमाय ॥ 031c
यमवरुणकुबेरवासवा वा यदि युगपत्सगणा महाहवे । 032a
जुगुपुरिह समेत्य फल्गुनं किमु बहुना सह तैर्जयामि तम् ॥ 032c
सञ्जय उवाच । 033
इति रणरभसस्य कत्थतस्तदुपनिशम्य वचः स मद्रराट् । 033c
अवहसदवमन्य वीर्यवान्प्रतिषिषिधे च जगाद चोत्तरम् ॥ 033a
शल्य उवाच । 034
विरम विरम कर्ण कत्थनादतिरभसोऽप्यतिवाचमुक्तवान् । 034a
क्व च हि नरवरो धनञ्जयः क्व पुनरिह त्वमहो नराधमः ॥ 034c
यदुसदनमुपेन्द्रपालितं त्रिदिवमिवामरराजरक्षितम् । 035a
प्रसभमतिविलोड्य को हरेत्पुरुषवरावरजामृतेऽर्जुनात् ॥ 035c
त्रिभुवनसृजमीश्वरेश्वरं क इह पुमान्भवमाह्वयेद्युधि । 036a
मृगवधकलहे ऋतेऽर्जुनात्सुरपतिवीर्यसमप्रभावतः ॥ 036c
असुरसुरमहोरगान्नरान्गरुडपिशाचसयक्षराक्षसान् । 037a
इषुभिरजयदग्निगौरवात्स्वभिलषितं च हविर्ददौ जयः ॥ 037c
स्मरसि ननु यदा परैर्हृतः सहधृतराष्ट्रसुतो विमोक्षितः । 038a
अधिरथज नरोत्तमैर्युतान्कुरुषु बहून्विनिहत्य तानरीन् ॥ 038c
प्रथममपि पलायिते त्वयि प्रियकलहा धृतराष्ट्रसूनवः । 039a
स्मरसि ननु यदा प्रमोचिताः खचरगणानवजित्य पाण्डवैः ॥ 039c
समुदितबलवाहनाः पुनः पुरुषवरेण जिताः स्थ गोग्रहे । 040a
सगुरुगुरुसुताः सभीष्मकाः किमु न जितः स तदा त्वयाऽर्जुनः ॥ 040c
इदमपरमुपस्थितं पुनस्तव निधनाय सुयुद्धमद्य वै । 041a
यदि न रिपुभयात्पलायसे समरगतोऽद्य हतोऽसि सूतज ॥ 041c
सञ्जय उवाच । 042
इति बहुपरुषं प्रभाषति प्रमनसि मद्रपतौ रिपुस्तवम् । 042a
भृशमभिरुषितः परन्तपः कुरुपृतनापतिराह मद्रपम् ॥ 042c
कर्ण उवाच । 043
भवतु भवतु किं विकत्थसे ननु मम तस्य हि युद्धमुद्यतम् । 043a
यदि स जयति मामिहाहवे तत इदमस्तु सुकत्थितं तव ॥ 043c
सञ्जय उवाच । 044
एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान् । 044a
याहि शल्येति चाप्येनं कर्णः प्राह युयुत्सया ॥ 044c
स रथः प्रययौ शत्रून्निघ्नतः शल्यसारथिः । 045a
निघ्नन्नमित्रान्समरे तमोघ्नः सविता यथा ॥ 045c
ततः प्रायात्प्रीतिमान्वै रथेन वैयाघ्रेण श्वेतयुजाऽथ कर्णः । 046a
स चालोक्य ध्वजिनीं पाण्डवानां धनञ्जयं त्वरया पर्यपृच्छत् ॥ ॥ 046c

इति श्रीमन्महाभारते कर्णपर्वणि एकत्रिंशोऽध्यायः ॥ 31 ॥

8-31-2 तरस्विनामश्वादीनाम् ॥ 8-31-3 ररास शब्दं चकार ॥ 8-31-4 निःसरन्तो युद्धार्थमिति शेषः । सूर्यात्सूर्यमारभ्य । सूर्यादयोऽन्योन्यं युध्यन्तीत्यर्थः ॥ 8-31-12 भीष्मद्रोणौ अतिक्रान्तं वीर्यं ययोस्तावतिवीर्यौ समीक्ष्य स्वकृत्यमालोच्य जगादेत्युत्तरेणान्वयः ॥ 8-31-13 अभाष्य सम्बोध्य 8-31-18 आतुरान् आसन्नमृत्यून् ॥ 8-31-19 भाव श्वोऽहं स्थायामीति निश्चयम् ॥ 8-31-20 अस्त्रादीनि मनुष्यस्य सुखाय वर्तितुं नालमिति सम्बन्धः ॥ 8-31-21 उपास्त उपातिष्ठत । त्रातुमिति शेषः । अस्त्रं अस्त्रादि ॥ 8-31-25 तेषां भीष्मादीनां मध्ये न गमिष्यामीति न अपितु गमिष्याम्येवेत्यर्थः । सङ्ग्रामात्पलायने हि मित्रस्य दुर्योधनस्य द्रोहः कृतः स्यात्तच्चासह्यम् ॥ 8-31-26 जीवितान्ते आयुषः समाप्तौ । प्रमोक्षो मृत्युनिवर्तनम् ॥ 8-31-28 वैयाघ्रचर्माणं व्याघ्रचर्मपरिवृतम् ॥ 8-31-33 रणरभसस्य रणोत्कटस्य ॥ 8-31-34 अतिरभसोऽपि त्वं अतिवाचं स्वसामर्थ्यादधिकाम् ॥ 8-31-35 पुरुषवरस्य कृष्णस्यावरजां कनीयसीं सुभद्राम् ॥ 8-31-39 खचरगणान् गन्धर्वान् ॥ 8-31-46 श्वेतयुजा श्वेताश्वयुजा ॥