अध्यायः 030
शल्येन सारथीभूयाधिष्ठितं रथमधिष्ठाय कर्णस्य रणाय निर्याणम् ॥ 1 ॥
दुर्योधन उवाच । 001
अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति । 001a
कृष्णादभ्यधिको यन्ता देवेशस्येव मातलिः ॥ 001c
यथा हरिहयैर्युक्तं सङ्गृह्णाति स मातलिः । 002a
शल्यस्तथा तवाद्यायं संयन्ता रथवाजिनाम् ॥ 002c
योधे त्वयि रथस्थे च मद्रराजे च सारथौ । 003a
रथश्रेष्ठो ध्रुवं सङ्ख्ये पार्थानभिभविष्यति ॥ 003c
सञ्जय उवाच । 004
ततो दुर्योधनो भूयो मद्रराजं तरस्विनम् । 004a
उवाच राजन्सङ्ग्रामेऽध्युषिते पर्युपस्थिते ॥ 004c
कर्णस्य यच्छ सङ्ग्रामे मद्रराज हयोत्तमान् । 005a
त्वयाऽभिगुप्तो राधेयो विजेष्यति धनञ्जयम् ॥ 005c
इत्युक्तो रथमास्थाय तथेति प्राह भारत । 006a
शल्येऽभ्युपगते कर्णः सारथिं सुमनाऽब्रवीत् ॥ 006c
त्वं सूत स्यन्दनं मह्यं कल्पयेत्यसकृत्त्वरन् ॥ 007ac
ततो जैत्रं रथवरं गन्धर्वनगरोपमम् । 008a
विधिवत्कल्पितं भद्रं जयेत्युक्त्वा न्यवेदयत् ॥ 008c
तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि । 009a
सम्पादितं ब्रह्मविदा पूर्वमेव पुरोधसा ॥ 009c
कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम् । 010a
समीपस्थं मद्रराजमारोह त्वमथाब्रवीत् ॥ 010c
ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत् । 011a
आरुरोह महातेजाः शल्यः सिंह इवाचलम् ॥ 011c
ततः शल्याश्रितं दृष्ट्वा कर्णः स्वं रथमुत्तमम् । 012a
अध्यतिष्ठद्यथाऽम्भोदं विद्युत्वन्तं दिवाकरः ॥ 012c
तावेकरथमारूढावादित्याग्निसमत्विषौ । 013a
अभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि ॥ 013c
संस्तूयमानौ तौ वीरौ तदास्तां द्युतिमत्तमौ । 014a
ऋत्विक्सदस्यैरिन्द्राग्नी स्तूयमानाविवाध्वरे ॥ 014c
स शल्यसङ्गृहीताश्वे रथे कर्णः स्थितो बभौ । 015a
धनुर्विष्फारयन्घोरं परिवेषीव भास्करः ॥ 015c
आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान् । 016a
प्रबभौ पुरुषव्याघ्रो मन्दरस्थ इवांशुमान् ॥ 016c
तं रथस्थं महाबाहुं युद्धायामिततेजसम् । 017a
दुर्योधनस्तु राधेयमिदं वचनमब्रवीत् ॥ 017c
अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संयुगे । 018a
कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम् ॥ 018c
मनोगतं मम ह्यासीद्भीष्मद्रोणौ महारथौ । 019a
अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम् ॥ 019c
ताभ्यां यदकृतं वीर वीरकर्म महामृधे । 020a
तत्कर्म कुरु राधेय वज्रपाणिरिवापरः ॥ 020c
गृहाण धर्मराजं वा जहि वा त्वं धनञ्जयम् । 021a
भीमसेनं च राधेय माद्रीपुत्रौ यमावपि ॥ 021c
जयश्च तेऽस्तु भद्रं ते प्रयाहि पुरुषर्षभ । 022a
पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात् ॥ 022c
ततस्तूर्यसहस्राणि भेरीणामयुतानि च । 023a
वाद्यमानान्यरोचन्त मेघशब्दो यथा दिवि ॥ 023c
प्रतिगृह्य तु तद्वाक्यं रथस्थो रथसत्तमः । 024a
अभ्यभाषत राधेयः शल्यं युद्धविशारदम् ॥ 024c
चोदयाश्वान्महाबाहो यावद्धन्मि धनञ्जयम् । 025a
भीमसेनं यमौ चोभौ राजानं च युधिष्ठिरम् ॥ 025c
अद्य पश्यतु मे शल्य बाहुवीर्यं धनञ्जयः । 026a
अस्यतः कङ्कपत्राणां सहस्राणि शतानि च ॥ 026c
अद्य क्षेप्स्याम्यहं शल्य शरान्परमतेजनान् । 027a
पाण्डवानां विनाशाय दुर्योधनजयाय च ॥ 027c
सञ्जय उवाच । 028
एतच्छ्रुत्वा वचस्तस्य शल्यः कर्णं वचोऽब्रवीत् । 028a
कथं नु तान्महावीर्यान्पाण्डवानवमन्यसे ॥ 028c
सर्वास्त्रज्ञान्महेष्वासान्सर्वानेव महाबलान् । 029a
अनिवर्तिनो महाभागानजय्यान्सत्यविक्रमान् । 029c
अपि सञ्जनयेयुर्ये भयं साक्षाच्छतक्रतोः ॥ 029e
यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः । 030a
राधेय पार्थधनुषस्तदा नैवं वदिष्यसि ॥ 030c
यदा द्रक्ष्यसि भीमेन कुञ्जरानीकमाहवे । 031a
विशीर्णदन्तं निहतं तदा नैवं वदिष्यसि ॥ 031c
यदा द्रक्ष्यसि सङ्ग्रामे धर्मपुत्रं यमौ तथा । 032a
शितैः पृषत्कैः कुर्वाणानभ्रच्छायामिवाम्बरे ॥ 032c
अस्यतः क्षिण्वतश्चारील्ँलघुहस्तान्दुरासदान् । 033a
पार्थिवागपि चान्यांस्त्वं तदा नैवं वदिष्यसि ॥ 033c
सञ्जय उवाच । 034
अनादृत्य तु तद्वाक्यं मद्रराजे भाषितम् । 034a
द्रक्ष्यस्यद्येत्यवोचत्तं शल्यं कर्णो जनेश्वर ॥ ॥ 034c
इति श्रीमन्महाभारते कर्णपर्वणि त्रिंशोऽध्यायः ॥ 30 ॥
8-30-2 हरिहयैरिन्द्रतुरगैर्युक्तं रथम् ॥ 8-30-4 अध्युषिते प्रातःकाले ॥