अध्यायः 029

दुर्योधनप्रार्थितेन शल्येन समयकरणपूर्वकं कर्णरथसारथ्यस्वीकरणम् ॥ 1 ॥

दुर्योधन उवाच । 001
एवं स भगवान्देवः सर्वलोकपितामहः । 001a
सारथ्यमकरोत्तत्र ब्रह्मा रुद्रोऽभवद्रथी ॥ 001c
रथिनोऽभ्यधिको वीर कर्तव्यो रथसारथिः । 002a
तस्मात्त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि ॥ 002c
यथा देवगणैस्तत्र वृतो यत्नात्पितामहः । 003a
तथाऽस्माभिर्भवान्यत्नात्कर्णादभ्यधिको वृतः ॥ 003c
यथा देवैर्महाराज ईश्वरादधिको वृतः । 004a
तथा भवानपि क्षिप्रं रुद्रस्येव पितामहः । 004c
नियच्छ तुरगान्युद्धे राधेयस्य महाद्युते ॥ 004e
शल्य उवाच । 005
मयाप्येतन्नरश्रेष्ठ बहुशो नरसिंहयोः । 005a
कथ्यमानं श्रुतं दिव्यमाख्यानमतिमानुषम् ॥ 005c
यथा च चक्रे सारथ्यं भवस्य प्रपितामहः । 006a
यथाऽसुराश्च निहता इषुणैकेन भारत ॥ 006c
कृष्णस्य चापि विदितं सर्वमेतत्पुरा ह्यभूत् ॥ 007ac
यथा पितामहो जज्ञे भगवान्सारथिस्तदा । 008a
अनागतमतिक्रान्तं वेद कृष्णोऽपि तत्त्वतः ॥ 008c
एतदर्थं विदित्वाऽपि सारथ्यमुपजग्मिवान् । 009a
स्वयम्भूरिव रुद्रस्य कृष्णः पार्थस्य भारत ॥ 009c
यदि हन्याच्च कौन्तेयं सूतपुत्रः कथञ्चन । 010a
दृष्ट्वा पार्थं हि निहतं स्वयं योत्स्यति केशवः ॥ 010c
शङ्खचक्रगदापाणिर्धक्ष्यते तव वाहिनीम् । 011a
न चापि तस्य क्रुद्धस्य वार्ष्णेयस्य महात्मनः । 011c
स्थास्यते प्रत्यनीकेषु कश्चिदत्र नृपस्तव ॥ 011e
सञ्जय उवाच । 012
तं तथा भाषमाणं तु मद्रराजमरिन्दमः । 012a
प्रत्युवाच महाबाहुरदीनात्मा सुतस्तव ॥ 012c
मावमंस्था महाबाहो कर्णं वैकर्तनं रणे । 013a
सर्वशस्त्रभृतां श्रेष्ठं सर्वशास्त्रार्थपारगम् ॥ 013c
यस्य ज्यातलनिर्घोषं श्रुत्वा भयकरं महत् । 014a
पाण्डवेयानि सैन्यानि विद्रवन्ति दिशो दश ॥ 014c
प्रत्यक्ष ते महाबाहो यथा रात्रौ घटोत्कचः । 015a
मायाशतानि कुर्वाणो हतो मायापुरस्कृतः ॥ 015c
न चातिष्ठत बीभत्सुः प्रत्यनीके कथञ्चन । 016a
एतांश्च दिवसान्सर्वान्भयेन महता वृतः ॥ 016c
भीमसेनश्च बलवान्धनुष्कोट्याभिचोदितः । 017a
उक्तश्च सञ्ज्ञया राजन्मूढ औदरिको यथा ॥ 017c
माद्रीपुत्रौ तथा शूरौ येन जित्वा महारणे । 018a
कमप्यर्थं पुरस्कृत्य न हतौ युधि मारिष ॥ 018c
येन वृष्णिप्रवीरस्तु सात्यकिः सात्वतां वरः । 019a
निर्जित्य समरे शूरो विस्थश्च बलात्कृतः ॥ 019c
सृञ्जयाश्चेतरे सर्वे धृष्टद्युम्नपुरोगमाः । 020a
असकृन्निर्जिताः सङ्ख्ये स्मयमानेन संयुगे ॥ 020c
तं कथं पाण्डवा युद्धे विजेष्यन्ति महारथम् । 021a
यो हन्यात्समरे क्रुद्धो वज्रहस्तं पुरन्दरम् ॥ 021c
त्वं च सर्वास्त्रविद्वीरः सर्वविद्यास्त्रपारगः । 022a
बाहुवीर्येण ते तुल्यः पृथिव्यां नास्ति कश्चन ॥ 022c
त्वं शल्यभूतः शत्रूणामविषह्यः पराक्रमे । 023a
ततस्त्वमुच्यसे राजञ्शल्य इत्यरिसूदन ॥ 023c
तव बाहुबलं प्राप्य न शेकुः सर्वसात्वताः । 024a
तव बाहुबलाद्राजन्किं नु कृष्णो बलाधिकः ॥ 024c
यथा हि कृष्णेन बलं धार्यं वै फल्गुने हते । 025a
तथा कर्णात्ययीभावे त्वया धार्यं महद्बलम् ॥ 025c
किमर्थं समरे सैन्यं वासुदेवो न्यवारयत् । 026a
किमर्थं च भवान्सैन्यं न हनिष्यति मारिष ॥ 026c
त्वत्कृते पदवीं गन्तुमिच्छेयं युधि मारिष । 027a
सोदराणां च वीराणां सर्वेषां च महीक्षिताम् ॥ 027c
शल्य उवाच । 028
यन्मां ब्रवीषि गान्धारे अग्रे सैन्यस्य मानद । 028a
विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि ॥ 028c
एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः । 029a
युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे ॥ 029c
समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति । 030a
उत्सृजेयं यथाश्रद्धमहं वाचोऽस्य सन्निधौ ॥ 030c
सञ्जय उवाच । 031
तथेति राजन्पुत्रस्ते सह कर्णेन मारिष । 031a
अब्रवीत्मद्रराजानं सर्वक्षत्रस्य सन्निधौ ॥ 031c
सारथ्यस्याभ्युपगमाच्छल्येनाश्वासितस्तदा । 032a
दुर्योधनस्तदा हृष्टः कर्णं तमभिषस्वजे ॥ 032c
अब्रवीच्च पुनः कर्णं स्तूयमानः सुतस्तव । 033a
जहि पार्थान्रणे सर्वान्महेन्द्रो दानवानिव ॥ 033c
स शल्येनाभ्युपगते हयानां सन्नियच्छने । 034a
कर्णो हृष्टमना भूयो दुर्योधनमभाषत ॥ 034c
नातिहृष्टमना ह्येष मद्रराजोऽभिभाषते । 035a
राजन्मधुरया वाचा पुनरेनं ब्रवीहि वै ॥ 035c
ततो राजा महाप्राज्ञः सर्वास्त्रकुशलो बली । 036a
दुर्योधनोऽब्रवीच्छल्यं मद्रराजं महीपतिम् ॥ 036c
पूरयन्निव घोषेण मेघगम्भीरया गिरा । 037a
शल्य कर्णोऽर्जुनेनाद्य योद्धव्यमिति मन्यते ॥ 037c
तस्य त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि । 038a
कर्णो हत्वेतरान्सर्वान्फल्गुनं हन्तुमिच्छति । 038c
तस्याभीषुग्रहे राजन्प्रयाचे त्वां पुनः पुनः ॥ 038e
पार्थस्य सचिवः कृष्णो यथाऽभीषुग्रहो वरः । 039a
तथा त्वमपि राधेयं सर्वतः परिपालय ॥ 039c
सञ्जय उवाच । 040
ततः शल्यः परिष्वज्य सुतं ते वाक्यमब्रवीत् । 040a
दुर्योधनममित्रघ्नं प्रीतो मद्राधिपस्तदा ॥ 040c
शल्य उवाच । 041
एवं चेन्मन्यसे राजन्गान्धारे प्रियदर्शन । 041a
तस्मात्ते यत्प्रियं किञ्चित्तत्सर्वं करवाण्यहम् ॥ 041c
यत्रास्मि भरतश्रेष्ठ योग्यः कर्मणि कर्हिचित् । 042a
तत्र सर्वात्मना युक्तो वक्ष्ये कार्यं परन्तप ॥ 042c
यत्तु कर्णमहं ब्रूयां हितकामः प्रियाप्रिये । 043a
मम तत्क्षमतां सर्वं भवान्कर्णश्च सर्वशः ॥ 043c
कर्ण उवाच । 044
ईशानस्य यथा ब्रह्मा यथा पार्थस्य केशवः । 044a
तथा नित्यं हिते युक्तो मद्रराज भवस्व नः ॥ 044c
शल्य उवाच । 045
आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः । 045a
अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ॥ 045c
यत्तु विद्वन्प्रवक्ष्यामि प्रत्ययार्थमहं तव । 046a
आत्मनः स्तवसंयुक्तं तन्निबोध यथातथम् ॥ 046c
अहं शक्रस्य सारथ्ये योग्यो मातलिवत्प्रभो । 047a
अप्रमादात्प्रयोगाच्च ज्ञानविद्याचिकित्सनैः ॥ 047c
ततः पार्थेन सङ्ग्रामे युध्यमानस्य तेऽनघ । 048a
वाहयिष्यामि तुरगान्विज्वरो भव सूतज ॥ ॥ 048c

इति श्रीमन्महाभारते कर्णपर्वणि एकोनत्रिंशोऽध्यायः ॥ 29 ॥

8-29-5 नरसिंहयोः कृष्णार्जुनयोः । अतस्तयोः साम्यं मम कीर्तिकरमेवेति भावः । सुरसिंहयोरिति पाठे रुद्रपितामहयोः ॥ 8-29-26 किमर्थमिति । सारथ्यमात्रं प्रतिज्ञाय प्रातिभट्यं चेत्कृष्णः कुर्यात्तर्हि त्वं युध्यन् तद्वन्मिथ्याप्रतिज्ञो न भविष्यसीति भावः ॥ 8-29-27 पदवीमानृण्यम् ॥ 8-29-42 वक्ष्ये वोढास्मि ॥ 8-29-45 आत्म निन्दापरस्तवावपि श्रेयसां । निन्द्यौ किमुतात्मपूजापरनिन्दे । तदुभयमहं करोमीति भावः ॥ 8-29-47 अप्रमादोऽवधानम् । प्रयोगोऽश्वप्रेरणम् । ज्ञानमागामिदोषावेक्षणम् । विद्या तत्परिहारज्ञानम् । चिकित्सनं दोषपरिहारसामर्थ्यम् ॥