अध्यायः 028

दुर्योधनेन कर्णसारथ्ये शङ्कमानं शल्यम्प्रति परशुरामचरित्रकीर्तनपूर्वकं कर्णस्य तदन्तेवासित्वादिगुणवत्तया तत्सारथ्य करणे दोषाभावप्रतिपादनम् ॥ 1 ॥

दुर्योधन उवाच । 001
इमं चाप्यपरं भूय इतिहासं निबोध मे । 001
पितुर्मम सकाशे वै ब्राह्मणः प्राह धर्मवित् ॥ 001
श्रुत्वा चैतद्वचश्चित्रं हेतुकार्यार्थतत्त्ववित् । 002
कुरु शल्य विनिश्चित्य मा भूदत्र विचारणा ॥ 002
भार्गवाणां कुले जातो जमदग्निर्महातपाः । 003
तस्य रामेति विख्यातः पुत्रस्तेजोगुणान्वितः ॥ 003
स तीव्रं तप आस्थाय सम्प्रसादितवान्भवम् । 004
अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः ॥ 004
तस्मै तुष्टो महादेवो भक्त्या च प्रशमेन च । 005
हृद्गतं चास्य विज्ञाय दर्शयामास शङ्करः । 005
प्रत्यक्षेण महादेवः स्वां तनुं सर्वशङ्करः ॥ 005
शङ्कर उवाच । 006
राम तुष्टोऽस्मि भद्रं ते विदितं तव चेप्सितम् । 006
कुरुष्व पूतमात्मानं सर्वमेतदवाप्स्यसि ॥ 006
दास्यामि ते तदाऽस्त्राणि यदा पूतो भविष्यसि । 007
अपात्रमसमर्थं च दहन्त्यस्त्राणि भार्गव ॥ 007
इत्युक्तो जामदग्न्यस्तु देवदेवेन शूलिना । 008
प्रत्युवाच महात्मानं शिरसाऽवनतः प्रभुम् ॥ 008
यदा जानासि देवेश पात्रं मामस्त्रधारणे । 009
तदा शुश्रूषतेऽस्त्राणि भवान्मे दातुमर्हति ॥ 009
ततः स तपसा चैव व्रतेन नियमेन च । 010
पूजोपहारबलिभिर्होममन्त्रपुरस्कृतैः ॥ 010
समाराधितवाञ्शर्वं बहुवर्षगणांस्तदा । 011
प्रसन्नश्च महादेवो भार्गवस्य महात्मनः ॥ 011
असकृच्चाब्रवीत्तस्य गुणान्देव्याः सकाशतः । 012
भक्तिमानेष सततं मयि रामो दृढव्रतः ॥ 012
एवमस्य गुणान्प्रीतो बहुशो कथयद्विभुः । 013
देवतानां पितॄणां च समक्षमरिसूदन ॥ 013
एतस्मिन्नेव काले तु दैत्या ह्यासन्महाबलाः । 014
तैस्तदा दर्पमोहाद्वै अबाध्यन्त दिवौकसः ॥ 014
ततः सम्भूय विबुधास्तान्हन्तुं कृतनिश्चयाः । 015
चक्रुः शत्रुवधे यत्नं दैत्याञ्चेतुमशक्नुवन् ॥ 015
अभिगम्य ततो देवा महेश्वरमुमापतिम् । 016
प्रासादयंस्तदा भक्त्या जहि शत्रुगणानिति ॥ 016
प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम् । 017
रामं भार्गवमाहूय सोऽभ्यभाषत शङ्करः ॥ 017
रिपून्भार्गव देवानां जहि सर्वान्समागतान् । 018
लोकानां हितकामार्थं मत्प्रियार्थं तथैव च ॥ 018
परशुराम उवाच । 019
का शक्तिर्मम देवेश अकृतास्त्रस्य संयुगे । 019
निहन्तुं दानवान्सर्वान्कृतास्त्रान्युद्धदुर्मदान् ॥ 019
ईश्वर उवाच । 020
गच्छ त्वं मदनुज्ञानान्निहनिष्यसि शात्रवान् । 020a
विजित्य च रिपून्सर्वान्गुणान्प्राप्स्यसि पुष्कलान् ॥ 020c
दुर्योधन उवाच । 021
एतच्छ्रुत्वा तु वचनं प्रतिगृह्य च सर्वशः । 021a
रामः कृतस्वस्त्ययनः प्रययौ दानवान्प्रति ॥ 021c
ततोऽजयद्देवशत्रून्महादर्पबलान्वितान् । 022a
वज्राशनिसमस्पर्शैः प्रहारैरेव भार्गवः ॥ 022c
स दानवैः क्षततनुर्जामदग्न्यो नृपोत्तम । 023a
संस्पृष्टः स्थाणुना सद्यो निर्व्रणः समपद्यत ॥ 023c
प्रीतश्च भगवान्देवः कर्मणा तेन तस्य वै । 024a
वरान्प्रादाद्बहुविधान्भार्गवाय महात्मने ॥ 024c
उक्तश्च प्रीतियुक्तेन देवदेवेन शूलिना ॥ 025ac
निपातात्तव शस्त्राणां शरीरे याऽभवद्रुजा । 026a
तया ते मानुषं कर्म व्यपोहं भृगुनन्दन । 026c
गृहाणास्त्राणि दिव्यानि मत्सकाशाद्यथेप्सितं ॥ 026e
ततोऽस्त्राणि समग्राणि वरांश्च मनसेप्सितान् । 027a
लब्ध्वा बहुविधान्रामः प्रणम्यशिरसा शिवम् । 027c
अनुज्ञां प्राप्य देवेशाज्जगाम स महातपाः ॥ 027e
एवमेतत्पुरावृत्तं तथा कथितवानृषिः ॥ 028ac
भार्गवोऽपि ददौ सर्वं धनुर्वेदं महात्मने । 029a
कर्णाय पुरुषव्याघ्रः सुप्रीतेनान्तरात्मना ॥ 029c
वृजिनं न भवेत्किञ्चिदस्य कर्णस्य पार्थिव । 030a
सूतेन वर्धितो नित्यं न सूतो नृप एव सः ॥ 030c
विशुद्धयोनिं विज्ञाय दिव्यान्यस्त्राण्यदाद्भृगुः । 031a
नापि सूतकुले जातं मन्ये कर्णं कथञ्चन । 031c
देवपुत्रमहं मन्ये क्षत्रियाणां कुलोद्भवम् ॥ 031e
विसृष्टमविबोधार्थं कुलस्येन्ति मतिर्मम । 032a
सर्वथा न ह्यसो शल्य कर्णः सूतकुलोद्भवः ॥ 032c
सकुण्डलं सकवचं दीर्घबाहुमरिन्दमम् । 033a
कथमादित्यसङ्काशं मृगी सिंहं प्रसूयते ॥ 033c
पश्य ह्यस्य भुजौ पीनौ नागराजकरोपमौ । 034a
वक्षः पश्य विशालं च सर्वशस्त्रसहं रणे ॥ 034c
न त्वेव प्राकृतः कश्चित्कर्णो वैकर्तनो वृषा । 035a
महात्माह्येष राजेन्द्र रामशिष्यः प्रतापवान् ॥ ॥ 035c

इति श्रीमन्महाभारते कर्णपर्वणि अष्टविंशोऽध्यायः ॥ 28 ॥

8-28-1 नाशक्नुवन्निति नञध्याहारेण योजना ॥