श्रीः अध्यायः 026

देवानामाज्ञया विश्वकर्मणा भूम्यादिसाधनै रुद्राय रथनिर्माणम् ॥ 1 ॥ दुर्योधन उवाच । 001
तेजसोऽर्धं सुरा दत्त्वा शङ्कराय महात्मने । 001a
पशुत्वमपि चोपेत्य विश्वकर्माणमव्ययम् ॥ 001c
ऊचुः सर्वे समाभाष्य रथः सङ्कल्प्यतामिति । 002a
विश्वकर्माऽपि सञ्चिन्त्य रथं दिव्यमकल्पयत् ॥ 002c
समेतां पृथिवीं देवी विशालां पुरमालिनीम् । 003a
सपर्वतवनद्वीपां चक्रे भूतधरां रथम् ॥ 003c
ईषां नक्षत्रवंशं च छत्रं मेरुमहागिरिम् । 004a
अनेकद्रुसञ्छन्नं रत्नाकरमनुत्तमम् ॥ 004c
हिमवन्तं च विन्ध्यं च नानाद्रुमलताकुलम् । 005a
अवस्करं प्रतिष्ठानं कल्पयामास वै तदा ॥ 005c
अस्तङ्गिरिमधिष्ठानं नानाद्विजगणायुतम् । 006a
चकार भगवांस्त्वष्टा उदयं रथकूबरम् ॥ 006c
मीननक्रझषावासं दानवालयमुत्तमम् । 007a
समुद्रमक्षं विदधे पत्तनाकरशोभितम् ॥ 007c
चक्रं चक्रे चन्द्रमसं तारकागणमण्डितम् । 008a
दिवाकरं चाप्यपरं चक्रं चक्रेंऽशुमालिनम् ॥ 008c
गङ्गां सरस्वतीं तूणीं चक्रे विश्वकृदव्ययः । 009a
अलङ्कारा रथस्यासन्नापगाः सरितस्तथा ॥ 009c
त्रीनग्नीन्मन्त्रवच्चक्रे रथस्याथ त्रिवेणुकम् । 010a
अनुकर्षान्रथे दीप्तान्वरूथांश्चापि तारकाः ॥ 010c
ओषधीर्वीरुधश्चैव घण्टाजालं च भानुमत् । 011a
अलञ्चकार च रथं मासपक्षर्तुभिर्विभुः ॥ 011c
अहोरात्रैः कलाभिश्च काष्ठाभिरयनैस्तथा । 012a
द्यां युगं युगपर्वाणि संवर्तकबलाहकान् ॥ 012c
शम्यां धृतिं च मेधां च स्थितिं सन्नतिमेव च । 013a
ऋग्वेदं सामवेदं च धुर्यावश्वावकल्पयत् ॥ 013c
पृष्ठाश्वौ तु यजुर्वेदः कल्पितोऽथर्वणस्तथा । 014a
अश्वानां चाप्यलङ्कारं विदधे पदसञ्चयम् ॥ 014c
सिनीवालीमनुमतिं कुहूं राकां च सुप्रभाम् । 015a
योक्त्राणि चक्रे चाश्वानां कूश्माण्डांश्चापि पन्नगान् ॥ 015c
तालपृष्ठोऽथ नहुषः कार्कोटकधनञ्जयौ । 016a
इतरे चाभवन्नागा हयानां वाहबन्धनम् ॥ 016c
अभीशवः षडङ्गानि कल्पितानि महीपते । 017a
ओङ्कारः कल्पितस्तस्य प्रतोदो विश्वकर्मणा ॥ 017c
यज्ञाः सर्वे पृथक्लृप्ता रथाङ्गानि च भागशः । 018a
अधिष्ठानं मनश्चासीत्परिरथ्या सरस्वती ॥ 018c
नानावर्णानि शस्त्राणि पताकाः पवनेरिताः । 019a
विद्युदिन्द्रधनुर्युक्तं रथं दीप्त्या व्यदीपयत् ॥ 019c
वर्म योद्धुं च विहितं नभो ग्रहगणाकुलम् । 020a
अभेद्यं भानुमच्चित्रं कालचक्रपरिक्षतम् ॥ 020c
एवमस्मिन्महाराज कल्पिते रथसत्तमे । 021a
त्वष्ट्रा मनुजशार्दूल द्विषतां भयवर्धने ॥ 021c
स्वान्यायुधानि दिव्यानि न्यदधाच्छङ्करो रथे । 022a
ध्वजयष्टिं वियत्कृत्वा स्थापयामास गोवृषम् ॥ 022c
ब्रह्मदण्डः कालदण्डो रुद्रदण्डश्च ते ज्वराः । 023a
परिष्कारा रथस्यासन्समन्ताद्दिशमुद्धताः ॥ 023c
विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः । 024a
छायामेवात्मनश्चक्रे धनुर्ज्यामक्षयां ध्रुवाम् ॥ 024c
कालो हि भगवान्रुद्रस्तच्च संवत्सरं धनुः । 025a
तस्माद्रौद्री कालरात्री ज्या कृता धनुषो जरा ॥ 025c
ततो रथे रथाश्वांस्तानृषयः समयोजयन् । 026a
एकैकशः सुसंहृष्टानादाय सुधृतव्रताः ॥ 026c
दक्षिणस्यां धुरि कृत ऋग्वेदो मन्त्रपारगैः । 027a
सव्यतः सामवेदश्च युक्तो राजन्महर्षिभिः ॥ 027c
पार्ष्ठिदक्षिणतो युक्तो यजुर्वेदः सुरद्विजैः । 028a
इतरस्यां तथा पार्ष्ठ्यां युक्तो राजन्नथर्वणः ॥ 028c
एवं ते वाजिनो युक्ता यज्ञविद्भिस्तथा रथे । 029a
अशोभन्त तथा युक्ता यथैवाध्वरमध्यगाः ॥ 029c
कल्पयित्वा रथं दिव्यं ततो बाणमकल्पयत् । 030a
चिन्तयित्वा हरिं विष्णुमव्ययं यज्ञवाहनम् ॥ 030c
शरं सङ्कल्पयाञ्चक्रे विश्वकर्मा महामनाः । 031a
तस्य वाजांश्च पुङ्खं च कल्पयामास वै तदा ॥ 031c
पुण्यगन्धवहं राजञ्श्वसनं राजसत्तम । 032a
अग्नीषोमौ शरमुखे कल्पयामास वै तदा ॥ 032c
अग्नीषोमात्मकं कृत्स्नमुच्यते वैष्णवं जगत् । 033a
विष्णुरात्मा भगवतो भवस्यामिततेजसः ॥ 033c
तस्माद्धनुर्ज्यासंस्पर्शं स विषेहे शरस्य वै । 034a
तस्मिञ्शरे तीक्ष्णमन्युममुञ्चद्दुःसहं प्रभुः ॥ 034c
भृग्वङ्गिरोमन्युभवः क्रोधाग्निरतिदुःसहः । 035a
स नीललोहितो धूम्रः कृत्तिवासा भयानकः ॥ 035c
आदित्यायुतसङ्काशस्तेजोज्वालावृतो भवः । 036a
दुश्चर्यच्यावको जेता हन्ता ब्रह्मद्विषां वरः ॥ 036c
तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत् । 037a
जङ्गमाजङ्गमं राजञ्छुशुभेऽद्भुतदर्शनम् ॥ 037c
दृष्टा तु तं रथं दिव्यं कवची स शरासनी । 038a
आददे स शरं दिव्यं सोमविष्ण्वग्निवायुजम् ॥ 038c
तमादाय महादेवस्त्रासयन्दैत्यदानवान् । 039a
आरुरोह तदा यत्तः कम्पयन्निव रोदसी ॥ 039c
महर्षिभिः स्तूयमानो वन्द्यमानश्च वन्दिभिः । 040a
उपनृत्तश्चाप्सरसां गणैर्नृत्तविशारदैः ॥ 040c
स शोभमानो वरदः खड्गी बाणी शरासनी । 041a
हसन्निवाब्रवीद्देवः सारथिः को भवेदिति ॥ ॥ 041c

इति श्रीमन्महाभारते कर्णपर्वणि षड्विंशोऽध्यायः ॥ 26 ॥