अध्यायः 025

देवै रुद्रवचनात्तस्य स्वस्वार्धबलदानपूर्वकं त्रिपुरसंहारायाभिषेचनम् ॥ 1 ॥

दुर्योधन उवाच । 001
पितृदेवर्षिसङ्घेभ्योऽभये दत्ते महात्मना । 001a
सत्कृत्य शङ्करं प्राह ब्रह्मा लोकपितामहः ॥ 001c
इमान्यसुरदुर्गाणि लोकांस्त्रीनाक्रमन्ति हि । 002a
कश्च प्रजापतिर्घोरांस्तान्सर्वाञ्जहि मा चिरम् ॥ 002c
वरातिसर्गाद्देवेश प्राजापत्यमिदं परम् । 003a
मयाऽधितिष्ठता दत्तो दानवेभ्यो महान्वरः ॥ 003c
नास्त्यन्यो युधि तेषां वै निहन्ता इति नः श्रुतम् । 004a
तानतिक्रान्तमर्यादान्नान्यः संहर्तुमर्हति । 004c
त्वामृते सर्वभूतेश त्वं ह्येषां प्रत्यरिर्वधे ॥ 004e
स त्वं देव प्रपन्नानां याचतां च दिवोकसाम् । 005a
कुरु प्रसादं वरद दानवाञ्जहि संयुगे ॥ 005c
त्वत्प्रसादाज्जगत्सर्वं सुखमैधत मानद । 006a
शरण्यस्त्वं हि देवानां वयं त्वां शरणं गताः ॥ 006c
ईश्वर उवाच । 007
हन्तव्याः शत्रवः सर्वे युष्माकमिति मे मतिः । 007a
न त्वेकश्चोत्सहे हन्तुं बलिनः सुरविद्विषः ॥ 007c
ते यूयं सहिताः सर्वे मदीयेनापि तेजसा । 008a
जयध्वं युधि तान्सर्वान्सङ्घातेन महाबलान् ॥ 008c
देवा ऊचुः । 009
अस्मत्तेजोबलं यावत्तावद्द्विगुणमेव वा । 009a
तत्तेषामिति मन्यामो दृष्टतेजोबला हि ते ॥ 009c
ईश्वर उवाच । 010
वध्यास्ते सर्वथा पापा ये युष्मास्वपराधिनः । 010a
मम तेजोबलार्धेन सर्वे मृद्गथ शात्रवान् ॥ 010c
देवा ऊचुः । 011
बिभर्तुं तव तेजोर्धं न शक्ष्याम सुरेश्वर । 011a
सर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान् ॥ 011c
वयं च सर्वथा देव रक्षणीयास्तथैव च । 012a
स नो रक्ष महादेव त्वमेव जहि शात्रवान् ॥ 012c
ईश्वर उवाच । 013
मम तेजो न शक्ता हि सर्वे धारयितुं यदि । 013a
अहमेनान्वधिष्यामि युष्मत्तेजोर्धसंयुतः ॥ 013c
बलार्धं यदि मे देवा न धारयितुमाहवे । 014a
शक्ताः सर्वे हि सङ्गम्य यूयं तत्प्रब्रवीमि वः ॥ 014c
समा भवन्ति मे सर्वे दानवाश्चामराश्च ये । 015a
शिवोऽस्मि सर्वभूतानां शिवत्वं तेन मे सुराः ॥ 015c
किन्त्वधर्मेण वर्तन्ते यस्मात्ते सुरशत्रवः । 016a
तस्माद्वध्या मयाप्येते युष्माकं च हितेप्सया ॥ 016c
शरणं वः प्रपन्नानां धर्मेण च जिगीषताम् । 017a
साहाय्यं वः करिष्यामि निहनिष्यामि वो रिपून् ॥ 017c
दीयतां च बलार्धं मे सर्वैरपि पृथक्पृथक् । 018a
पशुत्वं चैव मे लोकाः सर्वे कल्पन्तु पीडिताः ॥ 018c
पशूनां तु पतित्वं मे भवत्वद्य दिवौकसः । 019a
एवं न पापं प्राप्स्यामि पशून्हत्वा सुरद्विषः ॥ 019c
कल्पयध्वं रथं दिव्यं रथाश्वांश्चैव पारगान् । 020a
धनुः शरं सारथिं च ततो जेष्यामि वो रिपून् ॥ 020c
इति श्रुत्वा वचो देवा देवदेवस्य भूपतेः । 021a
विषादमगमन्सर्वे पशुत्वं प्रति शङ्किताः ॥ 021c
तेषां भावं भवो ज्ञात्वा देवस्तानब्रवीदिदम् । 022a
मा वोस्तु पशुभावेऽस्मिन्भयं विबुधसत्तमाः ॥ 022c
श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः ॥ 023ac
यो वः पशुपतेश्चर्यां चरिष्यति स मोक्ष्यते । 024a
पशुत्वादिति सत्यं वः प्रतिजाने समागमे ॥ 024c
ये चाप्यन्ये चरिष्यन्ति व्रतं मोक्ष्यन्ति तेऽपि च ॥ 025ac
नै(त्य)ष्ठिकं द्वादशाब्दं वा अर्धमब्दमृतुत्रयम् । 026a
मासं द्वादशरात्रं वा स पशुत्वाद्विमोक्ष्यते । 026c
तस्मात्परमिदं गुह्यं व्रतं दिव्यं चरिष्यथ ॥ 026e
तं तथेत्यब्रुवन्देवा देवदेवनमस्कृतम् । 027a
ऊचुश्चेदं गृहाणेदं तेजसोऽर्धमिति प्रभुम् ॥ 027c
प्रत्युवाच तथेत्येव शूलधृद्राजसत्तम । 028a
ततस्ते प्रददुः सर्वे तेजसोऽर्धं महात्मने ॥ 028c
सर्वमादाय सर्वेषां तेजसोऽर्धं दिवौकसाम् । 029a
तेजसाप्यधिको भूत्वा भूयोऽप्यतिबलोऽभवत् ॥ 029c
ततः प्रभृति देवानां देवदेवोऽभवद्भवः । 030a
पतिश्च सर्वभूतानां पशूनां चाभवत्तदा ॥ 030c
तस्मात्पशुपतिश्चोक्तो भवत्वाच्च भवेति वै ॥ 031ac
अर्धमादाय सर्वेषां तेजसा प्रज्वलन्निव । 032a
भासयामास तान्सर्वान्देवदेवो महाद्युतिः ॥ 032c
ततोऽभिषिषिच्युः सर्वे सुरा रुद्रं पुरारिणम् । 033a
महादेव इति ह्यासीद्देवदेवो महेश्वरः ॥ ॥ 033c

इति श्रीमन्महाभारते कर्णपर्वणि पञ्चविंशोऽध्यायः ॥ 25 ॥