अध्यायः 024

दुर्योधनेन शल्यम्प्रति त्रिपुरासुरकथाकथनारम्भः ॥ 1 ॥ त्रिपुरासुरोपद्रुतैर्देवैः स्तुत्या रुद्रप्रसादनम् ॥ 2 ॥

दुर्योधन उवाच । 001
भूय एव तु मद्रेश यत्त्वा वक्ष्यामि तच्छृणु । 001a
यथा पुरावृत्तमिदं युद्धे देवासुरे प्रभो ॥ 001c
यदुक्तवान्पितुर्मह्यं मार्कण्डेयो महातपाः । 002a
ब्रुवतस्तदशेषेण मम राजर्षिसत्तम । 002c
निबोध मनसा चात्र न ते कार्या विचारणा ॥ 002e
'समुत्पन्नो हि राजानः प्रमोह इति निश्चयम् । 003a
कृत्वा चैव व्यवस्यन्ति सर्वे धर्मार्थनिश्चयान् ॥ 003c
देवानामसुराणां च महानासीत्समुच्छ्रयः । 004a
सैंहिकेयास्तदोद्वृत्ता विबुधानवसूदयन् । 004c
ते निरस्ताः कृता देवैर्दानवा बलगर्विताः' ॥ 004e
तत्रासीत्प्रथमो राजन्सङ्ग्रामस्तारकामयः । 005a
निर्जिताश्च ततो दैत्या दैवतैरिति नः श्रुतिः ॥ 005c
भग्नदर्पा निरुत्साहाः पातालं विविशुस्तदा ॥ 006ac
निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः । 007a
ताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव ॥ 007c
तप उग्रं समास्थाय नियमे परमे स्थिताः । 008a
तपसा कर्शयामासुर्देहांस्ताञ्शत्रुकर्शनाः ॥ 008c
दमेन तपसा चैव नियमेन समाधिना । 009a
तेषां पितामहः प्रीतो वरदः प्रददौ वरम् ॥ 009c
अवध्यत्वं च ते सर्वे सर्वभूतेषु सर्वदा । 010a
सहिता वरयामासः सर्वलोकपितामहम् ॥ 010c
तानब्रवीत्तदा देवः सर्वलोकगुरुः प्रभुः । 011a
नास्ति सर्वामरत्वं वै निवर्तध्वमितोऽसुराः । 011c
अन्यं वरं वृणीध्वं वै रोचते यादृशो हि वः ॥ 011e
ततस्ते सहिता राजन्सम्प्रधार्यासकृद्बहुः । 012a
सर्वलोकेश्वरं वाक्यं प्रणम्यैनमथाऽब्रुवन् ॥ 012c
वस्तुमिच्छाम नगरं कर्तुं कामगमं शुभम् । 013a
सर्वकामसमृद्धार्थमवध्यं देवदानवैः ॥ 013c
यक्षरक्षोरगगणैर्नानाजातिभिरेव च । 014a
न कृत्याभिर्न शस्त्रैश्च न शापैर्ब्रह्मवादिनाम् । 014c
वध्येत त्रिपुरं देव प्रयच्छेः प्रपितामह ॥ 014e
वयं पुराणि त्रीण्येव समास्थाय महीमिमाम् । 015a
विचरिष्याम लोकेऽस्मिंस्त्वत्प्रसादपुरस्कृताः ॥ 015c
ततो वर्षसहस्रेषु समेष्यामः परस्परम् । 016a
एकीभावं गमिष्यन्ति पुराण्येतानि चानघ ॥ 016c
समागतानि चैतानि यो हन्याद्भगवांस्तदा । 017a
एकेषुणा देववरः स नो मृत्युर्भविष्यति ॥ 017c
दुर्योधन उवाच । 018
तेषां तद्वचनं श्रुत्वा दानवानां पितामहः । 018a
एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम् ॥ 018c
ते तु लब्धवराः प्रीताः सम्प्रधार्य परस्परम् । 019a
पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्महारथाः । 019c
विश्वकार्माणमजरं दैत्यदानवपूजितम् ॥ 019e
ततो मयः स्वतपसा चक्रे धीमान्पुराणि च । 020a
त्रीणि काञ्चनमेकं वै रौप्यं कार्ष्णायसं तथा ॥ 020c
काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम् । 021a
आयसं चाभवद्भौमं तदा तेषां परन्तप ॥ 021c
एकैकं योजनशतं विस्तृतं तावदायतम् । 022a
दृढं चाट्टालकयुतं बृहत्प्राकारतोरणम् ॥ 022c
गृहप्रवरसम्बाधमसम्बाधमहापथम् । 023a
प्रासादैर्विविधैश्चापि द्वारैश्चैवोपशोभितम् ॥ 023c
त्रिपुरं तेषु चाप्यासन्राजानो वै पृथक्पृथक् । 024a
दिव्यमाल्याम्बरधरा दैतेया राजसत्तम ॥ 024c
काञ्चनं तारकाक्षस्य दिव्यमासीन्महात्मनः । 025a
राजतं कमलाक्षस्य विद्युन्मालिन आयसम् ॥ 025c
त्रयस्ते दैत्यराजानस्त्रीँल्लोकानाशु तेजसा । 026a
आक्रम्य तस्थुरूचुश्च कश्च नाम प्रजापतिः ॥ 026c
तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि च । 027a
कोट्यश्चाप्रतिवीराणां समाजग्मुस्ततस्ततः ॥ 027c
मांसाशिनः सुदृप्ताश्च सुरैर्विनिकृताः पुरा । 028a
महदैश्वर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः ॥ 028c
सर्वेषां च पुनश्चैषां सर्वयोगवहो मयः । 029a
तमाश्रित्य हि ते सर्वेऽवर्तयन्नकुतोभयाः ॥ 029c
यो हि यं मनसा कामं दध्यौ त्रिपुरसंश्रयः । 030a
तस्मै तस्मै मयस्तं तं विदधे मायया तदा ॥ 030c
तारकाक्षसुतश्चासीद्धरिर्नाम महाबलः । 031a
तपस्तेपे परमकं येनातुष्यत्पितामहः ॥ 031c
सन्तुष्टमवृणोद्देवं वापी भवतु नः पुरे । 032a
शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः ॥ 032c
स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः । 033a
ससृजे तत्र वापीं तां मृतसञ्जीविनीं प्रभो ॥ 033c
येन रूपेण यो दैत्यो येन वेषेण चाप्यथ । 034a
क्षिप्यते निहतो वाप्यां तादृशेनैव जायते । 034c
सम्पूर्णबलवीर्यस्तु राजञ्छौर्यसमन्वितः ॥ 034e
एवं वीर्येण संयुक्तां कृतां तेन महात्मना । 035a
तां प्राप्य त्रैपुरा वापीं लोकान्सर्वान्बबाधिरे ॥ 035c
महता तपसा सिद्धाः सुराणां भयवर्धनाः । 036a
एकस्मिन्निहते दैत्ये सृजन्ति स्म दशासुरान् । 036c
न तेषां विद्यते युद्वे क्षयो राजन्कथञ्चन ॥ 036e
ततस्ते लोभमोहाभ्यामभिभूता विचेतसः । 037a
निर्भीकाः सहिताः सर्वे स्थापिताः समलोलुपाः ॥ 037c
विद्राव्य सगणान्देवांस्तत्रतत्र तदातदा । 038a
विचेरुः स्वेन कामेन वरदानेन दर्पिताः ॥ 038c
देवोद्यानानि सर्वाणि स्थानानि च दिवौकसाम् । 039a
ऋषीणामाश्रमान्पुण्यान्रम्याञ्जनपदांस्तथा । 039c
उत्सादयन्त मर्यादां दानवा दुष्टचारिणः ॥ 039e
निःस्थानाश्च कृता देवा ऋषयः पितृभिः सह । 040a
दैत्यैस्त्रिभिस्त्रयो लोका ह्याक्रान्तास्तैः सुरेतरैः ॥ 040c
पीड्यमानेषु लोकेषु ततः शक्रो मरुद्वृतः । 041a
पुराण्यायोधयाञ्चक्रे वज्रहस्तः समन्ततः ॥ 041c
नाशकत्तान्यभेद्यानि यदा भेत्तुं पुरन्दरः । 042a
पुराणि वरदत्तानि धात्रा तेन नराधिप ॥ 042c
तदा भीतः सुरपतिर्मुक्त्वा तानि पुराण्यथ । 043a
तैरेव विबुधैः सार्धं पितामहमरिन्दम । 043c
जगामाथ तदाख्यातुं विप्रकारं सुरेतरैः ॥ 043e
ते तत्त्वं सर्वमाख्याय शिरोभिः सम्प्रणम्य च । 044a
तद्वधोपायमाचक्ष्व भगवन्निति चाब्रुवन् ॥ 044c
श्रुत्वा तद्भगवान्देवो देवानिदमुवाच ह । 045a
श्रूयतां त्रिदशाः सर्वे यथेदं वाक्यगौरवम् ॥ 045c
दुरात्मानोऽसुरा नित्यं ते चापि विबुधा मम । 046a
न शक्नुवन्ति ते (ये) सर्वे युष्मान्वै पीडयन्ति ते ॥ 046c
अहं समस्तु सर्वेषां भूतानां नात्र संशयः । 047a
अविनीता निहन्तव्या इत्येवं प्रब्रवीमि वः ॥ 047c
एकेषुणा (हि) विभेद्यानि तानि दुर्गाणि नान्यथा । 048a
शक्तस्तु तानि बाणेन भेत्तुं कामं त्रिलोचनः ॥ 048c
ते यूयं स्थाणुमीशानं जिष्णुमक्लिष्टकारिणम् । 049a
योद्धारं वृणुत क्षिप्रं स तान्हन्ता सुरेतरान् ॥ 049c
ते देवास्तेन वाक्येन चोदिताः प्रणताः स्थिताः । 050a
दिव्यं वर्षसहस्रं वै तपस्तप्त्वा सुरर्षभाः । 050c
शुभात्मानो महात्मानो जग्मुर्वै वृषभध्वजम् ॥ 050e
ब्रह्माणमग्रतः कृत्वा शरण्यं शरणागताः । 051a
तपः परममाजग्मुर्गृणन्तो ब्रह्म शाश्वतम् ॥ 051c
अनङ्गमथनं सर्वे भवं सर्वात्मना गताः । 052a
देवदेवं परं स्थाणुं वरदं त्र्यम्बकं शिवम् ॥ 052c
शर्वमीड्यमजं रुद्रं शशाङ्काङ्कितमूर्धजम् । 053a
तुष्टुवुर्वाग्भिरुग्राभिर्भयेष्वभयमच्युतम् । 053c
सर्वात्मानं महात्मानं येनाप्तं विश्वमात्मना ॥ 053e
तपोविशेषैर्विविधैर्योगं यो वेद चात्मनः । 054a
यः साङ्ख्यमात्मना वेत्ति यस्य चात्मा वशे सदा ॥ 054c
तं ते ददृशुरीशानं तेजोराशिमुमापतिम् । 055a
'परेण यत्नेन भवं त्रिदशाः शर्वमीश्वरम्' । 055c
अनन्यसदृशं लोके प्रतपन्तमकल्मषम् ॥ 055e
एकश्च भगवांस्तत्र नानारूपमकल्पयत् । 056a
आत्मनः प्रतिरूपाणि रूपाण्यथ महात्मनि । 056c
परस्परस्य चापश्यन्सर्वे परमविस्मिताः ॥ 056e
सर्वभूतमयं दृष्ट्वा तमजं जगतः परिम् । 057a
देवा ब्रह्मर्षयश्चैव शिरोभिर्धरणीं गताः ॥ 057c
तान्स्वस्तिवाच्य चाभ्यर्च्य समुत्थाप्य च शङ्करः । 058a
ब्रूतब्रूतेति भगवान्स्मयमानोऽभ्यभाषत ॥ 058c
त्र्यम्बकेणाभ्यनुज्ञातास्ततस्ते स्वस्थचेतसः । 059a
नमो नमो नमस्तेऽस्तु प्रभो इत्यब्रुवन्भवम् ॥ 059c
नमो देवाधिदेवाय प्रियाधाम्नेऽतिमन्यवे । 060a
प्रजापतिमखघ्नाय प्रजापतिभिरीड्यते ॥ 060c
नमः स्तुताय स्तुत्याय स्तूयमानाय शम्भवे । 061a
विलोहिताय रुद्राय नीलग्रीवाय शूलिने ॥ 061c
अमोघाय मृगाक्षाय प्रवरायुधयोधिने । 062a
अर्हाय चैव शुद्धाय क्षयाय क्रथनाय च ॥ 062c
दुर्वारणाय शुक्राय ब्रह्मणे ब्रह्मचारिणे । 063a
ईशानायाप्रमेयाय निहन्त्रे चर्मवाससे ॥ 063c
तपोरताय पिङ्गाय व्रतिने कृत्तिवाससे । 064a
कुमारपित्रे त्र्यक्षाय प्रवरायुधधारिणे ॥ 064c
प्रपन्नार्तिविनाशाय ब्रह्मद्विट्सङ्घघातिने । 065a
वनस्पतीनां पतये वनानां पतये नमः ॥ 065c
गवां च पतये नित्यं यज्ञानां पतये नमः । 066a
नमोस्तु ते ससैन्याय त्र्यम्बकायामितौजसे । 066c
मनोवाक्कर्मभिर्देव त्वां प्रपन्नान्भजस्व नः ॥ 066e
ततः प्रसन्नो भगवान्स्वागतेनाभिनन्द्य च । 067a
प्रोवाच व्येतु वस्त्रासो ब्रूत किं करवाणि वः ॥ 067c
'देवाः शर्वस्य वचनं श्रुत्वा हर्षमुपागताः' ॥ ॥ 068ac

इति श्रीमन्महाभारते कर्णपर्वणि चतुर्विंशोऽध्यायः ॥ 24 ॥

8-24-2 पितुः पुरतः । मह्यं मम ॥ 8-24-5 तारकामयः तारकासुर एवामयो रोगवत्पराभवहेतुर्यत्र स तथा ॥ 8-24-60 ईड्यते ईड्यमानाय । कर्मणीदमपौरुषम् ॥ 8-24-66 भजस्व इष्टैः कामैः पूरयस्व ॥ 8-24-68 व्येतु व्यपगच्छतु ॥