अध्यायः 023

दुर्योधनप्रार्थनया शल्येन कृच्छ्रात्कर्णरथसारथ्यकरणाभ्युपगमः ॥ 1 ॥

सञ्जय उवाच । 001
एवमुक्तो महाराज तव पुत्रः प्रतापवान् । 001a
मद्रेश्वरं प्रति रणे सुरसैन्यभयङ्करम् । 001c
सर्वं तथाऽकरोत्तूर्णं राधेयस्तद्यथाऽब्रवीत् ॥ 001e
मद्रराजं च समरे प्रणम्य च महारथम् । 002a
विनयेनोपसङ्गम्य प्रणयाद्वाक्यमब्रवीत् ॥ 002c
सत्यव्रत महाभाग द्विषतां तापवर्धन । 003a
मद्रेश्वर रणेशूर परसैन्यभयङ्कर ॥ 003c
'मत्प्रियार्थं हितार्थं च तथा पार्थवधाय च' । 004a
श्रुतवानसि कर्णस्य ब्रुवतो वदतां वर । 004c
यथा नृपतिसिंहानां मध्ये त्वां वरये स्वयम् ॥ 004e
तत्त्वामप्रतिवीर्याद्य शत्रुपक्षक्षयावह । 005a
मद्रेश्वर प्रयाचेऽहं शिरसा विनयेन च ॥ 005c
तस्मात्पार्थविनाशार्थं हितार्थं मम चैव हि । 006a
त्वं पाहि सर्वतः कर्णं भवं ब्रह्मेव सुव्रत ॥ 006c
सारथ्यं रथिनां श्रेष्ठ प्रणयात्कर्तुमर्हसि । 007a
त्वयि यन्तरि राधेयो विद्विषो मे विजेष्यते ॥ 007c
अभीषूणां हि कर्णस्य ग्रहीतान्यो न विद्यते । 008a
ऋते हि त्वां महाभाग वासुदेवसमं युधि ॥ 008c
स पाहि सर्वथा कर्णं यथा ब्रह्मा महेश्वरम् । 009a
यथा च सर्वथाऽऽपत्सु वार्ष्णेयः पाति पाण्डवम् । 009c
तथा मद्रेश्वराद्य त्वं राधेयं प्रतिपालय ॥ 009e
भीष्मो द्रोणः कृपः कर्णो भवान्भोजश्च वीर्यवान् । 010a
शकुनिः सौबलो द्रौणिरहमेव च नो बलम् ॥ 010c
एवमेष कृतो भागो नवधा पृथिवीपते । 011a
न च भागोऽत्र भीष्मस्य द्रोणस्य च महात्मनः ॥ 011c
ताभ्यामतीत्य तौ भागौ निहता मम शत्रवः । 012a
वृद्धौ हि तौ महेष्वासौ छलेन निहतौ युधि ॥ 012c
कृत्वा चासुकरं कर्म गतौ स्वर्गमितोऽनघ । 013a
तथान्ये पुरुषव्याघ्राः परैर्विनिहता युधि ॥ 013c
अस्मदीयाश्च बहवः स्वर्गाय गमिताः परैः । 014a
त्यक्त्वा प्राणानय्थाशक्ति चेष्टां कृत्वा च पुष्कलाम् । 014c
तदिदं हतभूयिष्ठं बलं मम नराधिप । 015a
पूर्वमप्यल्पकैः पार्थैर्हतं किमुत साम्प्रतम् ॥ 015c
बलवन्तो महात्मानः कौन्तेयाः सत्यविक्रमाः । 016a
बलं शेषं न हन्युर्मे यथा तत्कुरु पार्थिव ॥ 016c
हतवीरमिदं सैन्यं पाण्डवैः समरे विभो । 017a
कर्णो ह्येको महाबाहुरस्मत्प्रियहिते रतः ॥ 017c
भवांश्च पुरुषव्याघ्र सर्वलोकमहारथः । 018a
शल्य कर्णोऽर्जुनेनाद्य योद्वुमिच्छति संयुगे ॥ 018c
तस्मिञ्जयाशा विपुला मद्रराज नराधिप । 019a
तस्याभीषुग्रहवरो नान्योऽस्ति भुवि कश्चन ॥ 019c
पार्थस्य समरे कृष्णो यथाऽभीषुग्रहो वरः । 020a
तथा त्वमपि कर्णस्य रथेऽभीषुग्रहो भव ॥ 020c
तेन युक्तो रणे पार्थो रक्ष्यमाणश्च पार्थिव । 021a
यानि कर्माणि कुरुते प्रत्यक्षाणि तथैव तत् ॥ 021c
पूर्वं नः समरे ह्येवमवधीदर्जुनो रिपून् । 022a
इदानीं विक्रमो ह्यस्य कृष्णेन सहितस्य च ॥ 022c
कृष्णेन सहितः पार्थो धार्तराष्ट्रीं महाचमूम् । 023a
अहन्यहनि मद्रेश द्रावयन्दृश्यते युधि ॥ 023c
भागोऽवशिष्टः कर्णस्य तव चैव महाद्युते । 024a
तं भागं सह कर्णेन युगपन्नाशयाद्य हि ॥ 024c
अरुणेन यथा सार्धं तमः सूर्यो व्यपोहति । 025c
तथा कर्णेन सहितो जहि पार्थं महाहवे ॥ 025c
उद्यन्तौ च यथा सूर्यौ बालसूर्यसमप्रभौ । 026a
कर्णशल्यौ रणे दृष्ट्वा विद्रवन्तु महारथाः ॥ 026c
सूर्यारुषौ यथा दृष्ट्वा तमो नश्यति मारिष । 027a
तथा नश्यन्तु कौन्तेयाः सपाञ्चालाः ससृञ्जयाः ॥ 027c
रथिनां प्रवरः कर्णो यन्तॄणां प्रवरो भवान् । 028a
संयोगो युवयोर्लोके नाभून्न च भविष्यति ॥ 028c
यथा सर्वास्ववस्थासु वार्ष्मेयः पाति पाण्डवम् । 029a
तथा भवान्परित्रातु कर्णं वैकर्तनं रणे । 029c
'सारथ्यं क्रियतां तस्य युध्यमानस्य संयुगे ॥ 029e
यथा च समरे कृष्णो रक्षते सर्वतोऽर्जुनम् । 030a
तथा त्वमपि राधेयं रक्षस्व च महारणे' ॥ 030c
त्वया सारथिना ह्येष अप्रधृष्यो भविष्यति । 031a
देवतानामपि रणे सशक्राणां महीपते । 031c
किं पुनः पाण्डवेयानां मा विशङ्कीर्वचो मम ॥ 031e
सञ्जय उवाच । 032
दुर्योधनवचः श्रुत्वा शल्यः क्रोधसमन्वितः । 032a
'धार्तराष्ट्रमथोवाच सृक्किणी परिलेलिहन्' ॥ 032c
त्रिशिखां भ्रुकुटिं कृत्वा धुन्वन्हस्तौ पुनःपुनः । 033a
क्रोधरक्ते महानेत्रे परिवृत्य महाभुजः । 033c
कुलैश्वर्यश्रुतबलैर्दृप्तः शल्योऽब्रवीदिदम् ॥ 033e
शल्य उवाच । 034
न मामर्हसि राजेद्र नियोक्तुं कर्मणीदृशे । 034a
न हि पापीयसः श्रेयान्प्रेष्यत्वं कर्तुमर्हति ॥ 034c
यो ह्यभ्युपगतं मित्रं गरीयांसं विशेषतः । 035a
वशे पापीयसो धत्ते तत्कार्यमधरोत्तरम् ॥ 035c
ब्रह्मणा ब्राह्मणाः सृष्टा मुखात्क्षत्रं च बाहुतः । 036a
ऊरुभ्यामथ वैश्या वै शूद्राः पद्भ्यामिति श्रुतिः ॥ 036c
तेभ्यो वर्णविशेषाश्च प्रतिलोमानुलोमजाः । 037a
अथान्योन्यस्य संयोगाच्चातुर्वर्ण्यस्य भारत ॥ 037c
गोप्तारः सङ्गृहीतारो दातारः क्षत्रियाः स्मृताः ॥ 038ac
याजनाध्यापनैर्विप्रा विशुद्वैश्च प्रतिग्रहैः । 039a
लोकस्यानुग्रहार्थाय स्थापिता ब्राह्मणा भुवि ॥ 039c
कृषिश्च पाशुपाल्यं च विशां दानं च धर्मतः । 040a
ब्रह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः ॥ 040c
ब्रह्मक्षत्रस्य विहिताः सूता वै परिचारकाः । 041a
न क्षत्रियो वै सूतानां शृणुयाच्च कथञ्चन ॥ 041c
अहं मूर्धाभिषिक्तो हि राजर्षिकुलजो नृपः । 042a
महारथसमाख्यातः सेव्यः स्तुत्यश्च वन्दिनां ॥ 042c
सोऽहमेतादृशो भूत्वा नेहारिबलसूदनः । 043a
सूतपुत्रस्य सङ्ग्रामे सारथ्यं कर्तुमुत्सहे ॥ 043c
अवमन्यसे मां गान्धारे ध्रुवं चाप्यतिशङ्कसे । 044a
यस्माद्ब्रवीषि विस्रब्धः सारथ्यं क्रियतामिति ॥ 044c
अस्मत्तोऽभ्यधिकं कर्णं मन्वानस्तं प्रशंससि । 045a
न चाहं युधि राधेयं गणये तुल्यमात्मनः ॥ 045c
आदिश्यतामभ्यधिको ममांशः पृथिवीपते । 046a
तमहं समरे हत्वा गमिष्यामि यथागतम् ॥ 046c
अथवाप्येक एवाहं योत्स्यामि तव शत्रुभिः । 047a
पश्य वीर्यं ममाद्य त्वं सङ्ग्रामे दहतो रिपून् ॥ 047c
न चापि कामान्कौरव्य निधाय हृदये पुमान् । 048a
अस्मद्विधः प्रवर्तेत मा मा त्वमतिशङ्किथाः ॥ 048c
अपि चाप्यवमानो मे न कर्तव्यः कथञ्चन । 049a
पश्य भीमौ मम भुजौ वज्रसंहननौ दृढौ ॥ 049c
धनुः पश्य च मे चित्रं शरांश्चाशीविषोपमान् । 050a
रथं च पश्य मे चित्रं सदश्वैर्वातवेगिभिः ॥ 050c
गदां च पश्य गान्धारे हेमपट्टविभूषिताम् । 051a
दारयेयं महीं क्रुद्धो विकिरेयं च पर्वतान् । 051c
शोषयेयं समुद्रांश्च पातयेयं च भास्करम् ॥ 051e
तं मामेवंविधं राजन्समर्थमरिनिग्रहे । 052a
कस्माद्युनङ्क्षि सारथ्ये सूतस्याधिरथेस्तु माम् ॥ 052c
न चापि मम राधेयः कलामर्हति षोडशीम् ॥ 053ac
सकर्णा ये त्रयो लोकाः सार्जुनाः सजनार्दनाः । 054a
निबद्धांस्तान्त्रणे राजन्न गणेयं कथञ्चन ॥ 054c
न चाहं प्राकृतः कश्चिन्न चास्म्यधिगतः स्वयम् । 055a
अयं चाप्यवमानो मे न कर्तव्यः कथञ्चन ॥ 055c
आपृच्छे त्वाद्य गान्धारे यास्यामि विषयं प्रति । 056a
न चाहं सूतपुत्रस्य सारथ्यमुपजग्मिवान् ॥ 056c
अवमानमहं प्राप्य न योत्स्यामि कथञ्चन । 057a
आपृच्छे त्वाऽद्य गान्धारे गमिष्यामि गृहाय वै ॥ 057c
सञ्जय उवाच । 058
एवमुक्त्वा महाराज शल्यः समितिशोभनः । 058a
उत्थाय प्रययौ तूर्णं राजमध्यादमर्षितः ॥ 058c
प्रणयाद्बहुमानाच्च तं निगृह्य सुतस्तव । 059a
अब्रवीन्मधुरं वाक्यं साम्ना सर्वार्थसाधकम् ॥ 059c
यथा शल्य त्वमात्थेदमेवमेतदसंशयम् । 060a
अभिप्रायस्तु मे कश्चित्तं निबोध जनेश्वर ॥ 060c
न कर्णोऽभ्यधिकस्त्वत्तो न चान्ये चैव पार्थिवाः । 061a
न च मद्रेश्वर त्वां वै कृष्णः सोढुं च शक्ष्यति ॥ 061c
ऋतमेव हि पूर्वास्ते वदन्ति पुरुषोत्तमाः । 062a
तस्मादार्तायनिः प्रोक्तो भवानिति मतिर्मम ॥ 062c
शल्यबूतस्तु शत्रूणां यस्मात्त्वं युधि मानद । 063a
तस्माच्छल्येति ते नाम कथ्यते पृथिवीतले ॥ 063c
यदेतद्व्याहृतं पूर्वं भवता भूरिदक्षिण । 064a
तदेव कुरु धर्मज्ञ मदर्थं यद्यदुच्यते ॥ 064c
न च त्वत्तो हि राधेयो न चाहमपि वीर्यवान् । 065a
वृणेऽहं त्वां हयाग्र्याणां यन्तारमिह संयुगे ॥ 065c
मन्ये चाभ्यधिकं शल्य गुणैः कर्णं धनञ्जयात् । 066a
भवन्तं वासुदेवाच्च लोकोऽयमतिमन्यते ॥ 066c
कर्णो ह्यभ्यधिकः पार्थादस्त्रैरेव नरर्षभ । 067a
भवानभ्यधिकः कृष्णादश्वज्ञाने बले तथा ॥ 067c
यथाऽश्वहृदयं वेद वासुदेवो महामनाः । 068a
द्विगुणं त्वं तथा वेत्सि मद्रराजेश्वरात्मज ॥ 068c
शल्य उवाच । 069
यन्मां ब्रवीषि गान्धारे मध्ये सैन्यस्य कौरव । 069a
विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि ॥ 069c
एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः । 070a
युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे ॥ 070c
समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति । 071a
उत्सृजेयं यथाश्रद्धमहं वाचोऽस्य सन्निधौ ॥ 071c
सञ्जय उवाच । 072
तथेति राजन्पुत्रस्ते सह कर्णेन भारत । 072a
अब्रवीन्मद्रराजस्य मतं भरतसत्तम् ॥ ॥ 072c

इति श्रीमन्महाभारते कर्णपर्वणि त्रयोविंशोऽध्यायः ॥ 23 ॥

8-23-8 अभीषूणां हयरश्मीनाम् ॥ 8-23-22 पुनर्नः समरे राजन्मावधीदर्जुनो रिपून् । इति क.पाठः ॥ 8-23-29 त्रातु त्रायताम् ॥ 8-23-34 पापीयसः नीचयोनेः प्रेष्यत्वं दासत्वम् ॥ 8-23-41 न विटूशूद्रस्य संयोगं शृणु चान्यं ममानघ इति क.ख.पाठः ॥ 8-23-62 ऋतमेव अयनं आश्रयो येषां ते ऋतायनास्तेषां गोत्रापत्यमार्तायनिस्त्वम् ॥ 8-23-71 वाच उत्सृजेयं ताः अनेन क्षन्तव्या इति भावः ॥